________________
.
.
.
भाष्यटीकाविवृतियुता] सामान्येन प्रतिवचने सल्लक्षणपृच्छा
[भाष्यम्-] अन्रोच्यते-लक्षणतः। किञ्च सतो लक्षणमिति?। अत्रोच्यतेगत्याद्युपकारेणानुमितमस्तित्वं प्राक् ते प्रसिद्धसत्ताका एव, कुतः सन्देहः ? अयमभिप्रायः प्रष्टुःगत्याद्युपग्रहकारिणः किल धर्मादयः केऽपीत्यप्रसिद्धसत्ताकेनैव प्रपत्राभ्युपेतम् । इदानीं तु प्रश्नयतिकथं पुनरेषां धर्मादीनां विद्यमानत्वं निश्चेयमिति ? । आचार्य आह-अत्रोच्यते लक्षणतः॥ आचार्यस्यायमभिप्रायः-सङ्ग्रहादेकीभावादुत्पादादयः सल्लक्षणमस्तिशब्दविषयः, एवंविधाश्चैत उपलभ्यन्त इत्यतः सामान्येन तावदुपन्यस्यति-लक्षणत इति । पुनरपि सामान्याभिधाने सन्दिहान आह-किश्च सतो लक्षणमिति? किं पुनः सतो लक्षणं ? लक्ष्यते येन लक्षणेन प्रमाणानि तद्विषयश्च, लक्ष्यते येन सदेतदिति । अत्रोच्यत इत्याचार्यः प्रतिजानीते सत्त्वलक्षणम् , तेषां धर्मादीनामस्तित्वाव्यभिचारि लिङ्गमिदमुच्यते । एतदुक्तं भवति-धर्माधर्माकाशपुद्गलजीवाः पञ्चास्तिकाया जगतः स्वतत्त्वम्, तत्र जीवद्रव्यं धर्मादीनां ग्राहकं स्वरूपस्य चेति, सङ्केपतः शब्दार्थज्ञानानि सत्त्वलक्षणलक्ष्याणीति. अतः सकलाभिगम्याभिगमोपायविषयेण प्रश्नेनोपक्रान्तं चोदयित्वाऽतः प्रतिवचनमपि तथैवाचार्येणोच्यते, येन लक्षणेन प्रमाणानि तद्विषयश्च लक्ष्यते तद्व्यापि लक्षणमभिधीयत इति । तच्चेदं सत्रमयोरभेदमुपचर्य प्रश्नस्य संदेहरूपतया कीर्तनमिति मन्तव्यम् । स्वरूपे निश्चिते यत्र तत्करणतत्प्रकारयोः सन्देहस्तत्र करणे प्रकारे च जिज्ञासा जायते, प्रकृते तु सत्त्वस्वरूपमेव सन्दिग्धमिति तत्रैव प्रश्न इत्याशयेन पक्षान्तरमाश्रयति-अथवेति । सत्त्वं कारणतावच्छेदककोटिप्रविष्टमिति यत्किञ्चित्कार्यम्प्रति कारणत्वेऽवधृते सत्त्वमप्यवधृतमिति निश्चिते सन्देहानवकाश इत्याशयेन शङ्कते-नन्विति, सत्त्वं न कारणकोटिनिविष्टं न वा कारणत्वमेव सत्त्वं किन्तु तदन्यदेवेति गत्यादिकं प्रति धर्मादेः कारणत्वनिश्चयेऽपि सत्त्वे सन्देहः स्यादेवेत्यभिप्रायेण धर्मादीनि सन्तीति कथं गृह्यत इति प्रश्नप्रवृत्तिरित्याह-अयमभिप्रायः प्रष्टुरिति, सङ्ग्रहात्, सङ्ग्रहनयाभिप्रायात् । एकीभावात्, कथञ्चित्तादात्म्याध्यवसायात् , उत्पादादय इत्यत्रादिपदाध्ययस्थित्योरुपग्रहः। अस्तिशब्दविषयः, अस्तिशब्दप्रतिपाद्यः। एवंविधाः, उत्पादव्ययध्रौव्यात्मकाः। उपलभ्यन्ते, प्रमाणविषयीभूता भवन्ति, तदुक्तं न्यायविशारदेन श्रीमद्यशोविजयवाचकवरेण
"तद्धेम कुण्डलतया विगतं यदुच्चैरुत्पन्नमङ्गदतयाऽचलितं स्वभावात् ॥
लोका अपीदमनुभूतिपदं स्पृशन्तो न त्वां श्रयन्ति यदि तत्तदभाग्यमुग्रम् ॥ १॥" इति। सामान्याभिधाने सन्दिहान इति, सामान्यप्रकारकज्ञानस्य विशेषजिज्ञासाहेतुत्वात्, तच्च साधारणधर्मवद्धर्मिज्ञानस्य कोटिद्वयोपस्थापकत्वेन विशेषसंशयहेतुत्वेनापि निर्वहतीति। प्रमाणानि तद्विषयश्चेति, सर्वत्र लक्षणानुगत्युपपत्तये । प्रकृते तदनुगमनायाह-लक्ष्यते येन सदेतदितीति । प्रतिजानीते, वर्तमानकालाव्यवहितोत्तरकालीनकर्त्तव्यत्वप्रकारकज्ञानानुकूलव्यापारवानित्यर्थः । सत्त्वलक्षणमित्यत्र द्वितीयार्थो विशेष्यत्वं तत्र प्रकृत्यर्थस्याधेयतयान्वयः, तस्य च निरूपकत्वसम्बन्धेन प्रतिज्ञाघटकज्ञानेऽन्वयः, 'अत्रोच्यते' इत्यस्य प्रतिजानीते सत्त्वलक्षणमिति अर्थमभिधाय पुनस्तस्यैव प्रकृतार्थसमन्वयेनार्थमाह-तेषामिति, सत्त्वलक्षणमिति यदुक्तं तस्यैवोपव्याख्यानम् । अस्तित्वाव्यभिचारि लिङ्गमिदमिति, इदमित्यनन्तरवक्ष्यमाणसूत्रार्थ परामृशति, सत्त्वलक्षणलक्ष्यं जगदेव भवितुमर्हत्यतस्तल्लक्षणमखिलसंग्राह्येव वाच्यमित्यर्थोपोद्वलनाय भावार्थमाविष्करोति-पतदुक्तं भवतीति । धर्मादीनि सन्तीत्यादिपृच्छाविषयो नैकस्य सत्त्वं किन्त्वशेषस्य जगत इत्यर्थस्फोरणाय तत्रत्यादिपदसगृहीतसकलार्थमुल्लिखति-धर्माधर्मेत्यादि, एतावता प्रमेयसामान्यगततयैव सत्त्वं पृच्छाविषयो न तु प्रमाणसत्त्वमपीत्याशङ्कोन्मेषापनोदायाह-तत्र जीवद्रव्यमिति, स्वपरव्यवसायि ज्ञानं प्रमाणं, जीवश्च खपरग्राहको ज्ञानपर्यायस्वरूपश्चेति तद्भहणेन प्रमाणमपि गृहीतमेव भवति, प्रमाणं च विषयसमन्वितमेव व्यवहारपथमवतरतीति तद्भहणेन विषयोऽप्याक्षिप्त एवेति । अर्थाभिधानप्रत्ययास्तुल्यनामधेया इति सामान्योक्तौ योग्यत्वात्सर्वेऽपि बुद्धिस्था भवन्तीत्यनुसन्दधानेनोक्तं सझेपत इति । यद्यपि लक्षणाधीना लक्ष्यव्यवस्थितिः, तथापि शृङ्गित्वं गोलक्षणमुपकल्प्य महिषस्यापि गोत्वं मा प्रापदतो लक्ष्यैकचक्षुषामेव लक्षणनिरूपणं कान्तमिति सामान्यतो लक्ष्यस्वरूपावधृतौ लक्षणमतिव्यायादिदोषानाघ्रातं सुखावबोधमित्यभिप्रायेणाह-अत इति । सकलाभिगम्येति, सकलं यदभिगम्यं धर्मादि वस्तु तस्य योऽभिगमः सर्वतोभावेन ज्ञानं सदात्मना प्रतीतिस्तस्योपायस्सकलव्यापि सत्त्वलक्षणं तद्विषयेणेत्यर्थः । धर्मादिसकलवस्तुगतसत्वलक्षणमेव पृच्छाविषयोऽत उत्तरमपि तथैव विधेयं येनाशेषस्य जगतः सत्त्वमावेदितम्भवतीत्याह-अतःप्रतिवचनमणीति॥