Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 75
________________ [३४] प्रायोगिकविनाशापलापिनो बौद्धस्य युक्तिजालम् । [तत्त्वार्थत्रिसूत्री वृत्तत्वान्न तथोपलब्ध्यादिप्रसङ्ग इति, उच्यते-न स्वभावान्तरं कपालादिकं विनाशहेतुना क्रियमाणमस्यानित्यस्य घटादेरावरणं युज्यते, कृतेऽपि तस्मिन् कपालादिके विनाशहेतुना घटे च तदवस्थ एव दृश्यात्मनि कुतस्त्य आवरणसम्भवः ?, न चैकत्रैकदा युज्यते दर्शनादर्शने विरुद्धत्वात् । नापि विनाशहेतुना तृतीयपक्षापतितो भावाभावः क्रियते, तत्र यद्येवं विकल्प्यते-न विवक्षितो भावः अभाव इति, ततोऽन्यः स्याद् भाव एव, एवं चाभावस्य विधिना पर्युदासरूपेण कार्यत्वाभ्युपगमे व्यतिरेकाव्यतिरेकविकल्पानतिक्रमः सम्भाव्यते-यदि व्यतिरिक्तमन्यं भावं करोति ततस्तथोपलब्ध्यादिप्रसङ्गस्तदवस्थः, अथाव्यतिरिक्तं तमेव भावं करोतीति, तदप्ययुक्तम् , तस्य प्रथमतरमेव स्वकारणैर्निर्वर्तितत्वात् ॥ अथ क्रियाप्रतिषेधमात्रमालम्ब्यते, एवं सति अभावस्य भावप्रतिषेधरूपत्वेऽभ्युपेयमाने अभावं करोतीत्यसमर्थसमासेनोक्तं भावं न करोतीत्ययमर्थः सम्पयेत, तथा च सति अकर्तु शहेत्वभिमतस्याहेतुत्वमकारकत्वमिति न विनाशहेतुर्नाम कश्चन सम्भवत्यन्यत्र विनष्टुस्तद्धर्मताया इत्युपसंहारः, वैयर्थ्याच्च न विनाशहेतुरस्ति, यस्य भावस्य विनाशाय विनाशहेतुः कल्प्यते स भावः स्वभावतो नश्वरः स्यान्नवा ?, यदि नश्वरः स्वभावत एव भावस्तन्न किञ्चिद्विनाशहेतुनाऽस्य प्रयोजनम् , स्वयं तत्स्वभावतयैव नाशात् , यस्य हि घटादेर्यः स्वभावः स स्वहेतोरेव मृदादिसामग्र्यादिकादुपजायमानस्तादृशो विनाशस्वभावो भवति, न जातुचिद् विनाशे हेत्वन्तरमपेक्षते मुद्गरादिकम् , तत्स्वभावो ह्यात्मलाभानन्तरं स्वयमेव भवत्यन्यथा तत्स्वभाव एव न स्यात् , यश्च यत्स्वभावः स स्वनिष्पत्तिहेतुमपहाय हेत्वन्तरं नापेक्षते प्रकाशादिवत् , प्रकाशादयो हि प्रकाशादिस्वभावाः स्वहेतोरुत्पन्नाः सन्तः पुनरुत्पत्तेः पश्चात् प्रकाशादिस्वभावतायां स्वजन्मव्यतिरिक्तं न हेत्वन्तरमपेक्षन्ते ॥ अथ नैव स्वभावतो नश्यति भाव उत्पन्नः, ततः पश्चादपि न नश्येदनश्वरस्वभावत्वात् , न च तादृशोऽर्थक्रियासु सामर्थ्य सम्भाव्यते । पलब्धीत्यर्थः । बौद्ध उक्ताशङ्कां प्रतिक्षिपति-उच्यत इत्यादिना । विनाशस्याभावरूपतारूपतृतीयपक्षमपाकरोति-नापि विनाशहेतुनेति, भावो विधिरूपो न कारणसहस्रेणाभावीभवितुमर्हतीति खण्डनाभिप्रायः, विनाशोऽभाव इत्यस्य न भावोऽभाव इति व्युत्पत्तौ भावपदं विवक्षितभावपरं नञश्च न प्रसज्यरूपत्वं किन्तु पर्युदासरूपत्वमित्यभिप्रायेणाह-तत्रेति, अभावपदे इत्यर्थः । ततो विवक्षितभावात् । व्यतिरेकाव्यतिरेकेति, विवक्षितप्रतियोगिस्वरूपभावव्यतिरिक्तः स भावः, तदव्यतिरिक्तो वा स भाव इति विकल्पानतिक्रम इत्यर्थः । भवतूक्तविकल्पानतिक्रमस्तत्र को दोष इत्यत आह-यदीति । तमेव प्रतियोगितयाऽभिमतं घटमेव । तस्य घटस्य प्रथमतरमेव मुद्गरपातात्पूर्वमेव । तृतीयपक्षेऽभावपदे नञः प्रसज्यरूपत्वमेवेत्यभिप्रेत्याह-अथेति, “पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥१॥" इति वचनान्ननः प्रसज्यरूपत्वे अभाव इत्यस्य भावो न भवतीत्येवंखरूपता स्यात् , प्रसज्यार्थकस्य नमोऽसमर्थत्वेन 'समर्थः पदविधिः' इत्यनुमोदितसमासस्वरूपघटकता न स्यादेवेत्यभ्युपगममात्रेणासमर्थस्यापि तस्य समास इत्यभिसन्धायोक्तम्-असमर्थसमासेनेति । यद्यपि “अमानोनाः प्रतिषेधवचना" इति वचनादभावं करोतीत्यत्राकारः समासानिविष्टोऽपि सम्भवति, तथापि तस्य प्रयोगो न प्राय उपलभ्यत इति बोध्यम् । तथा च सति, भावं न करोतीत्यर्थे च सति । न विनाशहेतुरिति, विनस्तद्धर्मताया अन्यत्र कश्चन विनाशहेतुर्न सम्भवतीति योगः, विनष्टविनशनशीलस्य, तद्धर्मताया अन्यत्र विनश्वरखभावतां विहाय । वैयर्थ्याच्चेत्युक्तं तदेवोपपादयति-यस्येत्यादिना । अस्य विनश्वरखभावस्य भावस्य, तत्स्वभावतयैव विनश्वरस्वभावतयैव । पूर्वोक्तमेव प्रपञ्चयति-यस्य हीत्यादिना । प्रकाशादिवदिति, एतदृष्टान्तोपपादनायाह-प्रकाशादयो हीति । ननु भाषस्य विनश्वरस्वभावतैव नास्माभिरङ्गीक्रियते तत्राह-अथेति । तादृशोऽनश्वरखभावस्य, अक्षणिकस्येति यावत्, अर्थक्रियाकारित्वलक्षणस्य सत्त्वस्य निये प्रसङ्गविपर्ययाभ्यां क्रमयोगपद्यरूपव्यापकनिवृत्त्या

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150