Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
भाटी का विवृतियुता धर्मादिषु सत्त्वादिना नित्यत्वं गत्युपकारकत्वादिनाचानित्यत्वम् । [४३]
स ह्यन्वयी द्रव्यास्तिकांशः सर्वदा सर्वत्र न विच्छिद्यते, सदाकारेणानुत्पत्तेरविनाशाच्च, भावशब्दोपादानात् परिणामनित्यता गृह्यते, कूटस्थनित्यता त्यज्यते, अन्यथा ' तदव्ययं नित्य' मिति सूत्रं स्यात्, यत् तु न केनचिदाकारेण विक्रियते तदनुपाख्यमेव भवेत्, सत्त्वं च सर्वेषामन्वयिनां धर्माणां सूचकम्, पञ्चास्तिकायव्यापित्वात् तु सत्त्वपरिग्रहः । साक्षाज्जीवस्तावत् सवं चैतन्यममूर्तत्वमसङ्ख्येयप्रदेशत्वं चाजहत् तथातथापरिणामान्न व्यगात् न व्येति न व्येष्यत्यविनाश्यव्ययो नित्य उच्यते, न पुनर्देवादिपर्यायेणाप्यनन्वयिना नित्यता ध्रौव्यमस्य विद्यते; तथा परमाणुव्यणुकादिपुद्गल - द्रव्यं सत्त्वमूर्तत्वाजीवत्वानुपयोगग्राह्यादिधर्मानपरित्यजद् विवर्तते, न घटादिपर्यायविवक्षया धौव्यम् ; धर्मद्रव्यमपि सत्त्वामूर्तत्वा सङ्ख्येयप्रदेशवत्त्व लोकव्यापित्वादिधर्मात्यागेनावतिष्ठते, न तु परमाणुदेवदत्तादीनां प्रत्येकं गन्तृत्वस्य विवक्षायां गत्युपकारित्वेन नित्यत्वम्, गन्तृभेदाद्धि गत्युपकारित्वं भिद्यते, अन्य शाकारेण पूर्वः परिणामोऽन्यादृशेनाकारेण पाश्चात्यः, नहि प्रथमतरमुत्पन्नो गत्युपकारित्वपरिणामः सर्वदाऽवतिष्ठते, स्वरूपव्यतिरिक्तवस्तुसम्बन्धितयोपजायमानत्वाद् घटादिवत् ; एवमधर्मद्रव्यमपि द्रष्टव्यम्, स्थित्युपकारितया चानित्यत्वभावना; आकाशं तु सत्त्वामूर्तत्वानन्तप्रदेशवत्त्वादिधर्मद्वारेण नित्यम्, अवगाहकापेक्षयाऽवगाहदातृत्वेनानित्यम्, यत्राप्यवगाहकं जीवपुद्गलं नास्ति तत्राप्यपञ्चमीतत्पुरुष इत्याह-तद्भावादव्ययमिति, यदापि पर्यायो नश्यति तदापि एतद्भावो विद्यत एवेत्याशयः । स हि धौव्यांशो हि, अन्वयी पूर्वोत्तरपर्यायानुस्यूतः, अत एव द्रव्यास्तिकांशः द्रव्यास्तिकन्याभिमतोंऽशः । तदव्ययं नित्यमित्येव वक्तुमुचितं भावपदोपादानमनर्थकमिति न वक्तव्यं, प्रतिक्षणं तत्तत्पर्यायरूपेण परिविवर्त्तत एव तत्, पर्यायस्य च कथञ्चित्सदात्मकत्वेन तदुत्पादे तद्रूपेणोत्पादोऽपि पर्यायस्य विनाशे तद्रूपेण विनाशोऽपि तथा परिणमनं च सत एवेति तदात्मनाऽवस्थानमपीति कथञ्चिन्नित्यत्वावगतये भावपदोपादानमित्याह- भावशब्दोपादानादिति । परिणामनित्यतेति, पूर्वोत्तराकारपरित्यागोपादाना जहद्वृत्तिध्रौव्यतेत्यर्थः । कूटस्थनित्यतेति, अप्रच्युतानुत्पन्नस्थिरैकस्वभावतेत्यर्थः । ननु कूटस्थनित्यतैव कुतो न सूत्रकृदभिमता, तदनुसारेणैव सूक्ष्मार्थकस्य सूत्रस्य व्याख्यातुं शक्यत्वादित्यत आह- अन्यथेति, कूटस्थनित्यतात्यागाभाव इत्यर्थः । ननु कूटस्थनित्यतामुररीकृत्य तदव्ययं नित्यमित्येव सूत्रं कथन्न कृतमित्यत आह-यत्त्विति, कूटस्थनित्यस्य केनचिदप्याकारेण परिणामविक्रियाभावेऽर्थक्रियाकारित्वलक्षणसत्त्वाभावाच्छश शृङ्गकल्पत्वमेव स्यादिति भावः । ननु तद्भावाव्ययमित्यत्र तद्भावपदेन सत्त्वस्य ग्रहणं भवता कृतमेतावता सत्त्वेन रूपेण सर्वेषां पदार्थानामव्ययत्वान्नित्यत्वं प्राप्तं जीवत्वेन जीवस्य पुद्गलत्वेन पुद्गलस्य धर्मास्तिकायत्वादिना धर्मास्तिकायादेर्नित्यत्वन्तु न प्राप्तं तत्किं जीवोऽप्यजीवतामुपगच्छति पुद्गलादिरप्यपुद्गलादिरूपताम् ?, न चैवमिष्टम्भवतामित्यत आह-सत्त्वं चेति । ननु यदि सत्त्वं सर्वेषामन्वयिनामुपलक्षणं तत्किमन्वयिधर्मान्तरमेव कुतो न साक्षादुपन्यस्तं तदप्युपन्यस्तं सदन्वयिधर्मान्तरमुपलक्षयेदेवेत्यत आह- पञ्चास्तिकायेति । साक्षादिति पूर्वान्वयि, तथा चाणुरपि विशेषोऽध्यवसायकर इति न्यायादन्यधर्मापेक्षया सत्त्वस्य सर्वव्यापित्वं विशेष इति कृत्वा तस्यैव साक्षादुपनिबन्धनमित्यर्थः । तद्भावाव्ययत्वलक्षणं नित्यत्वं जीवे सङ्गमयति- जीवस्तावदिति । सत्त्वचैतन्यादि - रूपेणैव जीवस्य नित्यत्वं न तु देवत्वादिनेत्याह-न पुनर्देवादिपर्यायेणेति । पुद्गलास्तिकाये उक्त नित्यत्वलक्षणं सङ्गमयतितथा परमाणुयणुकादीति । अनुपयोग प्राह्यादीति, अनुपयोगत्वे सति ग्राह्यत्वेत्यर्थः । तेन प्राह्यत्वस्य जीवसाधारण्येऽपि न क्षतिः, घटत्वादिना तु न पुद्गलस्य नित्यखमित्याह-न घटादीति । धर्मास्तिकाये उक्तलक्षणं सङ्गमयति-धर्मद्रव्यमपीति । परमाण्वादिगत्युपकारित्वादिना तु न धर्मास्तिकायस्य नित्यत्वमित्याह-न तु परमाणुदेवदत्तादीनामिति । कुतो न तथानित्यत्वमित्यपेक्षायामाह - गन्तृभेदाद्धीति । एतदेव प्रपश्चत उपदर्शयति-अन्यादृशाकारेणेति । सर्वदाऽवस्थानाभावे हेतुमाह-स्वरूपव्यतिरिक्तेति । धर्मास्तिकाये येन रूपेण नित्यत्वं तेनैवाधर्मास्तिकायेऽपीत्यतिदिशति - एवमधर्मद्रव्यमपीति, धर्मास्तिकायतोऽनित्यत्वभावनायामत्र यो विशेषस्तमाह-स्थित्युपकारितया चेति । आकाश उक्तलक्षण सङ्गमयति- आकाशन्त्विति । अनित्यत्वं तत्रोपपादयति- अवगाहकापेक्षयेति, ननु धर्मास्तिकायादीनां गन्नादिभेदेऽपि

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150