Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 97
________________ [ ५६ ] धर्मकीर्तिकीर्तितविरोधद्वैविध्यापाकरणम् । [ तत्वार्थत्रिसूत्री यतोऽसहावस्थानलक्षण एव विरोधो द्विधा कल्प्यते, नामैव च लक्षणं, न सहावस्थानं लक्षणं यस्य विरोधस्येत्यनेनैव शीतोष्णस्पर्शयोरिव नित्यानित्यविरोधस्यापि सङ्गृहीतत्वाद् भेदेनाभिधाने प्रयोजनाभावाद् दुर्विदग्धतामात्रमेवावशिष्यते भिक्षुवरस्य । स्यादियमारेका, दृश्यपरिनिष्पन्नयोः प्राच्यः, इतरः परिकल्पितरूपयोः, स्वसामान्यलक्षणविषयत्वेन भेदप्रकाशन मिति, एतदप्यसङ्गतम्, स्वलक्षणभेदानामानन्त्यात् परिकल्पबहुत्वाच्च कुतो द्वैविध्यम् । अपि च नित्यता भवतु परिकल्पः, अनित्यता पुनः संस्कृतलक्षणम्, “उत्पत्तिः स्थितिर्जराऽनित्यते " ति वचनात् । दिग्नागेनाप्युक्तम्, “नित्यसमायां जातौ स एव तु भावोऽभूत्वा भवन् भूत्वा वाऽभवन्ननित्य इत्युच्यते सा चावस्था भावप्रत्ययेनानित्यते" ति, एवं च न नित्यानित्ययोः सामान्यलक्षणयोर्विरोधः, नापि स्वलक्षणसामान्यलक्षणयो:, स्वलक्षणोपादा नाम तदेव च लक्षणमिति । एतदेव भावयति न सहावस्थानमिति । भवतु नामैव लक्षणं ततः का नो हानिरत आहअनेनैवेति, उक्तलक्षणेनैवेत्यर्थः । भेदेनाभिधान इति, परस्परपरिहारस्थितिलक्षणतयाऽभिधान इत्यर्थः । दुर्वि - दग्धता दुष्पाण्डित्यम् । भिक्षुवरस्य धर्मकीर्तेः । स्वलक्षणयोर्वस्तुभूतयोः प्रथमो विरोधः, सामान्ययोश्च परिकल्पितयोर्द्वितीय इति विषयभेदेन विरोधद्वयोपदर्शनं नायुक्तमिति पराभिप्रायमुत्थापयति- स्यादियमारेकेति । प्राच्यः, असहावस्थानलक्षणो विरोधः । इतरः परस्परपरिहार स्थितिलक्षणो विरोधः । स्वसामान्यलक्षणविषयत्वेनेति, अत्र स्खलक्षणसामान्यविषयत्वेनेति पाठो युक्तः, यतः सामान्योत्तरलक्षणशब्देन खस्य सम्बन्धे खलक्षणलाभेऽपि सामान्यलक्षणस्यापि लाभात् न च विकल्पगोचरस्य सामान्यलक्षणपरिभाषा बौद्धानां किन्तु सामान्य परिभाषैवेति, अथवोत्तर ग्रन्थपर्यालोचनात्सामान्यलक्षणपरिभाषाऽपि परिकल्पितस्यातो यथाश्रुतपाठोऽपि युक्त एवेति बोध्यम् । तथा च खलक्षणविषयत्वेना सहावस्थानलक्षणविरोधस्य कथनं सामान्यलक्षणविषयत्वेन परस्परपरिहारस्थितिलक्षणविरोधस्य कथनमित्येवं प्रयोजनसम्बन्धाद्विरोधद्वैविध्योपवर्णनं प्रेक्षापूर्वका रितैवावेदयति कर्तुर्धर्मकीर्तेरित्याशयः । यदि विषयद्वैविध्याद्विरोधद्वैविध्यं तदा स्खलक्षणानामप्यनेकप्रकारत्वात् परिकल्पितानां सामान्यलक्षणानामप्यनेकविधत्वाद्विरोधानन्त्यमेव स्यान्न द्वैविध्यमिति समाधत्ते - एतदप्यसङ्गतमिति । परिकल्पेति, सामान्येत्यर्थः । यदि च खलक्षणानामवान्तरभेदेऽपि खलक्षणत्वेन सर्वेषामुपग्रहात् सामान्यलक्षणानामवान्तरभेदेऽपि सामान्यलक्षणत्वेन सर्वेषामुपग्रहाच्च विषयद्वैविध्यमास्थाय विरोधद्वैविध्यमुच्यते तदाप्याह - अपि चेति । बौद्धमते क्षणिकैकान्ते नित्यस्य कस्यचिदभावान्नित्यत्वं कल्पितरूपमेवेति कृत्वा परिकल्परूपत्वेन सामान्यलक्षणत्वं भवतु, अनित्यं तु तन्मते खलक्षणमतोऽनित्यत्वं वस्तुभूतं परिकल्पत्वाभावान्न सामान्यलक्षणम्, तयोर्विरोधो न स्वलक्षणैकविषयलक्षणलक्ष्यो नापि सामान्यलक्षणैक विषयलक्षणलक्ष्यः, विरोधस्य तृतीयप्रकारस्तु भवता नोपदर्शित एवेति तयोर्विरोध एव न स्याद, भवन् वा विरोधस्य तृतीयप्रकारमादाय स्यात्, ततो द्वैविध्याभिधानं विरोधस्यासङ्गतमेवेत्याह- नित्यतेति । संस्कृतलक्षणमिति, संस्कारप्राप्तं स्वमेव लक्षणं यस्येति व्युत्पत्त्या स्वलक्षणमित्यर्थः, वस्तुखरूपाख्याने नास्य संस्कारो विहित इत्यत्रैतत्स्वरूपप्रख्यापकवचनं प्रमाणतयोपदर्शयति- उत्पत्तिरिति, परमाण्वादीनां योत्पत्तिः सैव स्थितिस्तेषामन्यदाऽवस्थानाभावेन तद्रूपस्थितेरसम्भवात्, या जरा विनश्यदवस्था सैवानित्यता, अतिरिक्तध्वंसस्यानभ्युपगमेन तत्प्रतियोगित्वलक्षणानित्यत्वस्याभावात्, एवञ्च वस्तुस्वरूपमेवानित्यत्वमतो न परिकल्पः । बौद्धप्रकाण्डेन दिग्नागेनापि संस्कृतलक्षणमनित्यमिति तेनापि वस्तुभूतमेवानित्यत्वमुपगतमिति दर्शयति- दिग्नागेनाप्युक्तमिति । किमुक्तमित्यपेक्षायां तदुक्तिमुपनिबध्नाति - नित्यसमायामिति, असदुत्तररूपाया जातेर्विशेषो नित्यसमाभिधानजातिस्तस्यां प्रसङ्गागतायामित्यर्थः । सा चावस्थेति, अभूत्वा भवनलक्षणा भूत्वाऽभवनलक्षणा चेत्यर्थः, अवस्था चावस्थातुरभिन्नेति खलक्षणरूपताऽनित्यत्वस्य ततः प्राप्तेति भावः । भवत्वनित्यत्वं खलक्षणमेव ततः किमत आह-एवञ्चेति, नित्यत्वस्य परिकल्पत्वेऽनित्यत्वस्य स्वलक्षणत्वे चेत्यर्थः । न नित्येति, सामान्यलक्षणयोर्यो विरोधः परस्परहरिहारस्थितिलक्षणः स न नित्यानित्ययोः, नित्यत्वस्य सामान्यलक्षणत्वेऽपि अनित्यत्वस्य तत्त्वाभावादित्यर्थः, स्वलक्षणयोर्योऽसहावस्थानलक्षणो विरोधः स नित्यानित्ययोर्धर्मकीर्त्तिनाऽपि नाभ्युपगत इति तत्प्रतिक्षेपो न कृतः, अर्थात्प्रतिक्षेपस्तु तस्यागत एव, अनित्यत्वस्य स्वलक्षणत्वेऽपि नित्यत्वस्य तत्त्वाभावादिति । भवतु तत्संप्रहृाय विरोधस्य तृतीयप्रकारोऽप्यत आह-नापि स्वलक्षणसामान्यलक्षणयोरिति । नित्यं यदि किश्चि

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150