Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 87
________________ [४६] पर्यायनिवृत्तौ द्रव्यनिवृत्तिशङ्काया उत्पादव्यययोर्नित्यत्वविरोधाशङ्कायाश्च निरासः । [तत्त्वार्थत्रिसूत्री भूतो द्रव्यस्येत्यतः पर्यायनिवृत्तिवद् द्रव्यनिवृत्तिप्रसङ्ग इति । अत्रोच्यते - स्यादेतदेवं, यदि घटादिनिवृत्तौ मृन्निवृत्तिर्दृश्येत, मृन्निवृत्तौ वा पुद्गलनिवृत्तिः, न च दृश्यते मृदोऽन्वयिन्याः पुद्गलजातेर्वा कस्यांचि - दवस्थायां निवृत्तिस्तदभिधानप्रत्ययव्यवहार्यत्वात्, घटादिनिवृत्तौ वा यदि न किञ्चित् पश्चादुपलभ्येत श्रधीत विद्वज्जनः पर्यायनिवृत्तौ द्रव्यांशनिवृत्तिः, न च प्रत्यक्षविरोधे तर्कः क्रमत इत्यपकर्ण्यमेतत् । एवमुपपस्यागमाभ्यामवस्थितं तद्भावाव्ययं नित्यमिति ॥ ३० ॥ एवं सूत्रद्वयेन निरूपिते समस्ते वस्तुन्यर्थाभिधानप्रत्ययरूपे स्थित्युत्पत्तिव्ययस्वभावे पुनर्विस्तरबिशेषार्थी पर अरेकाते - यद् व्येत्युत्पद्यते च तत् सन्नित्यं चेत्यतिसाहसम्, अथवा न किञ्चिदसद - नित्यं वा, सन्नित्यत्वाभ्यां निराकृतत्वात्, ततो लोकव्यवहारोच्छेदः, तदेतद् दुरुपपादत्वाद् दुःश्रद्धानत्वाश्वासङ्गतम्, नित्यता त्पादव्ययौ विरुणद्धि, उत्पादव्ययौ च नित्यतां विरुन्धाते, सोऽयं छायातपवदसहावस्थानलक्षणविरोधात्रातपक्षो न विद्वज्जनमनांसि प्रीणयतीति; अत्रोच्यते श्रद्धत्तां भवानुपपाद्यमानं यथा न कश्चिद् विरोधः समस्ति, यथा चात्रैव लोकव्यवहारसङ्गतिर्द्रव्यास्तिक पर्यायास्तिकनयसम्भवेऽन्यतरप्रधानगुणभावविवक्षाप्रापिते उभे अपि सन्नित्यत्वे तत्प्रतिपक्षभूते वाऽसदनित्यत्वे ॥ गात्, मृदादिखरूपाप्रच्युतेः । आत्मभूतः खरूपम् । द्रव्यस्य मृदादेः । पर्याय निवृत्तिवत् घटशरावोदञ्चनादिनिवृत्तिवत् । द्रव्यनिवृत्तिप्रसङ्ग इति, यस्मिन्क्षणे घटादिपर्यायनिवृत्तिस्तस्मिन्क्षणे मृदादिखरूपस्यापि निवृत्तिः स्याद्वस्तुनस्त्रयात्मकत्वेन त्रितयनिवृत्तावेव वस्तुनिवृत्तिरुचिता स्यादन्यथा घटोऽपि न निवर्त्तेत, तदाऽऽत्मभूताया मृदो ऽनिवृत्तेरित्यर्थः । कल्पना हि दृष्टानुसारिणी भवति, यथादृष्टं नातिक्रामति, दृश्यते च घटादिपर्यायस्यैव निवृत्तिर्न तु मृदादेरनुगामिन इति पर्यायनिवृत्त्यैव निवृत्तिव्यवहारो न तु मृदादिनिवृत्येति समाधत्ते - अत्रोच्यत इति । एतत् पर्यायनिवृत्तिवद्द्रव्यनिवृत्तिप्रसञ्जनम् । एवम् उक्तप्रकारेण । स्यात् तदा भवेत् । यदीत्यस्य दृश्येतेत्यनेन सम्बन्धः घटाद्यपेक्षया मृदोऽनुगामित्वं तदपेक्षया पुद्गलस्यानुगामित्वमिति पार्थक्येनोभयोपादानम् । न च दृश्यत इत्यस्य निवृत्तिरित्युत्तरेण सम्बन्धः । मृदोSन्वायिन्या इत्यस्य पुद्गलजातेरित्यस्य च निवृत्तिरित्यनेन सम्बन्धः । निषेधे हेतु :- तदभिधानप्रत्ययव्यवहार्य - त्वादिति, घटशरावोदञ्चनादिनिवृत्तावपि तदानीमबस्थिते चूर्णादौ मृत्युद्गलाद्यभिधानतदाकारप्रत्यय व्यवहार्यत्वादित्यर्थः । अस्यैवोपपादनायाह - घटादिनिवृत्ताविति । पर्यायनिवृत्तिवद्रव्यनिवृत्तिप्रसङ्गस्य तर्करूपतया कस्यचित्प्रमाणस्य तद्वाहकस्य भावे तत्र सहकारित्वं स्यात्तदभावे च दुर्बलस्य तस्य प्रबलप्रत्यक्षप्रमाणाबिरोधेन तर्काभासत्वमेवेत्याह-न चेति । उपसंहरति - एवमुपपत्त्येति ॥ ३० ॥ अर्पितानर्पित सिद्धेरिति सूत्रमवतारयितुं भूमिकामारचयति - एवं सूत्रद्वयेनेति । तत्सन्नित्यं चेत्यतिसाहसमिति । उत्पादव्ययाभ्यां ध्रौव्यलक्षणस्य नित्यत्वस्य विरोधस्तावत्स्फुट एवेति उत्पादव्यययोगिनि धौव्याभिधानस्या सम्बद्धप्रलापत्वादति साहसत्वेऽपि सत्त्वस्य न ताभ्यां सह विरोध इति तदभिधानस्य कथमति साहसत्वम् ?, यदि च सत्त्वं न किञ्चित्कालवृत्तित्वं नवा सत्त्वादिजातिरूपं वेहभिधित्सितं किन्तूत्पादव्ययध्रौव्यात्मकत्वमेव तस्य ध्रौव्यांशमुपादायोत्पादव्ययाभ्यां सह विरोध एवैति विभाव्यते तदा नित्यत्वविरोधेन गतार्थमेतदिति न पृथगुक्त्या प्रयोजनमतः प्रकारान्तरमाश्रयति - अथवेति । अत्र सर्वस्य सत्त्वेऽसत्किमपि न स्यात् सर्वस्य नित्यत्वेऽनित्यमपि किञ्चिन्न भवेत्, न च नास्त्येवासत् अनित्यं वा किश्चिदत आहतत इति । लोकेति घटो हि उत्पादात्पूर्वं विनाशाच पश्चादसन्निति व्यवहियते लौकिकपरीक्षकैरनित्यश्चेति, न च लोकमर्यादाऽतिक्रमो न्याय्य इत्यभिसन्धिः । तदेतत्, अन्तरसूत्रद्वयप्रतिपाद्यम्, असङ्गतमित्यनेन सम्बन्धः । अत्र हेतु :दुरुपपादत्वात् दुःश्रद्धानत्वाश्चेति । उक्तहेतुद्वयोपपादनायाह - नित्यतेति । अपेक्षाभेदेनोत्पादव्ययवत्यपि धौव्यस्य ध्रुवे उत्पादव्यययोस्सति असत्त्वस्यासति च सत्त्वस्य नित्येऽनित्यत्वस्यानित्ये नित्यत्वस्य च सम्भवेन न दुरुपपादत्वं नवा दुश्र द्धानत्वं ततो न लोकव्यवहारोच्छेद इत्याशयेन समाधत्ते - अत्रोच्यत इति, अत्रैव स्याद्वादावलोकितवस्तुन्येव । सत्त्वे उत्पादव्ययध्रौव्यात्मकत्वलक्षणै द्रव्यास्तिकनयाद धौन्यस्य प्राधान्यं पर्यायास्तिकनयगौणभावात्तद्विषययोरुत्पादव्यययोर्गुणभावः, एवं

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150