Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[22]
कार्यकारणभावस्य काल्पनिकत्वनिराकारः ।
स्तः,
[ तत्वार्थत्रिसूत्री आहोस्विद् एकदेशेनेत्येषोऽपि विकल्पः सिद्धसाध्यतादिबहु दोषत्वादपास्तो वेदितव्यः, तस्मान्न व्यतिरिक्तो - ऽवयव्यस्ति निभाल्यमानः समस्ति च द्रव्यांशः स्थितिलक्षणोऽन्वयी, तदपेक्षावुत्पादविनाशौ अतः स्थित्युत्पादविनाशस्वभावमेव सर्वमर्थक्रियासमर्थ, न स्थितिनिरपेक्षावुत्पादविनाशाविति । यदप्युक्तम् - कल्पनामात्रं कारणं कार्यमिति प्रतीत्यप्रत्ययमात्रत्वात्, तदप्ययुक्तम्, करोतीति कारणं कार्यान्तरनिवर्तनसमर्थम्, क्रियायाः कारणान्तरापेक्षात्, कल्पना च बहिरङ्गार्थशून्यं विज्ञानमात्रं शब्दमात्रं वा न च तस्य घटादिकार्यान्तरनिष्पादने शक्तिरस्ति, न च विज्ञानमात्रमेव ग्राह्यग्राहक - लक्षणमर्थशून्यमस्तीति प्रतिपत्तुं शक्यम्, प्रमाणाभावात् न च भ्रान्तिमात्रं कार्यकारणव्यवस्था, भ्रान्तिबजाभावात् नापि शून्यता, प्रतिषेधप्रतिषेध्यादिसद्भावात् । व्यवहारतः सत्त्वमर्थानां न परमार्थत इति चेत्, प्रतिषेधोऽपि तर्हि व्यवहारमात्रत्वादसन्नित्यप्रतिहतसद्भावात् कथं न भावा भवेयुः ? न च रासभशृङ्गमसत् स्वतः परिकल्पितेन रूपेण मृत्खननादिकार्यार्थमाचेष्टमानमिष्टं दृष्टं वा ॥
दीर्घता च यदि स्वतोऽसती हखबुद्धेः कारणं भवत्येवं सति व्योमारविन्दकर्णिकाऽपि हेतु - रसत्त्वात् स्याद् ह्रस्वताबुद्धेः, यदि चासत्प्रतीत्याऽसदेवोत्पद्येत तथा सति शशविषाणं प्रतीत्य खरविषाणमपि स्यात्, अथास्त्येव वस्तुनो दीर्घता, न तर्हि प्रतीत्यप्रत्ययमात्रं सर्वम्, सतीमेव दीर्घतामाश्रित्य स्वताधियोऽभ्युपगमात् दीर्घहस्वबुद्ध्योश्चायौगपद्यादयुक्ता प्रतीत्यसमुत्पत्तिः, न चासतः कारणभावः, यदि च सर्वं प्रतीत्यैव सिद्ध्यति नाप्रतीत्य, ततः प्रतीत्यसिद्धिरपि प्रतीत्यसिद्धिप्रभवा
र्णनेनेति, अस्यापास्त इत्युत्तरेण योगः । उत्पादव्ययसम्बधितध्रौव्यं सर्वव्यापकतयोपसंहरन्नाह - तस्मादिति । न व्यतिरिक्तो न सर्वथाऽवयवेभ्यो भिन्नः, तेन कथचिद्भेदाभ्युपगमो न विरुध्यते । तदपेक्षौ द्रव्यांशानुगती । कार्यकारणभावस्य काल्पनिकत्वमेवेति मतमप्यपहस्तयितुमाह-- यदप्युक्तमिति । कारणान्तरापेक्षादिति भावप्रधानो निर्देशः । कल्पनामात्रमि - त्युक्त तत्र कल्पनां विकल्प्य तत्र कार्यान्तरनिर्वर्त्तनसमर्थत्वं कारणत्वन्नसम्भवतीत्यतो न कल्पनामात्रं कारणमित्याह - कल्पना वेति । तस्य विज्ञानमात्रस्य शब्दमात्रस्य वा । विज्ञानवाद्यभिमतं ग्राह्यं च ग्राहकं च ज्ञानमेव न तु बाह्योऽर्थो विद्यत इत्येत. प्रतिक्षिपति-नचेति, अस्य शक्यमित्यनेन योगः । कार्यकारणभावावगाहिज्ञानं भ्रान्तमेव ततो नार्थसिद्धिरित्येतदपाकरणायाह-न च भ्रान्तिमात्रमिति । माध्यमिकमतमुन्मूलयितुमाह - नापि शून्यतेति, -
"शून्ये मानमुपैति चेन्ननु तदा शून्यात्मता दुःस्थिता, नो चेत्तर्हि तथापि किं न सुतरां शुभ्यात्मता दुःस्थिता । वन्ध्या मे जननीत्यमुख्यसदृशीमप्याश्रयन् शून्यतां शङ्के दुश्शकसाहसैकरसिकः खामिन्नसौ सौगतः ॥ १ ॥” इति श्लोकार्थोऽप्येतत्पक्षप्रतिक्षेपायात्रानुसन्धेयः । संवृतिसत्त्वमेवार्थानां न तु पारमार्थिकसत्त्वं संवृतिसत्त्वादेव प्रतिषेध्यप्रतिषेधवादिप्रतिवादिसकलव्यवहारोपपत्तिरिति गूढाभिसन्धि शून्यवादिन आशय प्रतिक्षिपति-व्यवहारत इति, व्यावहारिक पारमार्थिक सत्त्वं तस्य यदि संवृतिसत्त्वं नामान्तरं परेण गीयते तत्र न नो विवादः, अन्यथा व्यवहारसतो वस्तुनो वस्तुतोऽसत्त्वे प्रतिषेधस्यापि परेण व्यवह्रियमाणस्यासत्त्वापत्त्या कथं शून्यता सिद्ध्येत् । तदभावे विरोध्यभावात्पूर्णतैव जगति पदमादधातीति गूढाभिसन्धिर्मन्थकार आह-प्रतिषेधोऽपीति । व्यावहारिकस्यासत्वे रासभशृङ्गादिवत्कार्यकारित्वमेव न स्यादस्ति च कार्य - कारित्वमतः सत्त्वमेवास्थेयमित्याह-न च रासभश्टङ्गमसदिति, कारणं कार्यमिति कल्पनामात्रमेतत् प्रतीत्यप्रत्ययमात्रवृत्तित्वात् दीर्घत्वहस्वतावदित्यत्र दीर्घत्वादिदृष्टान्तेऽपि नासत्त्वमस्माकं सम्मतमिति दृष्टान्तासिद्धिरुद्धर्तुमशक्येत्याह-दीर्घता चेति । ननु ह्रस्वत्वमप्यसदेव कार्यं ततश्च असतः कारणादसतः कार्यस्योत्पत्तौ न कश्चिद्दोष इत्यत आह-यदि चेति । यत्किञ्चिदसत्प्रतीत्यापेक्ष्य यत्किञ्चिदसदुत्पत्तौ नियामकाभावाच्छशविषाणादपि खरविषाणं स्यादित्याह तथा सतीति । हस्वत्वादीनां सत्त्वा - भ्युपगमे तु न परस्येष्टसिद्धिरित्याह- अथास्त्येवेति । क्षणक्षयवादिनः परस्य यदा दीर्घत्वबुद्धिर्न तदा ह्रस्वत्वबुद्धिरिति प्रतीत्यप्रत्ययत्वं तयोरुपगन्तुमशक्यमित्याह - दीर्घहखबुद्ध्योरिति, अवध्यवधिमतोरेककालीनतायामेव तथा व्यवहारादित्यभिसन्धिः । सर्वस्य प्रतीत्यप्रत्ययमात्रत्वेऽनवस्थाऽप्यभ्युपगमविरोधिनी प्रसज्येतेत्याह-यदि चेति । कार्यकारणभावस्य पारमार्थि

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150