Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 81
________________ [४०] उत्पादादीनां भिन्नाभिन्नकालता, अर्थान्तरताऽनर्थान्तरता च । [ तत्त्वार्थत्रिसूत्री सर्पस्वभावतैव । अत एवानर्थान्तरताऽपि ग्राह्या, अनर्थान्तरमुत्पादविनाशौ परस्परावधिकौ तत्प्रतिपत्तेरभिन्नकालत्वात्, तस्योत्पादस्यारम्भो विशिष्यते अभिन्नकालत्वेन केन सहाभिन्नकालः ? इति चेत्, सामर्थ्याद् विनाशेन, यस्माद् विनश्यतो हि योऽन्त्यक्षणो यश्चोत्पादस्याद्यक्षणस्तदेतावुत्पादविनाशावेककालावनर्थान्तरं च, यदि चान्यो विनाशकालः स्यात् पूर्वस्यान्यश्चोत्पादकालः स्यादुत्तरस्य, ततः प्रागेतनं विनष्टमुत्तरमनुत्पन्नम्, एवं च वस्तुशून्यः कालो भवेन्निर्बीजं चोत्तरमुत्पद्येत, तस्मादभिन्न कालावनर्थान्तरं च ताविति यथैकक्षणवर्तिनो रूपस्यैकत्वादेव तत्प्रतिपत्त्यभिन्नकालतेत्येतत् प्रतिपादयति-अन्यस्य ह्यन्येन भिन्नकालता सम्भाव्येत, न पुनस्तस्य तेनैवेति वाक्यार्थः । एवमितरत्रापि द्वयेऽनर्थान्तरता भावनीया, हेतुदृष्टान्तौ तु तावेव । नैगमनयाभिप्रायेण तूत्पादविनाशद्रव्याणां भिन्नकालता, उत्पादो हि प्रागभावः, स च द्रव्यधर्मत्वाद् द्रव्यवृत्तिः, प्रध्वंसाभावोऽपि विनाशः सोsपि द्रव्यधर्म एव द्रव्यमपि द्रव्यात्मरूपमजहत् स्वात्मनि वर्तते, ततश्चोत्पद्य कश्चित् कालं सति तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेनोत्पतनाभिन्नसर्पाभिन्नस्य निपतनस्योत्पतनाभिन्नत्वं ततश्च स्वात्मत्वापृथग्भाव उभयावस्थस्य सर्पस्येत्याह-न चेद्भिद्यत इति । एककालत्वसिद्धौ ततोऽनर्थान्तरताऽप्युत्पादविनाशयोस्सिद्ध्यत्येवेत्याह- अत एवेति, एककालत्वादेवेत्यर्थः । अत्रानुमानप्रयोगमुपदर्शयति-अनर्थान्तरेति । तत्प्रतिपत्तेः, उत्पादारम्भस्य | अभिन्नकालत्वादिति हेतौ केन सहाभिन्नकालत्वमुत्पादारम्भस्येति पृच्छति केन सहेति । उत्पादस्य विनाशेन सममनर्थान्तरत्वं साध्यं नान्येन सममुत्पादारम्भस्याभिन्नकालत्वेन सेडुमर्हत्यति प्रसङ्गादतो विनाशेन सममभिन्नकालत्वमेव तन्नियतमिति तदेवाक्षिप्यत इत्याह- सामर्थ्याद्विनाशेनेति । कथमुत्पादविनाशयोरेककालत्वमनर्थान्तरत्वं च सङ्घटनामियतीत्यपेक्षायामाह - यस्मादिति । एवमनङ्गीकारेऽनिष्टमासञ्जयति-यदि चेति, पूर्वस्य विनाशकालोऽन्यः स्यादुत्तरस्य चोत्पादकालोऽन्यः स्यादिति सम्बन्धः । ततः, तदा । एवं च यस्मिन्क्षणे पूर्वपदार्थो नष्टः तस्मिन्नोत्तरपदार्थ उत्पन्न इत्यभ्युपगमे च । कालः पूर्वविनाशक्षणः । वस्तुशून्यः पूर्वस्य तस्मिन्क्षणे विनाशादेव न सत्त्वम् उत्तरस्य चानुत्पादादेव च न सत्त्वम्, ध्वंसानुत्पादयोसत्त्वेऽपि तस्याभावरूपत्वादेव न वस्तुत्वमिति वस्तुशून्यः स कालः स्यात् । एवमपि कदाचित्पर उपेयासदाप्याह-निर्बीजं चेति, ध्वंसस्य तुच्छत्वा देव न जनकत्वं वस्तु च किञ्चिदव्यवहितपूर्वे तस्मिन्क्षणे नास्त्येवेति । अतः पूर्वस्य यस्मिन्क्षणे नाशस्तस्मिन्नेव क्षणे उत्तरस्योत्पादारम्भ आस्थेय इति । उपसंहरति- तस्मादिति । तौ उत्पादविनाशौ । पूर्वोपदर्शितं दृष्टान्तं स्मारयति - यथैकक्षणवर्तिन इति । एतदुक्तिखारस्यमुद्भावयति- पतत्प्रतिपादयतीत्यादिना, एतदिति, अनन्तरं वक्ष्यमाणमन्यस्य ह्यन्येनेत्यादीत्यर्थः । उत्पादविनाशयोरभिन्न कालत्वानर्थान्तरत्वे प्रसाध्य ध्रौव्यस्याप्युत्पादेन सह विनाशेन च सहाभिन्न कालत्वानर्थान्तरत्वयोः प्रसाधनप्रकारमति दिशति - एवमितरत्रापि द्वये इति, धौव्योत्पादध्रौव्यविनाशात्मकद्वये इत्यर्थः । तावेव स्वात्मत्वा पृथग्भावैकक्षणवर्त्तिरूपात्मकावेव । एवमुत्पादविनाशध्रौव्याणामभिन्नकालतां व्यवस्थाप्य तेषां भिन्नकालतामपि व्यवस्थापयति- नैगमनयाभिप्रायेणेति । स च प्रागभावश्च । द्रव्यधर्मत्वादिति, प्रतिपादितञ्च नैगमनयप्रसूते कणभक्षाक्षपादनये ध्वंसप्रागभावयोः प्रतियोगिसमवायिकारणवत्तित्वम्, प्रतियोगिसमवायिकारणश्च द्रव्यमेवेति । ननु अनुत्पाद एव नैयायिकादिमते प्रागभाव इति व्यपदिश्यते, प्रागभावश्च प्रतियोगिकारणं प्रतियोग्युत्पत्तेः पूर्वं वर्त्तते, स हि उत्पादस्य कारणं तस्योत्पादरूपताभिधानमसङ्गतमेव नैगमनस्येति चेन्न, यतोऽभूत्वा भवनमुत्पादः, तत्र भवनं स्थित्यंश एव भवति, तस्य चोत्पादश्वमभवनाव्यवहितोत्तरत्वादेव, अन्यथा द्वितीयादिक्षणेऽपि भवनस्य सद्भावेन तदापि तस्योत्पादत्वं स्यादतो भवनाऽव्यवहितपूर्वकालवर्त्तिनोऽभवनस्यैव मुख्यमुत्पादत्वम्, तस्य च स्वाव्यवहितोत्तरक्षणवर्त्तिभवने प्रतियोगिखरूपे फलोपधानरूपकारणत्वमपि, स्थितेः प्रागभवनस्य प्रागभावरूपता युक्तैवेति नैगमाभिप्रायः । ननु प्रागभवनं घटस्य पर्यायस्य न त्वनुगामिनो मृद्दव्यस्य, तस्य कालत्रयेऽपि स्थितिलक्षणभवनाश्रयतयैव प्रतीतेरिति रिक्तमुच्यते द्रव्यधर्मत्वाद्रव्यवृत्तिरिति चेन्न, समानकालीनयोरेवाधाराधेयभावस्य वास्तविकत्वेन पूर्वमसतः पर्यायस्य प्रागभावरूपोत्पादाश्रयत्वासम्भवेन द्रव्यस्यैव तदानीं वर्त्तमानस्य तदाश्रयत्वौचित्यात्तदभेदमुपचर्यैव पर्याये तथाविधोत्पादाश्रयत्वव्यवहारादित्याशयात् । नन्वेवमुत्पादवि - नाशयोव्यरूपत्वेऽपि ध्रौव्यस्य द्रव्यखरूपस्य खात्मनि वृत्तिविरोधात्कथं द्रव्यधर्मत्वमित्यत आह- द्रव्यमपीति, स्थित्या.

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150