Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 86
________________ भाष्यटीकाविकृतियुता] अपराचार्याभिप्रायेण द्विविधनित्यतामाश्रित्य व्याख्यानन्तत्खण्डनश्च । [१५] विशेषणसामर्थ्याद् ध्रौव्यं नित्यशब्देनाभिधीयते; भाष्ये च यद्यपि भाष्यकृता पञ्चमी प्रदर्शिता विवभावशात् तथापि विवक्षितस्यार्थस्याभिन्नत्वात् तृतीयाषष्ठ्योर्न दोषः। ननु च प्रागपि नित्यावस्थितान्यरूपाणीत्यत्र (तृतीये ) सूत्रे नित्यग्रहणं ध्रौव्यार्थमेव व्याख्यायि भवता, तत् किमर्थमिदमुच्यते 'तावाव्ययं नित्यम्' इति ?, अत्रोच्यते-इह नित्यस्य लक्षणमभिधित्सितम् , लक्षितेन चेह नित्यत्वेन तत्र व्यवहारः प्रदर्शितः ॥ अपरे त्वेवं वर्णयन्ति-द्वे नित्यते, तत्रैका स्वभावाप्रच्युत्या कालत्रयाव्यभिचारिणी नित्यता, अपरा पारम्पर्यप्रवृत्तिनित्यता, तत्र च प्राच्यां नित्यतामाश्रित्य नित्यावस्थितान्यरूपाणीति पठितम् , परम्परावृत्त्यवच्छेदमधिकृत्योत्पादव्ययध्रौव्यसूत्रमध्यगायीति; एतदपि यत्किश्चित् , यतस्तद्भावाव्ययं नित्यमित्येकमेव नित्यलक्षणं लक्षणान्तरानभिधानाच्च कथं द्वे नित्यते ?, नित्यप्रहसितादिषु दृष्टेति चेत्, तदयुक्तम् , अभीक्ष्णार्थाभिधायित्वादर्थान्तरवृत्तिस्तत्र नित्यशब्दः, तत्त्वविचारप्रस्तावे च न किश्चिदुपचारेण प्रयोजनम् , अतो व्यवस्थितमेव लक्षणं तद्भावाव्ययं नित्यमिति ॥ एवमन्वय्यंशो नित्यत्वेन लक्षितो द्रव्यनयस्वभावः । पर्यायनयस्वभावौ तूत्पादविनाशावभूतभावभूताभावलक्षणावुक्तन्यायेन स्थित्यंशप्रतिबद्धौ । स्थितिरपि पर्यायप्रतिबद्धा, सर्वदा संसर्गरूपत्वाद् वस्तुनः, एवमेकाधिकरणावुत्पादविनाशौ जैन एव शासने साङ्गत्यमनुभवतोऽन्यत्र तु व्यधिकरणावेवोत्पादविनाशौ नियतौ वेति ॥ नन्वेवमपि यथा तद् द्रव्यमात्मापरित्यागात् तथोत्पादविनाशलक्षणः पर्यायोऽपि आत्मषष्ठ्योरित्युत्तरग्रन्थासङ्गतिः स्यात्, तद्भावश्चासावव्ययं चेतिस्थाने तद्भावस्याव्ययमिति पाठे भवति सर्वथा प्रन्थपरिशुद्धिः । नन्वेवं व्याख्याने तद्भावाव्ययमित्यनेन कस्याभिलपनमिति पृच्छति-किन्तदिति । उत्तरयति-प्रकृतत्वादिति । सूत्रस्थनित्यमित्यस्य नित्यशब्देनाभिधीयत इत्यर्थ इत्याह-नित्यशब्देनाभिधीयते इति । ननु नित्यावस्थितान्यरूपीणीति तृतीयसूत्रे नित्यपदेन ध्रौव्यमेवोक्तमिति गतार्थत्वान्नेदं सूत्रमारब्धव्यमित्याशङ्कते-ननु चेति । इह तद्भावाव्ययं नित्यमिति सूत्रे । लक्षितेनेति, इह लक्षितेन नित्यत्वेनेति सम्बन्धः। तत्र नित्यावस्थितान्यरूपाणीतिसूत्रे, अत एवोक्तं तत्र भाष्ये तद्भावाव्ययं नित्यमिति च वक्ष्यते इति । तत्र तयोर्मध्ये । प्राच्यां खभावाप्रच्युत्या कालत्रयाव्यभिचारिणीम् । परम्परा वृत्त्यच्छेदमधिकृत्य पारम्पर्यप्रवृत्तिलक्षणनित्यतां द्वितीयामाश्रित्य । जैनराधान्ते तद्भावाव्ययं नित्यमित्येकलक्षणलक्षितमेकमेव नित्यत्वं द्वितीया नित्यतैव नास्तीति नित्यताद्वयमुपादाय सूत्रद्वयसङ्गमना न युक्त्याह-एतदपि यत्किश्चिदिति । नित्यताद्वयाभिमानी शङ्कते-नित्यप्रहसितादिष्विति। औपचारिकोऽयं तत्र नित्यशब्दो न वास्तविकी द्वितीयां नित्यता गमयितुमीष्टे इत्युत्तरयति-तदयुक्तमिति । प्रकृतमनुसरन्नाह-एवमिति, उक्तसूत्रोपदर्शितप्रकारेणेत्यर्थः । अन्वय्यंशः, ध्रौव्यांशः। स च द्रव्यनयविषयत्वाइव्यनयखभाव इति विषयविषयिणोरभेदमाश्रित्य ध्रौव्यस्य द्रव्यनयस्वभावत्वे उत्पादठयययोः पर्यायनयखभाक्त्वं प्राप्तमेव कण्ठतोऽसन्दिग्धप्रतिपत्तये उपदर्शयति-पर्यायनयस्वभावाविति. इयमपि विषयविषयिणोरभेदमवलम्ब्योक्तिः । उत्पादविनाशावभूतभावभूताभावलक्षणाविति, अभूतस्य प्रागसतो भाव आत्मलाभस्तल्लक्षण उत्पादः, भूतस्य प्राक् सतोऽभावोऽसत्त्वन्तल्लक्षणो विनाश इत्यर्थः । उक्तन्यायेनेति, एकान्तोत्पादादीनामसम्भवावेदकयुक्तिकदम्बेनेत्यर्थः । पर्यायेति, उत्पादव्ययेत्यर्थः । अत्र हेतुः-वस्तुनः परिणामिखभावत्वं नापरिणम्य कविकालमवतिष्ठत इति प्रतिक्षणमपूर्वापूर्वपर्यायसम्बन्धो वस्तुनि भवत्येव, स च नोत्पादव्ययावन्तरेणेत्यभिसन्धिः। जैनराद्धान्तस्थान्यदर्शनापेक्षयाऽत्राथे उत्कर्षमाविभोवयति-एवमेकेति। अन्यत्र जैनातिरिक्तदर्शने । व्यधिकरणाविति, भिन्नकालिकत्वाद्विभिन्न व्यक्तिगतत्वाच्च, आद्यक्षणसम्बन्धलक्षण उत्पादो घटे विनाशश्च तस्य कपाल इति । नियती वेतीति, यस्य भावस्योत्पादस्तस्य नोत्पत्तेः पूर्वं सत्त्वं यस्य विनाशस्तस्य न विनाशानन्तरं सत्त्वं ध्रौव्यांशानभ्युपगमादित्येवं नियतावैकान्तिकावित्यर्थः । ननु मृदादिरूपेण ध्रौव्यमेव वस्तुनोऽभिमतं तन्न सङ्गच्छते मृदादीनां मृदादिर्यथाऽऽस्मा तथा पर्यायोऽप्यात्मैव, तथा च पर्यायनाशादात्मनिवृत्त्या मृदादिरूपेणापि निवर्तितव्यमिति मृदादिरूपेण ध्रौव्यं कुत इति परः प्रश्नयति-नन्वेषमपीति, एवमपि उत्पादव्ययस्थितीनां परस्परप्रतिबद्धत्वेऽपि । तत् मृदादि । द्रव्यं ध्रौव्यात्मकम् । भात्माऽपरित्या

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150