Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 74
________________ भाष्यटीकाविवृतियुता] अर्थान्तरगतिरूपनाशः, प्रायोगिकनाशलोपे बौद्धस्य युक्तिजालम् । [३३] स्तदुपयोगविनाशे पटोपयोगोऽर्थान्तरभावगमनम् , अण्वादेश्च शुक्लवर्णविनाशे कृष्णतयोत्पादो विनाशः, तथाऽऽकाशादीनां पूर्वावगाहगतिस्थितिविनाशेऽवगाहान्तराद्यर्थान्तरभावलक्षणो विनाशः, अत एव भावान्तरोत्पत्तितो न विगमो विगम एवैकान्तेन, नाप्युत्पाद एवोत्पादः। इत्थमुत्पादविगमौ तत्त्वेनानेकान्तात्मकेन निरूपितावन्वयांशापेक्षावेवात्मलाभं प्रतिपद्येते प्रायोगिकस्वाभाविको नान्यथा, इत्येवमुक्ते कश्चिन्मृषाभिमानी महामोह निबिडवृद्धबुद्धविप्रलब्धबुद्धिराचक्षीत-अस्तु स्वाभाविक एव विनाशो निर्हेतुकः, प्रायोगिकस्तु नोपपद्यते विनाशहेत्वयोगात् , विनश्यतां हि घटादीनां विनाशस्य हेतुर्न युज्यते, यस्मात् स्वरूपत एव भावा नश्वराः स्वहेतुभ्यो यथास्वमुपजायमाना भङ्गुरप्रकृतय उपजनक्षणानन्तरकालानवस्थानास्त एव जायन्ते, नैषां स्वकारणसामग्रीतः प्रतिलब्धात्मनां सतां प्रकृतिभङ्गुरभावमपहायान्यस्मान्मुद्गरादेः कारणविशेषान्नाशस्य वस्तुन इवोत्पत्तिः, न चेदं स्वप्रक्रियाप्रकाशमात्रम् , किं तर्हि ? उपपत्त्या निभाल्यते-विनाशहेतुत्वेनाभिमतस्य नाशकारणं प्रति मुद्गरादेरसामर्थ्यम् , कथं पुनरसामर्थ्यमिति ?, उच्यते, विनाशकरणे हि विनाशस्य त्रयी गतिः-विनश्यमानभावस्वभावं वा कुर्यादथवा स्वभावान्तरमभावं वा, तत्राव्यतिरेकपक्षस्तावदतिस्थूल एव, नहि विनाशहेतुर्मुद्गरादिः घटादिकं भावस्वभावमेव करोति, स्वकारणेभ्य एव कुलालादिभ्यस्तस्य प्रथममेव निवृत्तत्वात् , निष्पन्नस्य चाकिञ्चित्कार्यत्वात् , नापि स्वभावान्तरे कर्तव्ये तदवस्थस्य घटादेरविचलस्य विनशितुर्विकारोऽपि सम्भाव्यते, कुत एव तत्स्वभावप्रच्युतिः ?, तदवस्थश्च घटः पूर्ववदुपलभ्येत, अर्थक्रियां जलहरणादिकां कुर्वीत ॥ ननु चानित्याद् घटादेरर्थान्तरं कपालाद्येव विनाशस्तेन च विनाशहेतुनिष्पादितेन भावस्यात्मन इत्यादिना जीवस्यार्थान्तरभावगमनलक्षणं विनाशं स्पष्टीकृतवान् । तदुपयोगेति, घटोपयोगेत्यर्थः । अण्वादेश्वेत्यादिना पुद्गलस्य तथाभूतं विनाशमाह । व्योमादीनां तमुदाहरति-तथाऽऽकाशादीनामिति । पूर्वावगाहेति, पूर्वावगाहविनाशेऽवगाहान्तरतयोत्पाद आकाशस्य विनाशः, पूर्वगतिविनाशे गत्यन्तरतयोत्पादो धर्मस्य विनाशः। पूर्वस्थितिविनाशे स्थित्यन्तरतयोत्पादोऽधर्मस्य विनाशः, सोऽयमर्थान्तरभावगमनलक्षणो विनाशः। अत एवेति, अत एवोत्पादविनाशयोरन्योन्यस्वरूपत्वं तत एवेत्यर्थः।न विगमो विगम एवैकान्तेनेति, विगम एकान्तेन न विगमरूप एव किन्तूत्पादरूपोऽपीत्यर्थः । नाप्युत्पाद एवोत्पाद इति, उत्पाद एकान्तेनोत्पाद एव न किन्तु विनाशरूपोऽपीत्यर्थः । अत्र प्रायोगिकविनाशसमर्थनाय प्रायोगिकविनाशापलापिनं बौद्धं पराभवितुं तत्पूर्वपक्षावकाशदानाय भूमिकामाह-इत्थमुत्पादविगमाविति, अन्वयांशापेक्षौ ध्रौव्यसमन्वितौ । विनाशस्य खाभाविकत्वं निर्हेतुकत्वतस्सियतीत्यभिसंधानेन निर्हेतुक इत्युपात्तम् । प्रायोगिकस्त्विति, पुरुषव्यापारजन्यो विनाशः पुनरित्यर्थः । विनाशहेत्वयोगादिति यदुक्तं तस्यैवोपपादनायाहविनश्यतां हीति । भकुरप्रकृतयः, विनश्वरस्वभावाः । उपजनक्षणेति, उत्पत्तिक्षणेत्यर्थः, त एवेति, स्थाने तत एवेति पाठो युक्तः, तत एवेति, खहेतुभ्य एवेत्यर्थः। नैषामिति, नमोनाशस्योत्पत्तिरित्यनेन सम्बन्धः, एषां भावानाम्। कथम्भूतानामेषामित्यपेक्षायामाह-स्वकारणेत्यादि । प्रकृतिभङ्गुरभावमिति, प्रकृतिः स्वभावभूतो यो भकुरभावो विनश्वरत्वं तमित्यर्थः । वस्तुन इवेति, व्यतिरेकदृष्टान्तः, वस्तुन उत्पादे कारणस्य बौद्धैरप्यभ्युपगमात् । वाङ्मात्रत्वान्न परीक्षकाणां मानाहमित्थं बौद्धस्य विनाशकारणापलपनमिति न चेतसि. निधेयमित्याह-न चेदमिति । त्रयी गतिरिति, ध्वंसस्य विनश्यमानभावखभावत्वं स्वभावान्तरत्वमभावरूपत्वञ्चेति भेदात्प्रकारत्रयमित्यर्थः । एतदेवाह-विनश्यमानेति । तत्र तेषु प्रकारेषु । अव्यतिरेकपक्षः, विनाशस्य विनश्यमानस्वभावतापक्षः, तत्पक्षस्य विनाशतत्प्रा मवलम्ब्यैव प्रवृत्तेः । तस्य घटादेः, प्रथममेव मुद्रपातात्प्रागेव, निवृत्तत्वात् सम्पन्नत्वात् । विनाशस्य स्वभावान्तर घटस्य पूर्ववदवस्थाने को दोष इत्यत आह-तदवस्थश्चेति । एवंवादिनं बौद्धं प्रति.प्रतिवादी. तद्दोषपरिहारमाशङ्कते-नन्विति । तेन च, कपालादिना च, भावस्य घटादेःतथोपलब्धीति, पूर्ववदु त. त्रि. ५

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150