Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 76
________________ भाष्यदीकाविवृतियुता] प्रायोगिकविनाशसाधने सुगतविचारापाकरणम् । तदेदयुक्तं स्वगोष्ठरमणीयं प्रकाशनमात्रत्वात् , न ह्यनुपपत्तिकमभिधीयमानं विचित्रमपि प्रतिपत्तुमुत्सहन्ते विद्वांसः, प्रकृत्यैव भकुराः सर्वभावा विनाशहेत्वयोगादित्यसिद्धता हेतोः, यस्मादयं विनाशः कदाचिदेव भवत्युपजनक्षणोत्तरकालं नोपजनक्षण एव, उपजनक्षणश्चात्मलाभकालस्तत्र विनाशाभावात् कादाचित्कत्वं विनाशस्य निर्हेतुकविनाशवादिनोऽपि प्रसिद्धम् , न लब्धात्मलाभं वस्तु विनश्यति, व्योमकुसुमादीनामपि विनाशप्रसङ्गात्, ये च कादाचित्काः पटादयस्ते प्रतिविशिष्टहेतुजन्या एव दृष्टास्तथा विवादास्पदास्कन्दी विनाशोऽपि प्रागविद्यमानः पश्चादात्मलाभहेतुमपेक्षमाण एवात्मानमासादयति । ननु चैवमभ्युपेयमाने विनाशस्यापि हेतुमत्त्वात् पटादेरिव विनाशेन भवितव्यम् , असत्त्वाञ्च निष्कारणो विनाशः खकुसुमादिवदित्यनुमानविरोधिनी प्रतिज्ञेयं-कारणवान् विनाश इति । अत्रोंच्यते-पूर्वावस्थापच्युतिरुत्तरावस्थोत्पत्तिः, उत्तरावस्थापत्तिश्च पूर्वावस्थाप्रच्युतिः, अयमेव विनाशशब्दवाच्योऽर्थो नात्यन्ताभाव इति प्राक् प्रत्यपादि प्रपञ्चेन, ततश्च विनाशस्यापि विनाश इति प्रसिद्धमेव प्रसाध्यते, विनष्टे च विनाशे पुनरवस्थान्तरोत्पत्तिक्रमवृत्त्या न किञ्चिदनिष्टमस्ति स्याद्वादप्रक्रियायाम् , अत एव चासत्त्वान्निष्कारणो विनाश इत्येतदप्यपास्तमेव, असत्त्वस्यासिद्धतादिदोषाक्षणिकत्वेनैव व्याप्तेरित्यभिसन्धिः । एतावता बौद्धमतमुपपाद्य तत्प्रतिक्षिपति-तदेतदयुक्तमित्यादिना । विनाशहेत्वयोगादित्यसिद्धताहेतोरित्यत्र विनाशहेत्वयोगादिति हेतोरसिद्धतेत्येवं योगः। तत्र हेतुमाह-यस्मादिति । उपजनेति, उत्पत्तीत्यर्थः । कथं नोपजनक्षण एव विनाश इत्यपेक्षायामाह-उपजनक्षणश्चेति । आत्मलाभकाल इति, आत्मनो वस्तुस्वरूपस्य लाभः सत्त्वप्राप्तियस्मिन्स आत्मलाभः तादृशश्चासौ कालश्चेति आत्मलाभकालः, आद्यक्षणसम्बन्ध इति यावत् । तत्र उत्पत्तिक्षणे एवं सति तस्मिन्क्षणेऽसतो विनाशस्योत्तरकाले सत्त्वात्किञ्चित्कालासत्त्वे सति किञ्चित्कालसत्त्वरूपं कादाचित्कत्वं सिद्धं, ततश्च सहेतुकत्वमपि सियति उत्पत्तौ तस्य हेतुमत्त्वेन सहाविनाभावस्य गृहीतत्वात् । न च प्रागभावे व्यभिचारः, तस्य जैनमते पूर्वायरूपतयैव स्वीकारेण तत्र सहेतुकत्वस्य सद्भावात् पूर्वपूर्वपर्यायात्मकप्रवाहस्यानादिकालतयैव तदात्मत्वमाश्रित्य तत्रानादित्वव्यवहारात् , क्षणिकवादिनस्तवापि पूर्वपूर्वक्षणस्यैवोत्तरोत्तरक्षणप्रागभावतयाऽभ्युपगम इति तस्य खकारणजन्यत्वमस्त्येव, येषां चानादिस्सान्तः प्रागभावस्तन्मताश्रयणेन तत्र व्यभिचारस्तु पूर्वकालावृत्तित्वे सति उत्तरकालवृत्तित्वरूपता कादाचित्कत्वस्य खीकृत्य परिहरणीय इत्याशयेनाह-कादाचित्कत्वं विनाशस्येति । अनुत्पन्नस्यैव विनाशाभ्युपगमोऽनुभवबाधित इति तस्य पूर्वकालेऽसत्त्वमावश्यकमित्याह-नालब्धात्मलाभमिति । कादाचित्कत्वस्य सहेतुकत्वेन सहाविनाभावग्राहकमुदाहरणमुपदर्शयति-यञ्चेति । उपनयमुपदर्शयति-तथेति, यद्धि हेतुमत्तद्विनाशप्रतियोगीतिव्याप्तेविनाशस्य हेतुमत्त्वे विनाशित्वप्रसङ्गः, न चैवमभ्युपगन्तुं शक्यः, तथा सति विनाशस्य विनाशे प्रतियोग्युन्मजनप्रसङ्गः। एवं ध्वंसः सहेतुकः कादाचित्कत्वादित्यनुमानं ध्वंसो निष्कारणकोऽसत्त्वात् खपुष्पवदित्यनुमानबाधितमिति परः शङ्कते-नन्वित्यादिना । अनुमानविरोधिनी, अनुमानं विरोधि बाधकं यस्या इति व्युत्पत्त्याऽनुमानबाधितेत्यर्थः। कारणवान् विनाश इति प्रतिज्ञाखरूपकथनम् । विनाशस्यापि विनाशोऽभ्युपगम्यत एवं प्रतियोग्युन्मजनदोष उत्तरोत्तरपर्यायाणामशेषाणामेव पूर्वपूर्वपर्यायविनाशरूपत्वेनैकपर्यायरूपविनाशविनाशेऽप्युत्तरपर्यायरूपविनाशसद्भावात् , उत्तरपर्यायस्य भावरूपतया सत्त्वेन नासत्त्वं विनाशस्येति नानुमानबाधापीत्याशयेन समाधत्ते-अत्रोच्यत इति । नात्यन्ताभावः, न तुच्छरूपो ध्वंसः। प्रतियोग्युन्मजनप्रसङ्गस्यापि नावतार इत्याशयेनाह-विनष्टे चेति । क्रमवृत्त्या प्रवाहानुवृत्त्या । किश्चित् प्रतियोग्युन्मजनादि । न चैवं ध्वंसस्यानन्तत्वमिति लोकप्रसिद्धिर्भज्येतेत्यत आह-स्याद्वादप्रक्रियायामिति, नहि सर्वथा कस्यचित्सान्तत्वमनन्तत्वम्वा सम्भवति किन्तु कथञ्चिदेव, कथञ्चिदनन्तत्वं च व्यक्त्यपेक्षया सान्तत्वेऽपि उत्तरोत्तरप्रवाहात्मनाऽस्त्वेवेति न किञ्चिदनुपपन्नम् । असत्त्वहेतोरसिद्धत्वादेव निष्कारणत्वानुमानं परस्य न प्रवर्तत इत्याह-अत एवेति, ध्वंसस्योत्तरपर्यायात्मकभावरूपत्वादेव । न चोत्पत्तिमतो भावस्य विनाश इति नियमो नैयायिकादिपरिकल्पितोऽस्माभिरभ्युपगम्यते येन तस्यानन्तत्वान्यथानुपपत्त्याऽभावरूपताऽऽश्रीयेतापीत्याह-न चावश्यमिति । सर्वेणैवेत्यनन्तरं भावेनेति द्रष्टव्यम् । निषेधे हेतुमाह

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150