Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[४४] - परिणामनित्यतामाश्रित्य विविधरीत्या तद्भावाव्ययमितिसूत्रव्याख्या। [ तत्त्वार्थत्रिसूत्री मुरुलध्वादिपर्यायवत्तयाऽवश्यंतयैवानियताऽभ्युपेया; ते त्वन्ये चान्ये च भवन्ति, अन्यथा तत्र न खत उत्पादव्ययौ नाप्यापेक्षिकाविति न्यूनमेव सल्लक्षणं स्यात्, इमामेव परिणामनित्यतां भाष्येण दर्शयति
[भाष्यम्-] यत् सतो भावान व्येति न व्येष्यति तन्नित्यमिति ॥३०॥ ___ यत् सत इत्यादि । सत्त्वादेरन्वयिनोंऽशान्न व्येति न विनश्यति नापि विनङ्कथति तन्नित्यम् । किं पुनः कारणमप्रवृत्तः कालो नोदाहृतः ?, एवं मन्यते भाष्यकार:-नातीतप्रत्याख्याने वर्तमानः सम्भवति, वर्तमानावधिकमेवातीतत्वम् , अतीतासत्त्वे निर्मूलस्य वस्तुनोऽनुत्थानप्रसङ्गात् , तस्मादनादि जीवादि सत्त्वादि; एवं तर्हि भविष्यतो ग्रहणं किमर्थम् ?, अत्राप्येवं मन्यते-केचिदविविक्तबुद्धयः प्रत्याख्यापयन्ति-न वर्तमानकालावच्छिन्नस्य वस्तुनः कदाचिद् भविष्यत्कालाभिसम्बन्ध इति, तन्निषेधार्थ भविष्यग्रहणम् । अथवा तद्भावेनाव्ययम् , तेन सदात्मना स्थित्यंशेनाविगतं परिणामापत्तौ सत्यामपि स्वभावाप्रच्युतेर्नित्यमुच्यते, तमेव च ध्रौव्यांशमाश्रित्य समस्तास्तिकायेषु नित्यताव्यवहारः प्रतीयते । अथवा भूतिर्भावः स्वात्मेत्यर्थः, स चासौ भावश्च तद्भावः; कश्चासौ ?, यः सर्वास्ववस्थासु निर्विकारः शुद्धा द्रव्यास्तिकनयप्रकृतिरविवक्षितसकलभेदग्रन्थिः, अयो-गमनं विरुद्धोऽयो व्ययस्तद्भावस्य च विरुद्धगमनमभावापत्तिा, न व्ययोऽव्ययः, न जातुचित् तद्भावोऽभावो भवतीति वाक्यार्थः; ध्रौव्यामिसम्बन्धाच्च नपुंसकनिर्देशः, तद्भावश्चासावव्ययं च तद्भावाव्ययम् , किं तत् ?, प्रकृतत्वादेवंविधपूर्वखभावतैवेति कथमनित्यत्वमत आह-ते विति, धर्मास्तिकायादयस्त्वित्यर्थः । इत्थमनभ्युपगमे दण्डमाह-अन्यथेति । तत्र धर्मास्तिकायादौ । न्यूनमेव उत्पादव्ययरहितं ध्रौव्यमेव । भाष्यमवतारयति-इमामेवेति । सतो भावादित्यस्य व्याख्यानम्-सत्वादेरन्वयिनोंऽशादिति, एतत्सत्त्वस्यान्वयिधर्मान्तरसूचकत्वं यत्पूर्वमुक्तन्तदभिसन्धायान व्यतीति मूलप्रतीकमुपादाय न विनश्यतीति विवरणम् । न व्येष्यतीत्यस्य विवरणम्-नापि विनयतीति। भाष्येऽतीतकालोत्पन्नध्वंसोपादानाभावे कारणं पृच्छति-किं पुनरिति । अप्रवृत्तः, अतीतः। उत्तरयति-एवं मन्यत इति । मन्तव्यमेवोपनिबध्नाति-नातीतेति, नं वर्तमानकालमविज्ञायातीतत्वं ज्ञातुं शक्यते यतो वर्तमानकालवृत्तिध्वंसप्रतियोगित्वमेवातीतत्वमतः प्रथमतो वर्तमानस्योपन्यास आवश्यकः । वर्तमानश्च पूर्वकारणक एव न तद्विना भवितुमर्हतीत्यर्थाक्षिप्त एवातीत इति तदनुपन्यासेऽपि न न्यूनतेत्याशयेनाह-वर्तमानावधिकेति । ननु भविष्यत्त्वमपि वर्तमानकालवृत्तिप्रागभावप्रतियोगित्वमिति वर्तमानावधिकमेवेति तदुपादानमपि न न्याय्यमित्याशयेन पृच्छति-एवं तहीति । उत्तरयति-अत्राप्येवमिति । मन्यते, भाष्यकारो मन्यते। मन्तव्यखरूपमुपनिबध्नाति-केचिदित्यादि भविष्यद्रहणमित्यन्तेन । यत्सतो भावादिति भाष्यानुसारेण तद्भावादव्ययं तद्भावाव्ययमिति व्याख्यातमिदानीं तद्भावेनाव्ययं तद्भावस्याव्ययं तद्भावाव्ययमिति तृतीयाषष्ठ्योराश्रयणेन क्रमेणोक्तसूत्रं व्याख्यानयति-अथवेति । तद्भावेनेत्यस्य व्याख्यानम्-तेन सदात्मना स्थित्यंशेनेति । अव्ययमपीत्यस्य व्याख्यानम्अविगतमिति । कथमविगतमित्यपेक्षायां तत्र हेतुरुक्तः-परिणामापत्तौ सत्यामपि स्वभावाप्रच्युतेरिति । तद्भावेनेति तृतीयापक्षाश्रितं व्याख्यानमुपदर्य तद्धावस्येति षष्ठीपक्षाश्रितं व्याख्यानमाह-अथवेति । तद्भाव इत्यत्र कर्मधारय इत्याह-स चासाविति । तद्भावपदेन क उच्यते इति पृच्छति-कश्वासाविति । उत्तरयति-य इति । शुद्धति यदुक्तं विशेषणं तस्यैव विशिष्य ख्यापनम्-अविवक्षितसकलमेदग्रन्थिरिति, असकलभेदग्रन्थिरियेव कुतो नोक्तमिति न शक्यम् , सकलविशेषरहितस्य सामान्यस्यानुगामिनो ध्रौव्यांशस्य वस्तुतोऽभावात्, सतामपि भेदानामविवक्षा च द्रव्यनयादेशात्सम्भवतीति। तद्भावाव्ययमित्यत्र नपुंसकनिर्देशे बीजमाह-ध्रौव्येति, तद्भावाव्ययमित्यनेन ध्रौव्यमेवाभिमतं तस्य नपुंसकत्वानपुंसकनिर्देशः । न व्ययोऽव्यय इति व्याख्याने तद्भावस्येति षष्ठी, न व्ययो यस्य तदव्ययमिति, व्याख्याने प्रथमैवादर्तव्येत्यभिसन्धानेनाह-तद्धावश्चासावव्ययं चेति । अवश्यञ्च षष्ठीपक्षोऽप्यादर्तव्योऽन्यथा तृतीया

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150