Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 88
________________ भाष्यटीकाविवृतियुता] अपराचार्याभिप्रायेण सूत्रावतरणिका, व्याख्यानाषयान। [४०] [सूत्रम्-] अर्पितानर्पितसिद्धेः॥५-३१॥ अपरेऽन्यथाकारं सूत्रसम्बन्धमभिदधते-ध्रौव्यस्य नित्यपर्यायत्वेन लक्षणमुक्तमुत्पादव्यययोरुच्यताम् , नोच्यते, तयोर्लोकप्रतीतत्वात् , सामर्थ्यगतेश्वासदनित्यत्वादीनाम् , अतस्तल्लक्षणं न साक्षाद् वाच्यम् , किं कारणम् ? [भाष्यम्-] अर्पितानर्पितसिद्धेः॥ अर्पितं निदर्शितमुपात्तं, तद्विपरीतमनर्पितम् , सिद्धिः-ज्ञानम् , अर्पितेनानर्पितपरिज्ञानमर्पितानर्पितसिद्धिस्तस्याः-ततो हेतोरर्पितानर्पितसिद्धेः, विशेष्यं हि वस्तु नीलोत्पलादिवदुपादीयमानं नियमकारिविशेषणधर्मप्रत्यनीकपर्यायाश्रयतामनुभवत्येवेति न्यायात्, एवमिहापि ध्रौव्यलक्षणेऽर्पितेऽनर्पितावपि साक्षात् तद्विपरीतावुत्पादव्ययौ सङ्गस्येते, पूर्वमुत्तरं च पर्यायं ध्रौव्यमासादयति, न तूत्पादलक्षणः पर्यायो विनाशलक्षणो वा पूर्वोत्तरपर्यायानुभावी, तस्माद् विलक्षणावुत्पादव्ययाविति सुज्ञानम् । एवं सम्बन्धद्वयमभिधाय सूत्रार्थोऽभिधीयते, पूर्वक सम्बन्धमाश्रित्येदं भाष्यम्[भाष्यम्-] सच्च त्रिविधमपि नित्यं चोभे अपि अर्पितानर्पितसिद्धेः॥ चशब्दः समुच्चये, अपि सम्भावने । सत् त्रिविधमुत्पादव्ययस्थितिलक्षणम् , नित्यं च तद्भावाव्ययत्वलक्षणनित्यत्वेऽपि, एवमसत्त्वे पर्यायास्तिकनयादुत्पादव्यययोः प्राधान्यं द्रव्यनयगौणभावाद् ध्रौव्यस्य तद्विषयस्य गुणभावः, एवमनित्यत्वेऽपीति सत्त्वासत्त्वयोर्नित्यत्वानित्यत्त्वाद्रेकत्र वृत्तिन विरुद्ध्यते इत्यभिसन्धानेनैव अर्पितानर्पितसिद्धेरिति सूत्रप्रवृत्तिरित्येकावतरणिका। आचार्यान्तराभिमतामन्यामवतरणिकामुपनिबध्नाति-अपरेऽन्यथाकारमिति । नित्यपर्यायत्वेनेति, एतेनानन्तरसूत्रेण नित्यस्यैव लक्षणमुक्तं न ध्रौव्यस्येति शङ्कायाव्युदासः । सल्लक्षणघटकस्य ध्रौव्यस्य लक्षणप्रतिपत्तयेऽनन्तरसूत्रमभिहितं तथा सद्घटकोत्पादव्यययोर्विविक्तलक्षणप्रतिपत्त्यर्थमपि सूत्रमभिधानीयमित्याह-उत्पादव्यययोरुच्यतामिति । उक्तप्रश्ने प्रतिविधानमाह-नोच्यत इति । तत्किमशक्यनिरूपणत्वात्तदनभिधानमेवं सति तदविज्ञाने तद्घटितसत्त्वलक्षणमप्यविज्ञातमेव स्यात्ततश्च सतोऽवधारणमप्यशक्यं जैनानामित्यतस्तल्लक्षणानभिधाने हेत्वन्तरं प्रकटयतितयोरिति, उत्पादव्यययोरित्यर्थः, दुरूहेऽतिसूक्ष्मेऽर्थे शास्त्रव्यापारस्साफल्यमञ्चति, पूर्वमसतस्सत्त्वं ह्युत्पादपूर्व सतश्चोत्तरकालमसत्त्वं विनाशस्तदुभावपि तन्त्रान्तरीयाणामपि लौकिकानां प्रतीताविति तत एव तयोरवगतिसम्भवात्तल्लक्षणप्रतिपादकसूत्रानारम्भेऽपि न न्यूनत्वमिति भावः । सत उत्पादव्ययध्रौव्यात्मकत्वे तद्विकलस्यासत्त्वं तद्भावाव्ययस्य नित्यत्वे तद्विधुरस्यानित्यत्वं प्राप्तमेवेति न तल्लक्षणप्ररूपणयापि सूत्रव्यापारसाफल्यमित्याह-सामर्थ्यगतेश्चेति । अतः, लोकप्रतीतत्वात्सामर्थ्य गतेश्च । तल्लक्षणम् , उत्पादव्ययासदनित्यत्वादिलक्षणम् । कुतो न साक्षाद्वाच्यमिति प्रश्नमुखेन सूत्रमवतारयति-किं कारणमिति । "अर्पितानर्पितसिद्धेः" इति सूत्रम्, अर्पितेन सूत्रोपात्तेन सत्त्वलक्षणेन नित्यत्वलक्षणेन च अनर्पितस्य सूत्रेण साक्षादनुपात्तस्योत्पादव्ययासदनित्यत्वादिलक्षणस्य सिद्धराज्ज्ञानाद्धेतोस्तल्लक्षणं साक्षान्न वाच्यमिति सूत्रस्य मुकुलि. तोऽर्थः । सूत्रार्थ व्याचष्टे-अर्पितमित्यादिना । तद्विपरीतम् उपात्तविरुद्धमनुपात्तमिति यावत् । सूत्रार्थ व्याख्याय प्रस्तुतसङ्गमनिकामाह-विशेष्यं हीत्यादिना । नीलोत्पलादिवदिति, अत्र उत्पलं विशेष्यं तत्रोपादीयमानं नीलं विशेषणं नियमकारि अनीलव्यवच्छेदकारि, यद्युत्पलं नीलमेव स्यान्न त्वनीलं तदा व्यावाभावान्नियमकारिता तस्य न स्यात् , एवच नीलविशेषणोपादानसामर्थ्यादुत्पलमनीलत्वाश्रयतामप्यनुभवतीति गम्यत इति । यथा योत्पले साक्षादुपात्तेन नीलविशेषेण नानुपात्तस्यानीलस्य प्रतीतिः, तथा प्रकृतेऽपीत्याह-एवमिहापीति । ध्रौव्यापेक्षयोत्पादव्यययोवैलक्षण्यम्भावयति-पूर्वमिति। अभिधीयत इति. भाष्यकारेणेति शेषः। पूर्वक सम्बन्धमिति. उत्पादव्यययोध्रौव्येण सह न वि इत्युपपादनायोक्तसूत्रारम्भ इति सम्बन्धमित्यर्थः । सञ्चेत्यादि भाष्यं विवृणोति-चशब्दः समवय इति। धर्मियोऽनन्त mamimaramanane

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150