Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 80
________________ भाष्यटीकाविवृतियुता] प्रयोगजविनाशोपसंहारः, उत्पादादीनां भिन्नाभिन्नकालत्वादिकम् । [३९] यति" इति, प्रतिकृतविधानैषा युक्ति:-"प्रागभूतात्मलाभत्वान्नाशः कारणवान् भवेत्" इति । स्वभावश्च वस्तुनो धर्मः परिणतिविशेषः, स च कश्चित् सादिवर्णादिपरिणामा, कश्चिदनादिः सत्तामूर्तत्वामूर्तत्वादिपरिणाम इति, अतोऽनेकान्तेनैव यो यत्स्वभावः स सर्वदा तत्स्वभाव एव कदाचिन्नश्यति कदाचिदवतिष्ठते कदाचिदुत्पद्यत इत्यलमतिप्रसङ्गेन । स्थितमिदम्-प्रायोगिकोऽप्यस्ति विनाश इति ॥ एतेऽवस्थित्युत्पादविनाशास्त्रयोऽप्येककाला विभिन्नकालाश्च परस्परतोऽनन्तरमर्थान्तरं च, तत्रोत्पादविनाशयोरेककालतायां सिषाधयिषितायां स्वात्मत्वापृथग्भावः कारणम् , नहि उत्पादविनाशयोः स्वात्मा भिद्यते, यथैकस्मिन्नेकक्षणवर्तिनि रूपे विभागाभावात् स्वात्मलाभकाल एवैकः कालो नान्यः समस्ति, यच्चैककालं न भवति तदेकमपि नियमेन न भवति, यथा-गवाश्वयोर्जन्मविनाशाविति । एवमुत्पादविनाशयोरेककालता, एवमुत्पादविनाशाभ्यां द्रव्यमभिन्नकालं साध्यम् , तथोत्पादविनाशौ द्रव्यादभिन्नकालौ ताभ्यामेव हेतुदृष्टान्ताभ्यां वाच्यौ ॥ ननु चैकान्तवादी स्वात्मत्वापृथग्भूतत्वमुत्पादविनाशयोन प्रतिजानीते, तत्प्रसाधनाय परिकरः-सर्पद्रव्यस्यात्मन्युत्पतनाकारेणोत्पादः, तस्यैवात्मनि पतनाकारेण विगमः, सर्पद्रव्यात्मैवोभयाकारः, नहि सत्मा भिद्यते, न चेद् भिद्यते ततः चेत विनशनशीलश्चेत् । नाशविघ्नः क इति, नाशप्रतिबन्धकः कः ? येनोत्पत्त्यनन्तरमेव न नश्यति, तादृशस्य प्रतिबन्धकस्योपदर्शयितुमशक्यत्वादुत्पत्त्यनन्तरमेव विनशनशीलो भावो नश्येदेवेति भावः । न चेदिति, भावो विनश्वरखभावो नाभ्युपगम्यते चेदित्यर्थः । नैव विनयतीति, विनश्वरस्वभावस्यैव विनाशो भवति नाविनश्वरस्वभावस्य, अन्यथा नित्यत्वेम भवदभिमतानामपि कदाचिन्नाशः स्यात् , तथाचोत्तरकालेऽपि न नश्येदित्यर्थः । एतां युक्तिं प्रतिकृत्या प्रतिक्षिपति-प्रतिकृ. तेति । उक्तयुक्तः प्रतिपक्षभूतां युक्तिमेवोपदर्शयति-प्रागभूतेति, प्रागभूतस्य कारणव्यापारात्पूर्वमसतो विनाशस्य यो मुद्गरपाताद्यनन्तरमात्मलाभ उत्पत्तिस्तत्त्वात् प्रागसत्त्वे सति सत्त्वलक्षणकादाचित्कत्वादित्यर्थः । स्वभावत्वादेव खभाववता सह समानकालतानियमः स्वभावस्येत्यपि नास्ति, तस्य वैचित्र्यादित्याह-स्वभावश्चेति । स च परिणतिविशेषश्च । परिणामद्वैचिध्योपदर्शनेन यदभिमतं तदाह-अत इति । वाच्यस्तर्हि कीदृग्भाव इत्यपेक्षायामाह-कदाचिन्नश्यतीत्यादि । उपसंहरतिस्थितमिदमिति। स्थित्यादीनां त्रयाणामेककालत्वादिकं व्यवस्थापयति-पत इत्यादिना । तत्रोत्पादविनाशयोरेककालतां व्यवस्थापयति-तत्रोत्पादेति । खात्मत्वापृथग्भाव एव तयोः कथमित्यपेक्षायामाह-नहीति । खात्माभेदे । एककालत्वं स्यादेवेति दृष्टान्तेन भावयति-यथैकस्मिन्निति, एतच्च क्षणवादाभ्युपगमेन, स्याद्वादे तस्यापि कथञ्चिदभ्युपगमात्, परमनिरुद्धसमयस्यैव क्षणत्वेन तन्मात्रस्थायिनो रूपस्यापि विभागो न सम्भवतीति । अन्वयदृष्टान्तमुपदर्य व्यतिरेकदृष्टान्तमुपदर्शयति-यच्चैककालं न भवतीति । उत्पादविनाशयोरेककालतां प्रसाध्य ताभ्यां ध्रौव्यात्मकस्य द्रव्यस्य तयोश्च ध्रौव्यात्मकेन द्रव्येण सहाभिन्नकालत्वं साधयति-एवमुत्पादविनाशाभ्यामिति। ताभ्यामेवेति, स्वात्मत्वापृथग्भावरूपहेत्वेकक्षणवत्यैकरूपदृष्टान्ताभ्यामित्यर्थः, पूर्वमुत्पादविनाशौ परस्परमेककालौ स्वात्मत्वापृथग्भूतत्वादेकक्षणवर्येकरूपवत् , ततो ध्रौव्यात्मकं द्रव्यमुत्पादविनाशैककालं खात्मत्वापृथग्भूतत्वात् , उत्पादविनाशी द्रव्यैककालौ खात्मत्वापृथग्भावात् , एकक्षणवर्येकरूपवदिति प्रयोगोऽनुसन्धेयः। न च सिद्धसाधनादिदमनुमानं नावतरतीति शङ्कयम् , एकान्तबादिभिस्तेषां भिन्नकालतया विभिन्नतयैव चैकान्तेनाभ्युपगमेन तान्प्रत्येवोतसाधनस्यावतारात्सिद्धसाधनाभावादित्याशयः । नन्वेवं सति खरूपासिद्धत्व हेतोः, एकान्तवादिभिरुत्पादादीनां खात्मत्वापृथग्भावस्यानङ्गीकारादित्याह-ननु चेति, उत्पादविनाशयोरित्युपलक्षणं द्रव्यस्यापि ताभ्यां सह तयोश्च द्रव्येण सह खात्मत्वापृथक्त्वन्न प्रतिजानीत इत्यपि बोध्यम् , न प्रतिजानीते इत्यस्य नाभ्युपेतीत्यर्थः । ग्रन्थकार आह-तत्प्रसाधनायेति, अत इति दृश्यम् , यतस्तदनभ्युपगमात्स्वरूपासिद्धिर्मा प्रापदित्येतस्मात्कारणादिति तदर्थः, तत्प्रसाधनाय खात्मत्वापृथक्त्वसिद्धये । परिकर उपायः। परिकरमेव दर्शयति-सर्पद्रव्यस्येत्यादिना । आत्मनि खरूपे। तस्यैव सर्पद्रव्यस्यैव । उभयाकार उत्पतनाकारः पतनाकारश्च । सर्पद्रव्यात्मेत्यत्र द्रव्यपदोपादानात्पूर्वोपरपोयानुस्यूतता सर्पस्यावेदिता, नहि उत्पन्नाकारकाले यः सर्पः स न निपतनताकारकाले अनुभवविरोधादित्याह-नहीति । एवं

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150