Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 72
________________ भाष्यटीकाविवृतियुता] धर्मादित्रये पारमार्थिकोत्पादव्ययोपवर्णनम् , विनाशभेदाश्च । [३१] एवं सति ध्रौव्यमेवाकाशादिष्ववशिष्यते, न च ध्रौव्यं परमार्थरूपोत्पादविनाशशून्यम् , अपि चआकाशादिधौव्यं पारमार्थिकानुपचरितोत्पादविनाशसम्बन्धि ध्रुवत्वात् पुद्गलजीवध्रुवत्ववत् । अथ व्यवहार उपचारः; तथापि स व्यवहार आगमपूर्वको वा स्यालोकप्रसिद्धिपूर्वको वा ?, तद् यदि तावदागमपूर्वकस्ततो भगवताऽऽख्यातं जगत्स्वरूपं प्रश्नत्रितयेनोत्पादादिना, न च कचिदुपचारेण कचित् परमार्थत इत्यनागममाकाशादौ ध्रौव्यमेवेति; लोकप्रसिद्ध्यङ्गीकरणे धर्मादिद्रव्याप्रसिद्धिरेव कुतस्तदाश्रयावुत्पादविनाशाविति दूरापास्तं धर्मादिद्रव्यध्रौव्यम् । एवमुत्पादव्ययध्रौव्ययुक्तं सत्सर्वमिति व्यवस्थितं लक्षणम् ॥ एवमुत्पादमभिधाय सप्रपञ्चमधुना विनाशविचारः क्रियते । विनाशोऽपि द्विविधः-समुदायविभागमात्रमर्थान्तरभावगमनं च, तत्र समुदायविभागलक्षणो द्विधा-स्वाभाविकः प्रायोगिकश्च, खाभाविको जीवव्यापारनिरपेक्षः, प्रायोगिकस्त्वात्मव्यापारादुपजातः । तत्र स्वाभाविको धर्माधर्माकाशजीवपुद्गलद्रव्याणां द्रव्यात्मनाऽवस्थितानामेव, यथा-तेरधोगतिपरिणामविशेषनाशादूर्ध्वगतिपरिणामेनोत्पादः, तथा कचिद् देशेऽवस्थितस्य तद्देशावस्थानविनाशेऽन्यदेशावस्थानोत्पादः, खस्यापि नास्त्येव सम्भव इति औपचारिकोत्पादव्ययाभ्युपगमे आकाशादौ ध्रौव्येऽपि जलाञ्जलिरेव वितीर्णा स्यात्तथा च शशशृङ्गकल्पतेव तेषां स्यादित्याशयेन समाधत्ते-तदयक्तमिति । एवं सति उत्पादव्यययोराकाशादावलीकत्वे सति । ननु पुद्गलजीवध्रुवत्वस्योत्पादव्ययसाहचर्येऽनुभवप्रमाणसद्भावेन वास्तविकोत्पादव्ययसाहचर्यसम्भवेऽपि आकाशादिध्रौव्ये तत्साहचर्यसाधकप्रमाणाभावात् कथं तस्य तत्त्वं श्रद्धयमित्यगत्या स्याद्वादस्य तदव्यापित्वमेवास्थेयमित्यत आह-अपि चेति, तथा च तत्राप्यनुमानं प्रमाणमस्त्येवेति भावः । ननूपचारस्य नालीकत्वमर्थः, किन्तु व्यवहार एव, तत्र नोक्तदोषावसर इत्यत आह-अथ व्यवहार उपचार इति । प्रश्नत्रितयेनेति, 'उप्पेइ वा विगमेइ वा धुवेइ वा' इति प्रश्नत्रितयेनेत्यर्थः । तत्र यादृश उत्पादस्तादृश एव विनाशस्तादृशमेव च ध्रौव्यं महावीरागमबोधितमिति पारमार्थिकध्रौव्यस्य पारमार्थिकोत्पादव्ययसमन्वितत्वमेवेति केवलध्रौव्यस्याकाशादिगतस्यानागमिकत्वेनासम्भव एवेति लोकप्रसिद्धिपूर्वकव्यवहाररूपोपचारपक्षमपाकर्तुमाह-लोकप्रसियङ्गीकरण इति, नहि धर्मादिद्रव्याणां लोकसिद्धत्वं प्रत्यक्षप्रमाणसिद्धस्य तत्पूर्वकानुमानादिसिद्धस्य वा लोकसिद्धत्वेन धर्मादीनामस्मदादिप्रत्यक्षाविषयत्वेन तदसम्भवात् , तथा च धर्मादीनां लोकसिद्धत्वाभावे तदाश्रितोत्पादव्यययोर्लोकप्रसिद्धिपूर्वकव्यवहारविषयत्वस्य दूरापास्तत्वेन तदविनाभाविध्रौव्यमपि दुरापास्तमेवेति भावः ॥ धर्मादीनामपि उत्पादव्यवस्थितौ तदविनाभूतव्ययध्रौव्यव्यवस्थित्या सर्वस्य वस्तुनलक्षण्यमुपपन्नमित्युपसंहरति-एवमिति । विनाशविचारमवतारयितुमाह-एवमुत्पा. दमभिधायेति । खाभाविकस्य समुदायविभागलक्षणस्य विनाशस्य क्रमेण धर्मादिषु सङ्घटनामुपदर्शयति-यथा गतेरिति । एतेनाधोगतिपरिणामविशेषनाशो धर्मास्तिकायस्य तादृशविशेषपरिणामात्मना नाशः, सच पूर्वमधोदेशावच्छिन्नगमनकर्तृजीवपुद्गलस्यो देशगमने सति भवति, एवञ्चाधोदेशे यद्गन्तृजीवपुद्गलधर्मसमुदायः पूर्वमभवत् तस्य विभाग एव जात इति कृत्वा स विनाशस्समुदायविभागलक्षणोऽभिधीयते, तस्य च नैकान्तिकविनाशरूपत्वं तस्य तुच्छरूपत्वेन शशशृङ्गकल्पतैव स्यादत ऊर्द्धगतिपरिणामेनोत्पाद एव धर्मास्तिकायस्याधोगतिपरिणाम विशेषात्मना नाश इत्युत्पादाविनाभूतत्वं विनाशस्येत्यावेदयितुमुकम्-गतेरधोगतिपरिणामविशेषनाशादूर्ध्वगतिपरिणामेनोत्पाद इति, गत्युपग्राहकस्य धर्मस्य गत्यभिन्नत्वमवलम्ब्येयमुक्तिः, अन्यथा गतेरेवोत्पादविनाशावावेदितौ स्यातां न धर्मास्तिकस्येति । ऊर्ध्वाधोगत्योः परिणामत्वोक्त्या तदनुगामिनो द्रव्यस्य परिणामित्वमावेदितम्भवतीति द्रव्यात्मनावस्थितत्वमप्यार्थात्प्राप्तमेवेति ध्रौव्याविनाभूतत्वमपि विनाशस्य सूचितम् । विमाशोत्पादयोस्समकालत्वेऽपि व्यावहारिक प्रयोजकभावमाश्रित्य पञ्चमी विभक्तिः, दृष्टञ्च समकालयोरपि कारणाभावकार्याभावयोः प्रयोज्य प्रयोजकभावं परिकल्प्य कारणाभावात् कार्याभाव इति व्यवहारः । एवं विनाशस्योत्पादाभिन्नत्वेऽपि कथञ्चिद्भेदविवक्षया तथोक्तिः, यथा घटज्ञानाबटसिद्धिरित्यादीति, एवमग्रेऽपि बोध्यम् । अधर्मास्तिकाये विनाशसङ्घटनामावेवि-तथा कचिद्देशेऽवस्थितस्येति, भानना पूर्व दिशा बोध्या । आकाशे विनाशस्योत्पादाविनाभावं प्रकटयति-खस्या

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150