Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[३६]
सौगतं प्रति पृच्छा, सदीय विकल्पन्त्रयोपमर्दनाय (सश्च ।
[ तत्त्वार्थत्रिसूत्री प्रातत्वात् । न चावश्यं सर्वेणैव हेतुमता विनष्टव्यम्, अस्मत्पक्षे स्वात्मावस्थानलक्षणस्य मोक्षस्य सम्यग्ज्ञानादिहेतुकस्याप्यविनाशाभ्युपगमात् । यद्यपि सम्यग्ज्ञानादिहेतुः कर्मक्षपणाभ्युपायस्तथापि स्वात्मावस्थानस्य कर्मक्षयरूपत्वाददोषः । विनाशवान् विनाश इति चाभ्युपयतः सौगतस्याभ्युपगमविरोधः । निष्कारण विनाशवादी चेदं प्रष्टव्यः - किं निष्कारणत्वान्नित्यो विनाशः उतासन्निति ? । तत्र यदि नित्यः, कार्योत्पादाभावप्रसङ्गः, द्वितीयविकल्पे विनाशाभावात् सर्वपदार्थानां नित्यत्वप्रसङ्गः । न चासन् सर्व एव निष्कारणः, स्तम्भकुम्भादीनामसत्त्वेऽपीतरेतरात्मना हेतुमत्त्वमस्तीत्यनेकान्तात्, यथा चानादित्वात् प्रागभावो निर्हेतुकोऽपि विनश्यत्येवं विनाशोऽसन्नपि हेतुमान् किमिति नेष्यते ? । एवं द्रव्यपर्यायात्मकप्रक्रियाप्रपञ्चे विश्वमुखे सर्वमेवैकान्तवाद्युत्प्रेक्षितमसाधनमेव जायते स्याद्वादिनं प्रति । विनाशे च सहेतुके प्रतिपादिते यदुक्तं - मुद्गरादेरसामर्थ्यं विनाशकरणं प्रति तदयुक्तम्, अस्त्येव हि सामर्थ्यं तद्भावभावितया कपालाद्युत्पत्तेः । विकल्पत्रयं च सुकुमारप्रज्ञेन प्रमाणविचारपरिक्केशासहिष्णुना यथाकथञ्चिदुपन्यस्य प्रथमविकल्पोऽतिस्थूल इत्येवोपेक्षितो मनागागतत्रपेण, तथा द्वितीयांवेअस्मत्पक्ष इति, जैनसिद्धान्त इत्यर्थः । परकल्पितात्यन्तिकदुःखनिवृत्तिरूपमोक्षस्याभावरूपत्वादेव न नाश इत्यत उक्तम्स्वात्मावस्थानलक्षणस्येति । अनेन मोक्षस्य भावरूपत्वमाविष्कृतम्, तस्य निर्हेतुकत्वादेव न नाश इति न भ्रमितव्य - मित्याह- सम्यग्ज्ञानादिहेतुकस्येति, आदिपदात्सम्यग्दर्शन चारित्रयोरुपग्रहः । ननु सम्यग्ज्ञानाद्यनन्तरं निखिलकर्मणामेव क्षयः, तस्य निखिलकर्मविगमस्य मोक्षत्वपक्षे मोक्षरूपताऽपि तत्कारणत्वात्सम्यग्ज्ञानादीनां मोक्षमार्गत्वमप्युपपद्यते, तस्य चाभावरूपत्वादेव न हेतुमता सर्वेण भावेन विनष्टव्यमिति नियमविघातकत्वमित्यत आह- यद्यपीति । सम्यग्ज्ञानादितुरिति, सम्यग्ज्ञानादिश्चासौ हेतुश्चेति कर्मधारयः, यद्यपि स्वावरणीय कर्मक्षयात्सम्यग्ज्ञानादीनामाविर्भाव इति सम्यग्ज्ञानादिकम्प्रत्येव कर्मक्षयस्य हेतुता न तु कर्मक्षयम्प्रति सम्यग्ज्ञानादेरिति कार्यकारणभाववैपरीत्यमेव, तथापि कृत्स्नकर्मक्षयलक्षण एव स न तु कतिपयज्ञानाद्यावरणक्षयः, स च सम्यग्ज्ञानाद्यनन्तरमेव सम्पद्यत इति कर्मक्षपणाभ्युपाय इत्यत्र तत्पुरुषः, न तु सम्यग्ज्ञानादिहेतुरित्यत्र तत्पुरुषः, तथा सति कर्मक्षपणहेतुना सम्यग्ज्ञानादेर्जन्यत्वमेव लभ्येत, तेन स्वात्मावस्थानलक्षणस्य मोक्षस्य सम्यग्ज्ञानहेतुकत्वं न प्रत्यादिष्टं स्यादिति यद्यपीत्युक्तेः साफल्यं न भवेदिति विभावनीयं सुधीभिः । निखिलकर्मक्षयस्य सम्यग्ज्ञानादिहेतुकस्य मोक्षत्वेऽपि खात्मावस्थानस्य मोक्षत्वमागतमेव तस्य तद्रूपत्वात्तत एव च सम्यग्ज्ञानादिहेतुक त्वमपीत्याह - तथाऽपीति । न चैवं सत्यभावरूपत्वमेवापतितमिति शख्यम्, कर्मक्षयस्य न तुच्छरूपता किन्तु खात्मावस्थानलक्षणभावरूपतैवेत्यत्रोक्तग्रन्थस्वारस्यादिति । सर्वस्य क्षणिकत्वमभ्युपगच्छता सौगतेन विनाशस्यापि विनाशोऽभ्युपेय एवेति विनाशो न विनश्यतीत्युपगमस्वाभ्युपगम विरुद्ध इत्याह - विनाशवान्विनाश इति चेति । सौगतं पुनरा स्कन्दन्नाह - निष्कारण विनाशवादीति, बौद्ध इत्यर्थः । इदं, किं निष्कारणत्वादित्यादिवक्ष्यमाणं बुद्धौ विपरिवर्त्तमानत्वात्प्रत्यक्षम् । नित्यत्वपक्षे ध्वंसस्यैव सर्वदा सत्त्वेन तत्प्रतियोगिनः कार्यस्य कदापि सत्त्वं न स्यादित्याह - कार्योत्पादाभावप्रसङ्ग इति । द्वितीय विकल्पे ध्वंसोऽसन्निति पक्षे, ध्वंसाभावे ध्वंसप्रतियोगित्वरूपानित्यत्वस्याप्यभाव इति ध्वंसप्रतियोगित्वाभावरूपनित्यत्वमेव स्यादित्यर्थः । यदसत्तन्निष्कारणकमिति व्याप्तिरपि व्यभिचारान्न सम्भवतीत्याह - न चासन्निति । इतरात्मनेति, परद्रव्यक्षेत्र कालभावात्मनेत्यर्थः । अनादित्वा दिति, न्यायादिमते खरूपत एव प्रागभावस्यानादित्वं बौद्धमते पूर्वक्षणे सन्तानत्वमेव प्रागभावत्वमिति तद्रूपेणानादित्वमिति बोध्यम् । यद्यपि सन्ततिपतितस्य पूर्वपूर्वक्षणस्य बौद्धमते सहेतुकत्वमेव, तथापि उक्तलक्षणप्रागभावत्वेन न सहेतुकत्वमिति निर्हेतुकत्वस्य तत्र नासिद्धिः । असन्नपि विध्यात्मनाऽसन्नपि । विश्वमुखे, सर्ववस्तुनि । विनाशकरणम्प्रति मुद्गरादेस्सामर्थ्यं व्यवस्थापयति- विनाशे चेति । तद्भावभावितयेति, मुद्गरादीनां निपतनादिव्यापारसद्भावे कपालादिलक्षणघटध्वंसोत्पत्तेर्भवितत्वेनेत्यर्थः, कपालाद्युत्पत्तेस्तद्भावभावितया मुद्गरादेः विनाशकरण - म्प्रति सामर्थ्यमस्त्येवेत्येवमन्वयार्थोऽत्र बोध्यः । विकल्पत्रयमिति, विनाशकरणे हि विनाशस्य त्रयी गतिः - विनश्यमानभावस्वभावं वा कुर्यादथवा स्वभावान्तरमभावं वेति ग्रन्थोक्त विकल्पत्रयमित्यर्थः, यत एव बौद्धः सुकुमारप्रज्ञोऽत एव प्रमाणविचारपरिक्लेशासहिष्णुरिति हेतुहेतुमद्भावेन व्याख्येयम् । अस्यैवोपोद्वलनाय यथाकथञ्चिदुपन्यस्येत्युपात्तम्, यद्ययं

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150