Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[५] वस्त्वेकदेशस्यासत्त्वाभावः, नित्यत्वानियत्वयोरैकाधिकरण्यम् । [तत्त्वार्थत्रिसूत्री भेदाभेदलक्षणास्तेषु सत्त्वप्रज्ञापना न विरुध्यते, न ह्येकदेशोऽसन् वस्तुनो भवति पटादेस्तन्त्वादिः। अथ नित्यं चेति किमर्थमुच्यते, सद्हणादेव तद्गृहीतेः पुनर्न किश्चित् फलमस्ति, सद्हणेनैव ध्रौव्यांशस्य लक्षितत्वात् , सच्च त्रिविधमपीत्येतावदेवाभिधेयमिति, अत्रोच्यते-सत्यमेतदेवम् , तथाऽप्यर्थविशेषप्रतिपिपादयिषया पुनर्नित्यग्रहणम् , स विशेषो भाव्यते-यदि ध्रौव्यांश एव नित्यः स्यात् न समस्तं वस्तु, तत उत्पादव्ययावप्यनित्यौ न वस्तु सकलम् , एवं चान्याधारं नित्यत्वमन्याधारं चानित्यत्वं स्याद्, अनिष्टं चैतद् व्यधिकरणत्वात् , यथा प्रवचनबाह्यानां नित्यं व्योमाऽनित्यो घट इति, अत्राप्येवं स्यादन्यनित्यमन्यच्चानित्यम् , इध्यते तु यदेव नित्यं तदेवानित्यमिति, तत्राऽमुना पुनर्नित्यग्रहणेन निरंशं वस्त्वर्यत अदलक्षणा इति, आश्रयभिन्नाभिन्नस्वभावाः परस्परभिन्नाभिन्नस्वभावाश्चैत्यर्थः, एवं सत्याश्रयधर्मान्योन्यधर्मयोगित्वं तेषामविरुद्धमिति भावः । यदर्थमेतावान् प्रयासस्तमुद्घाटयति-तेष्विति, उत्पादादिपु त्रिष्वित्यर्थः । सत्त्वप्रज्ञापना उत्पादादित्रयात्मकत्वलक्षणसत्त्वकथनम् । न विरुद्ध्यत इत्युक्तम् , तत्र हेतु:-न ह्येकदेश इति, हि यतः, वस्तुन उत्पादादिनयसमुदायात्मनः, एकदेशः प्रत्येकमुत्पादादिः, असन्न भवति, तथा सति प्रत्येकस्यासत्त्वे तत्समुदायात्मनो वस्तुनोऽपि असत्त्वं स्यात्तस्य कथञ्चित्तदभिन्नत्वात् । एतदेव दृष्टान्तेन भावयति-पटादेस्तन्त्वादिरिति, तन्त्वाद्यवयवसमुदायात्मनः पटादेस्सद्रूपस्यैकदेशस्तन्त्वादिर्यथा नासद्रूपस्तथेत्यर्थः । उत्पादादीनां त्रयाणां सत्त्ववन्नित्यत्वमपि पार्थक्येन भाष्यकारेणोक्त तत्पुनरुक्तमेव सत्त्वविधाने तत्स्वरूपप्रविष्टतया नित्यत्वस्यापि प्राप्तेरना पुनरुक्तिरिति परश्शङ्कते-अथेति । तद्वहीतेः. नित्यग्रहणात् । पुनरियनन्तरं तद्वहीतेरित्यावर्त्तनीयम् , तथा च पृथक्तद्गृहीतेन किञ्चित्फलमस्तीत्यन्वयः । ननु सघटकतयोत्पादादीनामेव प्रवेशो न नित्यस्येति तद्गृहणे कथं नित्याप्तिरिति कस्यचिद्व्यामोहस्स्यात्तत्राह-सब्रहणेनैव ध्रौव्यांशस्य लब्धत्वादिति, तथा च ध्रौव्यमेव नित्यत्वमिति सदित्यनेन ध्रौव्यप्रतीतौ तद्रपं नित्यत्वमपि प्रतीतमेवेति भावः । नित्यं चेत्यस्यानुक्तौ कीदृशेन भाष्येण भवितव्यमित्यपेक्षायामाह-सच्चेत्यादि । सद्हणादुत्पादादीनां नित्यत्वं यत्प्राप्तं तद्भौव्यांशाभेदेनैव, अर्थाद्रौव्याभिन्नं यद्वस्तु तदभिन्नत्वादुत्पादव्ययावपि ध्रौव्यरूपाविति नित्यौ न तु ध्रौव्यांशस्येव मुख्यवृत्त्या तयोरपि नित्यत्वं त्रिकालयोगात्साक्षादनुगामितया, तत्प्रतिपत्तये पृथकित्यग्रहणमित्याशयेनोत्तरयति-अत्रोच्यत इति । ध्रौव्यांश एवेति । यद्यपि सञ्च त्रिविधमपीत्युक्त्योत्पादव्यययोरपि सत्त्वं कण्ठत एवोक्तमित्युत्पादस्याप्युत्पादव्ययध्रौव्यरूपता, एवं ध्ययध्रौव्ययोरपि त्रिरूपता, तामन्तरेण सत्त्वाघटनात्तथा च ध्रौव्यांश एवेत्युक्तिरसङ्गतेव प्रतिभाति, तथापि तदभिन्नाभिन्नस्य तदभिन्नत्वमिति न्यायेन ध्रौव्यरूपतादिसम्पत्त्याऽप्युत्पादादीनां सत्त्वोपपत्तौ नोत्पादत्वादिनाऽसाधारणरूपेणाऽपि सत्त्वाभ्युपगमेन कृत्यमिति ध्रौव्यांशस्यैव वासाधारणरूपेण नित्यत्वमायातीत्याशयः। न समस्तं नोत्पादव्ययसमन्वितध्रौव्यस्वरूपम् । खासाधारणरूपेण ध्रौव्यस्यापि नानित्यत्वं किन्त्वनित्योत्पादव्ययाभिन्नवस्त्वभिन्नत्वादुत्पादादिरूपतयैवानित्यत्वमिति सकलं वस्तु यथा न नित्यं तथाऽनित्यमपि नेत्येतत्स्यादित्याह-तत इति, समस्तवस्तुनो नित्यत्वाभावादित्यर्थः । सकलं ध्रौव्यकरम्बितोत्पादव्ययस्वरूपम् । ननु भवत्वेकांशापेक्षया नित्यत्वमेकांशापेक्षया चानित्यत्वमखण्डस्य वस्तुनो नित्यत्वानित्यत्वाभावेऽपि स्याद्वादिनः किं छिन्नमित्यत आह-एवं चेति, नित्यत्वानित्यत्वयोर्भिन्नांशगततयाऽवस्थित्यभ्युपगमे चेत्यर्थः। भवत्वेवमपि ततः किमत आह-अनिष्टश्चेति, स्याद्वादिनामिति शेषः। एकाधिकरणगततयैव नित्यत्वानित्यत्वाभ्युपगमः स्याद्वादिनाम् , स च ध्रौव्यांशे नित्यत्वस्य उत्पादव्यययोरनित्यत्वस्य चाभ्युपगतो नात्मानमासादयतीत्याशयेनाह-व्यधिकरणत्वादिति । यच्चैकान्तवादिनामिष्टं तदेव स्याद्वादिनामिष्टं न भवति, प्रकृते तु भिन्नाधिकरणतया नित्यत्वानित्यत्वयोरुपगमे तन्नियमो व्याहन्यत इत्यतस्तस्यानिष्टत्वमित्याह-यथेति । प्रवचनबाह्यानां जैनराद्धान्तानभ्युपगन्तृतया जैनप्रवचनबहिर्भूतानां नैयायिकादीनाम् । अत्रापि जैनराद्धान्तेऽपि। एवं स्यादित्यत्र स्यादित्युक्त्याऽनिष्टापादनताऽस्य ख्याप्यते, तत्तदा स्याद्यद्येतदन्यप्रकारस्येष्टत्वं स्यादतस्तत्ख्यापनायाह-इष्यते विति, स्याद्वादिभिरिति शेषः। अथवा तत्रेति पूर्वान्वयि, तस्य प्रवचन इत्यर्थः, प्रवचनञ्च जिनोक्तागम एव, तथा चोक्तशेषस्य न प्रयोजनम् । अमना उक्तभाष्यगतेन । निरंशं वस्त्वय॑ते, उत्पादव्ययस्थित्यविष्वग्भूतमखण्डं वस्तु नित्यतया विवक्ष्यते । अनन्तधर्मात्मके वस्तुनि प्रतिनियतस्यैकस्य धर्मस्य विवक्षणे तद्विपक्षभूतस्यापरधर्मस्याप्यविवक्षितस्य तत्रैव वस्तुनि प्रतीतिरुपजायत एव, अन्यथा विपक्षभूतधर्माभावे तदेकखभावस्य वस्तुनस्तदविवक्षयाऽपि तत्त्वप्राप्तौ विवक्षाकृत्यं न किञ्चित्स्यादतोऽखण्डस्य वस्तुनो नित्यत्वस्य विवक्षया

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150