Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 67
________________ [२६] नयविशेषापेक्षयोत्पादादेः परमार्थापरमार्थता, प्रत्येकं सल्लक्षणत्वाभावश्च । [ तत्त्वार्थत्रिसूत्री भवन्तीति, एनमेवार्थमुत्तरेण भाष्येण प्रदर्शयति - [ यदुत्पद्यते यद् व्येति यच ध्रुवं तत् सत् । अतोऽन्यदसदिति ॥] यदुत्पद्यते इत्यादि । यदिति सामान्यमात्राभिधायिना सर्वनाम्ना धर्मास्तिकायादिपञ्चकपरिग्रहः, परस्परापेक्षाः समुदिता एवोत्पादादयः सल्लक्षयन्ति, तत्र द्रव्यनयाभिप्रायेणाकारान्तराविर्भावमात्रमुत्पाद औपचारिकः, परमार्थतो न किञ्चिदुत्पद्यते सततमवस्थितद्रव्यांशविवर्तमानमुत्पादविनाशव्यवस्थया व्यपदिश्यते प्रज्ञायते च पूर्वक्षणोच्छेदेन क्षणान्तरात्मलाभ उत्पादः पर्यायस्य, तस्यैव क्षणस्य निरन्वयोच्छेदिता विनाशः, द्रव्यास्तिकस्य धौव्यमन्वयी सामान्यांशः । पर्यायस्योपचारात् सन्तानमात्रं प्रौव्यशब्दाभिधेयम्, एक: सन्तानः, तद्बलेन च प्रत्यभिज्ञादिप्रसिद्धिः । तदेतत् त्रितयमपि प्रतिपादयत्युभयनयसङ्गत्या वस्तुसद्भावप्रतिपत्तये, न धौव्यमुत्पादव्ययशुन्यं केनचित् प्रमाणेन गोचरीकर्तुं शक्यते, नाप्युत्पादव्ययौ सामान्यांशवियुताविति यदुत्पद्यते यद् व्येति यच्च ध्रुवं तत्सद् विद्यते तदस्तीति, सामर्थ्यादिदमापन्नम् - अतोऽन्यदसदिति, अत इत्युत्पादादिसमुदितस्वभावाद् यदन्यत् तदसत् तच्च किं ? समुदायादपकृष्ट एकक उत्पादो वा विनाशो वा धौव्यं वा, उत्पादविनाशौवा, उत्पादधौव्ये वा, विनाशघ्रौव्ये वा, इतरनिरपेक्ष्यस्य तादृशांशस्याभावाद उत्पादादय इति सम्बध्यते । एनमेव प्रत्येकं न किन्तु समुदिता एवोत्पादादयः वस्तुतत्त्वमित्येवंरूपमेव । सामान्यमात्राभिधायिना यदिति सर्वनाम्नेति योगः । परस्परापेक्षद्रव्यपर्यायोभयनयानुगतप्रमाणप्रमेयं वस्तुन वैलक्षण्यं तत्त्वं न तु परस्परानपेक्षैकनयाभिमतं तत्त्वम्भवितुमर्हतीत्युपपादयितुमाह - तत्रेति, उत्पादादिषु त्रिध्वित्यर्थः । प्रथमं द्रव्यनयवक्तव्यमा वि• करोति - द्रव्यनयाभिप्रायेणेयारभ्य प्रज्ञायते चेलन्तेन । पर्यायनयवक्तव्यमाह - पूर्वक्षणोच्छेदेनेति । पर्यायस्येति, पर्यायनयस्येत्यर्थः, अभिप्रायेणेति शेषः । तस्यैव क्षणस्येति, पूर्वक्षणस्यैवेत्यर्थः । उत्पादव्यययोस्स्वरूपं मतद्वयेनोपदर्श्य द्रव्यनये ध्रौव्यं किं, पर्यायनये च किं तदित्यपेक्षायामाह - द्रव्यास्तिकस्येति, मत इति शेषः, एत्रमपि । अन्वयी पूर्वपरपर्यायानुगतो यः सामान्यांशः स द्रव्यास्तिकस्य मते ध्रौव्यमित्यर्थः, द्रव्यनये ध्रौव्यं पारमार्थिकम् उत्पादव्ययौ चौपचारिकौ । पर्यायनये चोत्पादव्ययौ पारमार्थिकौ धौ व्यञ्चौपचारिकमित्यभिप्रेत्याह-पर्यायस्येति, पर्यायास्ति कस्येत्यर्थः । सन्तानमात्रमित्यत्र मात्रपदोपादानात्सामान्यस्य व्यवच्छेदः । किमर्थन्तर्हि औपचारिकस्यैकस्य सन्तानस्य कल्पनमित्यत आह- तद्वलेनेति, सन्तानात्मकैकविषयावगाहित्वेनेत्यर्थः । प्रत्यभिज्ञादिप्रसिद्धिः, सोऽयं घट इत्यादिप्रत्यभिज्ञायाः परमाणुपुञ्जात्मकपूर्वापरकालवर्त्तिनो टक्षणयोर्भेदेन तदैक्यरूपविषयाभावेऽपि तत्सन्तानैक्यरूप विषयसद्भावेन प्रामाण्यप्रसिद्धिः । एवं च द्रव्यनये केवले केवले च पर्यायनये न वस्तुगत्योत्पादव्ययध्रौव्यात्मक वस्तुप्रसिद्धिः, उभयनयव्यापि प्रमाणावलम्बने च तत्प्रसिद्धिरित्याह- तदेतत्रितयमपीति । ननु व्यमेवास्तु वस्तु धौव्यरहितावुत्पादव्ययौ वाऽस्तु तथा, तथा च तत्प्रतिपत्तिरे केनापि नयेन सुलभेत्युभयनयसङ्गत्या - श्रयणं वस्तुप्रतिपत्त्यर्थमनावश्यकमित्यत आह-न धौव्यमुत्पादव्ययशून्यमिति, तथा च केवलस्य ध्रौव्यस्य तद्विनिर्मुक्तयो - श्रोत्पादव्यययोदशशशृङ्ग कल्पतया तद्विषययोः परस्पर निरपेक्षलययोर्न वस्तुविषयकत्वमिति न ततो वस्तुप्रतिपत्तिरिति भावः । सदित्यस्य व्याख्यानं विद्यत इति, तथा च तत्सदित्यस्य तदस्तीत्यर्थः । “उत्पादव्ययध्रौव्ययुक्तं सत्" इति सूत्रे अतोऽन्यदसदिति नोक्तं भाष्ये कथमकस्मादिदमापतितमित्यत आह-सामर्थ्यादिदमापन्नमिति, लक्षणस्य लक्ष्यतावच्छेदकसम• नियतत्वेन यत्र लक्षणं नास्ति तत्र लक्ष्यतावच्छेदकमपि नास्तीति प्रकृते उत्पादव्ययध्रौव्यलक्षणरहिते सत्त्वाभावादसत्त्वमर्थाक्षिप्तमेवेति । अत इत्यत्रेदम्पदेनोत्पादादीनां त्रयाणां प्रत्येकं परामर्शे प्रत्येकमुत्पादादिषु त्रिषु उत्पादिभिन्नत्वस्याभावात्तेषामैकैकशोऽसत्त्वन्न प्राप्नोति येषां च शशशृङ्गादीनां नास्त्युत्पादाद्यन्यतमरूपता तेषां सर्वोपाख्याविधुराणां व्यवहारसामान्याविषयत्वेन नासद्व्यवहारविषयत्वमपीत्यतोऽन्यदसदित्यस्य निर्विषयत्वमेव स्यादित्यत आह- अत इत्युत्पादादिसमुदितस्वभावादिति । तच्च किम् ? उत्पादादिसमुदितस्वभावादन्यत्किम् । उत्तरयति समुदायेति, समुदायसमुदायिनोः कथञ्चिद्भेदमवलम्ब्येयमुक्तिः । कथमुत्पादादेरेकैकस्य उत्पादविनाशादियुग्मस्य चासत्त्वमित्यपेक्षायामाह - इतरनिरपेक्षस्येति, व्ययध्रौव्यनिरपेक्षस्योस्पादस्योत्पादधौव्यनिरपेक्षस्य विनाशस्योत्पादविनाशनिरपेक्षस्य ध्रौव्यस्य ध्रौव्यनिरपेक्षस्योत्पादविनाशयुग्मस्य विनाशनिरपेक्षस्यो -

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150