Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[२४]
अपराचार्याभिप्रायेण प्रकारान्तरेण सूत्रव्याख्यानम् । [तत्त्वार्यत्रिसूत्री रेकेण द्रव्याभावान्न विद्मः किं तद् युज्यमानमुत्पादादिभिः । अपरे समाधानमाक्षेपस्याभिदधतेयुक्तं विशेष्यते उत्पादव्ययध्रौव्यैः, समुदितैर्यो योगस्तद् युक्तं सत्, नान्याभ्यामुत्पादव्ययाभ्यामित्यादिको योगः सदिति । योगश्च सामान्येनोत्पादादीनामनादिविशेषविवक्षया सादिः, ध्रौव्यं चेति पृथक् प्राधान्यख्यापनाय सामान्यस्य भाष्यकृतोदचारि, यतः सत्यन्वय्यंशे तदाश्रयावुत्पादविनाशौ सङ्गच्छेते, अन्यथा कस्योत्पादः ? कस्य चानुत्पन्नस्य तेनाकारेण व्ययः ? ॥ अपरे तु ध्रौव्यं चेत्यसमस्ततामन्यथा वर्णयन्ति
त्रैलक्षण्ये सतः सादिः कथं सन्न त्रिलक्षणम् ? । ध्रौव्यं तल्लक्षणत्वेन द्रव्यार्थेन त्रिषूदितम् ॥ १॥ अत एव पृथग् वृत्तौ धौव्यं चेति प्रदर्शितम् । सत् त्रिरूपं त्रयं त्वेतत् सम्भवेन विकल्प्यते ॥२॥ आद्ययोर्नियमादन्त्यमन्त्ये तु भजनाऽऽद्ययोः । स्वतः परनिमित्तौ तु स्यातामप्युपचारतः ॥ ३ ॥ अस्ति नोत्पद्यते चैकमेकमुत्पद्यतेऽस्ति च । नास्ति चोत्पद्यते चैकं नास्ति नोत्पद्यते परम् ॥ ४ ॥
आकाशपरमाणू च प्रदीपान्यशिखादि च । आकाशकुसुमं चेति चतुष्टयमुदाहृतम् ॥ ५ ॥ परिपोषायाह-उत्पादादित्रयव्यतिरेकेणेति । उक्ताक्षेपप्रतिक्षेपकं व्याख्यानान्तरमुपनिबध्नाति-अपर इति । युक्त सदिति लक्ष्यलक्षणभावेन विवक्षितम् , तत्र युक्तं योगस्तस्य लक्षणत्वं, सदित्यस्य लक्ष्यत्वम्। युक्तमिति सामान्येनाभिहितम् , उत्पादव्ययाभ्यां युक्तं व्ययध्रौव्याभ्यां युक्तमुत्पादध्रौव्याभ्यां युक्तमुत्पादव्ययध्रौव्यैर्युक्तमित्येवं बहुरूपम्, तत्र तुरीयकल्प एवादरणीयः । तत्त्व एव सत्त्वोपपत्तरित्यावेदयितुमाह-युक्तं विशेष्यत इति, उत्पादव्ययध्रौव्यैर्युक्तं न्यान्यत्किञ्चिदभिमतं किन्तु लैस्समुदितैर्यो योगोऽन्योन्याविष्वग्भावस्तदेव युक्तं सदिति व्यपदिश्यतेऽतोऽन्यविशेष्याकाङ्क्षणप्रयुक्ताक्षेपस्य नावकाशः । कीदृशो योगोऽत्र व्यावर्त्यतयाऽभिमत इत्यपेक्षायामाह-नान्येति । आदिपदादुत्पादध्रौव्याभ्यां व्ययध्रौव्याभ्यामित्यनयोरुपग्रहः । किमयं योगस्सादिरनादित्यपेक्षायामाह-योगश्चेति, अनादिरित्यनेनानन्तत्वस्य सादिरित्यनेन सान्तत्वस्य चार्थादागतेरनभिधानेऽपि न न्यूनत्वमिति बोध्यम् । नन्वेवमुत्पादव्ययध्रौव्ययुक्तं सतो लक्षणमित्येवं भाष्येण भवितव्यम् , दृश्यते तु उत्पादव्ययाभ्यां ध्रौव्येण च युक्तं सतो लक्षणमित्येवमन्यादृशं भाष्यं तस्य का गतिरित्याशङ्कायामाह-ध्रौव्यं चेति, एतस्प्रतीकखारस्यात् उत्पादव्ययौ ध्रौव्यं च युक्तं सतो लक्षणमिति पाठो भाष्ये भवितुमर्हति। तदाश्रयो ध्रौव्यलक्षणसामान्याश्रयौ, ध्रौव्यं चेति पृथग्ग्रहणप्रयोजनान्तरोपदर्शकमतान्तरमुपन्यस्यति-अपरे त्विति।लक्षण्य इत्याद्याः पञ्च श्लोकाः। तत्र प्रथमस्यसतः वस्तुनः, त्रैलक्षण्ये उत्पादव्ययध्रौव्यात्मकत्वे सिद्धे सति, सादिः सत् उत्पत्तिमद्वस्तु, कथं न त्रिलक्षणम्, उत्पत्तिमत्पदार्थस्य नियमेन विनाशित्वेन निरन्वयस्योत्पादविनाशयोरसम्भवेन यत्रोत्पादस्तत्र विनाशध्रौव्ययोरवश्यम्भावेन त्रिलक्षणं स्वादेवेत्यर्थः। त्रिषु उत्पादव्ययध्रौव्येषु मध्ये, ध्रौव्यं नित्यस्वम् , द्रव्यार्थेन द्रव्यार्थिकनयावष्टम्मेन, तल्लक्षणत्वेन सलक्षणस्वेन उदितम् , सूत्रे कथितम् , इत्यर्थः ॥१॥ ननु सूत्रे उत्पादादीनां त्रयाणां समासवाक्येनैवावबोधनात्कथमेतदित्यपेक्षायामाहअत एवेति, यत एव ध्रौव्यस्य सल्लक्षणत्वं तत एवेत्यर्थः । वृत्तौ भाष्ये । ध्रौव्यं चेति, इत्येवं खरूपेण पृथक् उत्पादव्ययाभ्यां पृथकृत्य प्रदर्शितं कथितम् । ननूत्पादव्ययौ इत्येवं रूपेण तयोरपि ध्रौव्यात् पृथक् कीर्तनं भाष्ये समस्त्येव ततस्तयोरेव कथं न सल्लक्षणत्वमित्यत आह-सन्त्रिरूपमिति, सन्त्रिरूपमित्येतद्यदभिमतम् , तत्र एतन्त्रयम् उत्पादव्ययध्रौव्यखरूपम् । सम्भवेन यथा यत्र यत्सम्भवस्तथा । विकल्प्यते विभज्यते, इति द्वितीयस्यार्थः ॥२॥ विभजनामेवोपदर्शयतिआधयोरिति, उत्पादव्यययोरित्यर्थः । अन्त्यं ध्रौव्यम् । नियमादिति, यत्रोत्पादव्ययौ तत्र नियमेन ध्रौव्यमित्यर्थः । अन्त्ये तु ध्रौव्ये पुनः । भजना स्याद्वा न स्याद्वेति विकल्पना । आद्ययोः उत्पादव्यययोः । ध्रौव्ये गगनादिवस्तुनि स्वतः परापेक्षाभावतः उत्पादव्ययौ न स्तः । परनिमित्तौ तु, अवगाहकपुद्गलादिपरापेक्षावगाहनादिफलापेक्षौ पुनः । स्यातामपि उत्पादव्ययौ सम्भक्तोऽपि । एवमप्युत्पादव्यययोर्वस्तुव्यापकत्वं समस्त्येवेति कथन्न सल्लक्षणत्वमित्यत आह-उपचारत इति । प्रधानवृत्त्याऽऽश्रयणेन धौव्यस्य वस्तुव्यापकत्वतो लक्षणत्वमिति प्रधानवृत्त्याश्रयणमेव न्याय्यमणुरपि विशेषोऽध्यवसायकर इति न्यायादिति तृतीयपद्यार्थः ॥ ३ ॥ भजनाखरूपोपदर्शनपरः अस्तीत्यादि तुरीयश्लोक उत्तानार्थः ॥ ४ ॥ भजनास्वरूपावगतिसौकर्याय निदर्शनचतुष्टयमाह-आकाशपरमाणूचेति।अस्तिनोत्पद्यते चैकमित्यत्र निदर्शनमाकाशः,

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150