Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
भाष्यटीकाविवृतियुता] सौगतविकल्पोपमर्दने पर्युदासप्रसज्यप्रतिषेधविचारः। [३७] कल्पः-स्वभावान्तरं किल क्रियते विनाशहेतुना, घटतादवस्थ्ये तु सकलघटनिष्पाद्यजलधारणादिक्रियाप्रसङ्ग इति शापदानमुदघोषि । एतच्च विकल्पद्वयं न जाने किं प्रथमतरमेव मायासूनुनोत्खातमुत्पन्नसर्वार्थज्ञानेनाहोस्विद् भिक्षुवरधर्मकीर्तिनैव स्वयमुत्प्रेक्षितमिति ?, यत् सत्यं विस्मिताः स्मोऽनया वाचोयुक्त्या-किं विनाशहेतुर्घटमेव करोति उत स्वभावान्तरमिति ?, यद् विनाशहेतुना क्रियते तदेवैकं न व्यपादेशि गलितधिषणेन; घटविनाशहेतुर्घटविनाशमेव करोति, स चोक्तोऽवस्थान्तरापत्तिलक्षणः प्रथममेव । अभावविकल्पेऽपि पर्युदासाभ्युपगमे किल विवक्षिताद् भावादन्यं भावमेव करोति, ततश्च पूर्ववद् व्यतिरेकाव्यतिरेकविकल्पानतिक्रमः, व्यतिरेकाव्यतिरेकविकल्पौ च विहितप्रतिक्रियौ प्राग विकल्पाभासत्वाच्चायुक्तौ, प्रसज्यप्रतिषेधपक्षे त्वभावं करोति-भावं न करोतीति वाक्यार्थः । तदेतदयुक्तम् , अस्मत्प्रक्रियानवबोधात् , जैनी प्रक्रिया द्रव्यपर्यायावुभौ वस्तु भावाभावस्वभावम् , न चाभावः कश्चिद् भावान्निटुंठितः सम्भवति यं विनाशहेतुः करिष्यति, न चास्ति काचित् क्रिया द्रव्यादत्यन्तव्यतिरिच्यमानस्वभावा यस्याः प्रसज्यप्रतिषेधेन निवारणा क्रियेत, द्रव्यमेव हि तथोद्भूतपरिणामं क्रियाव्यपदेशमश्नुते द्रव्यनयस्य, पर्युदासो हि विधिरूपत्वाद् द्रव्यास्तिकः, इतरः पर्यायनयः प्रतिषेधमात्रत्वात्, एतौ च परस्परापेक्षावेव च वस्तु नैककौ, ततश्च विभागाभावादसद्विप्रौढप्रज्ञः स्यान्नैवं यथाकथञ्चिदुपन्यस्येदिति । प्रथमविकल्पः, विनश्यमानभावस्वभावं कुर्यादिति पक्षः। द्वितीयविकल्प इति । एतत्स्वरूपाख्यानम्-स्वभावान्तरं किल क्रियते विनाशहेतुनेति । तत्पक्षोद्भावितदोषस्य संक्षेपेणोत्कीर्तनम्घटतादवस्थ्ये त्वित्यादि । तद्दोषस्य शापदानत्वेनोपन्यसनं निस्सारत्वख्यापनाय। उत्खातं खण्डितम् , मायासूनुना बुद्धेन । उत्पन्नसर्वार्थज्ञानेनेति । विशेषणं मायासूनोरुपहासाय-इदानीं पर्यन्तं कोऽपि बुद्धेतरो विद्वान्नेदृशं विकल्पमकार्षीदयं च कृतवानतो नूनमस्य विज्ञानं सर्वार्थविज्ञानमिति । स्वयमिति, न तु बुद्धतच्छिष्यपरम्परागतमिति । अनया उक्तविकल्पद्वयोद्भावनरूपया । का च सा वाचोयुक्तिरित्यपेक्षायां किं विनाशहेतुर्घटमेव करोति उत स्वभावान्तरमितीति । तत्स्वरूपानुवादः-गलितधिषणेनेति, गलिता पतिता धिषणा बुद्धिर्यस्य स गलितधिषणस्तेन बुद्धिशून्येन धर्मकीर्तिनेत्यर्थः । विनाशहेतुना किं क्रियते तद्भवतैव वाच्यं यदनवबोधाद्धर्मकीर्तेर्गलितधिषणत्वं जानीम इत्याक्षिप्त एवाह-घटविनाशहेतु
सच घटविनाशश्च । प्रथममेवेति, उक्त इति पूर्वतनेन सम्बन्धः। तत्र यद्येवं विकल्प्यते-न विवक्षितो भावोऽभाव इत्यादिग्रन्थ एवोक्तः । अत्र बौद्धः पूर्वग्रन्थस्थदोषमेव स्मारयति-अभावविकल्पेऽपीति, अस्तु व्यतिरेकविकल्पानतिक्रमः किन्नश्छिन्नमिति । ग्रन्थकृत्समाधत्ते-व्यतिरेकाव्यतिरेकविकल्पो चेति । विहितप्रतिक्रिया दत्तोत्तरी, तथा च न पिष्टपेषणमस्माभिः करणीयं प्रेक्षाविदग्धैरिति । प्रामाणिको हि विकल्प उत्तरार्हो भवति, भवदुक्तौ च विकल्पी विकल्पाभासत्वान्नोत्तराहावित्याह-विकल्पाभासत्वाच्चायुक्ताविति । ननु पर्युदासपक्षाश्रितो विकल्पोऽस्तु विकल्पाभासः, प्रसज्यप्रतिषेधपक्षीयस्तु दोषः स्यादेव भवत इत्यत आह-प्रसज्यप्रतिषेधपक्ष इति । अत्र पक्षे नाशहेतुत्वेनाभिमतस्याहेतुत्वमकारकत्वमापादितं तत्तदा स्याद्यद्यभावोऽभाव एव स्यात्तुच्छरूपः, तस्य करणासम्भवात् भावं न करोतीत्यर्थपर्यवसानमस्माकमनुमतं स्यान्न चैवमित्याह-तदेतदयुक्तमिति, न द्रव्यं पर्यायवियुतं न पर्याया द्रव्यवर्जिता न तो भावरूपावेव नाप्यभावरूपावेव किन्तु भावाभावस्वभावं द्रव्यपर्यायात्मकमेकं वस्तु, तत्राभावांशस्यापि भावात्मकत्वेन तत्करणं नानुपपन्नं ततस्तत्कर्हेतुत्वं कारकत्वश्च घटत एवेत्यभिप्रायवान् जेनी प्रक्रियामुपदर्शयति-जैनी प्रक्रियेति ।भावं न करोतीति क्रियाप्रतिषेधोऽप्यैकान्तिको जैनप्रक्रियायां न घटत इत्याह-न चास्ति काचित्क्रियेति । द्रव्यस्वरूपता क्रियायाः के नयमाश्रित्येत्यपेक्षायामाह-द्रव्यनयस्येति । नअर्थप्ररूपणे द्रव्यनयस्य कोऽवकाश इत्यत आह-पर्यदासो हीति । द्रव्यास्तिक इति, विषयविषयिणोरभेदं विवक्षित्वेत्थमुक्तिः, शब्दार्थज्ञानानां त्रयाणामपि नयत्वमिति पक्षं वाश्रित्येत्थमभिधानम् । इतर: प्रसज्यप्रतिषेधः । एतौ द्रव्यपर्ययनयविषयौ भावाभावौ। विभागाभावात् , अभावस्य भावात्पृथक्करणासम्भवात् । असद्विकल्पतेति, विषयसद्भावे हि विकल्पः प्रवर्तते, विषयाभावे हि निर्निबन्धना विकल्पप्रवृत्तिरपि न सम्भवतीत्यसद्रिकल्पता

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150