Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
भाष्यटीकाविवृतियुता] उत्पादादीनां सत्त्वासत्त्वे, संसर्गलक्षणं वस्तु एक नित्यमनित्यञ्च । [४९] मेव वस्तु, स्वरूपार्पणयोत्पादः सन् स्थितिविनाशाभावविशिष्टग्रहणादसन् , एवं स्थितिविनाशावपि वाच्यौ । एवं हि त्रिविधग्रहणं समर्थितं भवति ॥ तथा स्वात्मापरित्यागार्पणान्नित्यम् , उत्पादव्ययार्पणात् तदेवानित्यम् , स्थित्यादयश्च सङ्ग्रहादेकीभावाद् वस्तु, न स्थितिरहितावुत्पादविनाशौ, नाप्युत्पादध्ययशून्या स्थितिः, अतः संसर्गलक्षणं वस्त्वेकमेव नित्यं चानित्यं च ॥ ननु चोत्पादव्ययध्रौव्ययुक्तं सदिति त्रिस्वभावमेव सत्त्वेनावधृतम् , भाष्यकारस्तु सञ्च त्रिविधमपीयेव विवृण्वन्नेकैकस्य सत्त्वं प्रतिपादयति, नैष दोषः, अविभक्तेऽपि वस्तुनि स्वभावत्रयाख्यानमन्योन्यापरित्यागद्वारेणैव क्रियते, अन्यथा कथं कथ्येत प्रज्ञापनागोचरः ? । स्थित्यादयो हि परस्परावियोगिनः सर्वदा सदसदात्मका
घटत्वस्यार्पणमन्येषां च धर्माणां तत्र सतामप्यनर्पणम् , एवं पटादिकार्यावरणाद्यभावप्रतिपत्तिप्रयोजनं यदाभिप्रेतं तदाऽत्र घटोऽस्तीत्यत्र घटपदेन पटत्वावच्छिन्नासत्त्वरूपवस्त्वन्तराभावविशिष्टत्वेन घटबोधोऽभिप्रेत इति पटत्वेनासत्त्वस्यैव वस्त्वन्तराभाववैशिष्ट्यस्यार्पणमन्येषां च घटत्वादीनामनर्पणम्, प्रमाणेनावगाहनन्त्वशेषधर्मकलापोपेतस्य घटाख्यवस्तुन इति । उपसंहरतितस्मादिति, प्रयोजनानुसारिविवक्षाविवक्षानिबन्धनार्पणानर्पणगोचरधर्मसमष्टिसमन्वयादित्यर्थः । सञ्चेति, एकमेव वस्तु सच्चासच्चाभ्युपगन्तव्यमित्यर्थः । वस्तुखरूपान्तःसन्निविष्टानामुत्पादव्ययस्थितीनामपि प्रत्येकं वस्तुत्वमेवोत्पादादित्रययोगस्य वस्तुत्वोपपत्तये प्रत्येकमपि तेष्ववश्यमभ्युपगमनीयत्वाद्, एवञ्च तेष्वपि सत्त्वासत्त्वे उपपादनीये तत्कथमित्यपेक्षायामाह-स्वरूपार्पणयेति, उत्पादत्वविवक्षयेत्यर्थः । यदोत्पादे उत्पादत्वं पूर्वकालासत्त्वे सति सत्त्वप्रतिपत्तिप्रयोजनवशाद्विवक्ष्यते तदा तदेवार्पितम् , तदा तद्रूपेणोत्पादः सन् , स्थितिविनाशत्वादिना तदसत्त्वलक्षणवस्त्वन्तराभाववैशिष्ट्यच्चानर्पितम् , ग्रहणन्तु तस्याप्यन्यथोत्पादज्ञानस्य प्रामाण्यमेव न स्यादतः स्थितिविनाशाभावविशिष्टतया ग्रहणविषयत्वादसन् उत्पाद इति । उक्तदिशा स्थितिविनाशयोरपि सत्त्वासत्त्वे वाच्ये इस्यतिदिशति-एवमिति । उत्पादादीनां प्रत्येकं सत्त्वासत्त्वयोरुपपादनस्य प्रयोजनमाह-एवं हीति । त्रिविधग्रहणमिति, सच्च त्रिविधमपीति भाष्ये त्रिविधग्रहणमित्यर्थः । एकस्य नित्यत्वानित्यत्वधर्मयोगं समर्थयति-तथा स्वात्मापरित्यागेति। स्थित्यादीनां परस्पराविष्वग्भावाद्वस्तुत्वमुपपादयति-स्थित्यादयश्चेति । सङ्ग्रहात् संग्रहनयार्पणात् । एकीभावादन्योन्याविष्वग्भावात् । कथं तेषामन्योन्याविष्वग्भाव इत्यपेक्षायामाह-न स्थितिरहितेति । संसर्गलक्षणं परस्पराविष्वग्भावापन्नोत्पादव्ययस्थित्यात्मकम् । अत्र स्थित्यंशाजहद्वृत्तित्वान्नित्यत्वमुत्पादव्ययभावापन्नत्वादनित्यत्वमित्याह-नित्यं चानित्यं चेति । भाष्ये सूत्रविरोधमाशङ्कते-नन्वित्यादिना। उक्ताशङ्काम्प्रतिक्षिपति-नैव दोष इति । अविभक्तपीति । यथा
“भागे सिंहो नरो भागे योऽशो भागद्वयात्मकः । तमभाग विभागेन नरसिंह प्रचक्षते ॥१॥" इति न्यायेनोत्पादादित्रयात्मकस्य वस्तुनोऽखण्डात्मकतैव न तु भागत्रयरूपतेत्यविभक्तेऽखण्डेऽपीत्यर्थः । स्वभावत्रयाख्यानमुत्पादादित्रयस्वरूपप्रतिपादनम् । अन्योन्यापरित्यागद्वारेणेति, उत्पादव्ययावियुतस्थितिरूपेण स्थितेः स्थितिव्ययावियुतोत्पादरूपेणोत्पादस्योत्पादस्थित्यवियुतव्ययरूपेण व्ययस्य च प्रतिपादनं क्रियतेऽतो न वस्त्वन्तरत्वप्रसङ्ग इति भावः । एकस्यवस्तुन उत्पादादित्रितयखभावत्वं शब्देन प्रतिपादयितुमभिलषितं तदन्यथा सम्भवत्येवेत्याह-अन्यथेति, उक्तप्रकाराश्रयणमन्तरेणेत्यर्थः । कथ्येत प्रतिपाद्येत। प्रज्ञापनागोचरः प्रतिपादयितुमभीष्टः । परस्परावियोगिनः स्थितिरुत्पादव्ययावियुता उत्पादः स्थितिव्ययावियुतः व्यय उत्पादस्थित्यवियुत इत्येवं परस्परावियोगिनः। सर्वदा सर्वात्मकाः, त्रैकाल्येऽपि उत्पादस्योत्पादव्ययध्रौव्यात्मकत्वं व्ययस्योत्पादव्ययध्रौव्यात्मकत्वं ध्रौव्यस्य चोत्पादव्ययध्रौव्यात्मकत्वम् , उत्पत्तेस्त्रैकाल्यं च उत्पन्नमुत्पद्यते उत्पत्स्यते च, स्थितेस्त्रैकाल्यं च स्थितं तिष्ठति स्थास्यति च, व्ययस्य त्रैकाल्यं च व्यतीतं व्यपगच्छति व्यपगमिष्यतीति । अत्रोत्पन्नोत्पद्यमानोत्पत्स्यमानानां वर्तमानोत्पादस्थितिव्ययात्मकत्वे नव भेदाः, एवमतीतोत्पादस्थितिव्ययात्मकत्वे नव भेदाः, एवं भविष्यदुत्पादस्थितिव्ययात्मकत्वे नव भेदास्ते च संगृहीता उत्पादस्य सप्तविंशतिर्भेदाः, एवं स्थितस्थीयमानस्थास्यमानानां वर्तमानातीतभविष्यदुत्पादादित्रयाभेदात्सप्तविंशतिभेदाः स्थितेः, एवं व्यतीतव्यपगच्छध्यपगमिष्यतां वर्तमानातीतभविष्यदुत्पादादित्रयाभेदाद्ययस्य सप्तविंशतिर्भेदाः, ते चैकत्र मिलिता एकाशीतिरितिबोध्यम् । ननु वस्तुन उत्पत्त्याद्याश्रयस्य उत्पादादित्रिकालघटितमूर्तियोगेऽपि कथमुत्पादादीनां त्रिकालभेदभिन्नमूर्तिकोत्पादादित्रिलक्षणयोगित्वमित्यत आह-भेदा
तत्रि०७

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150