Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[२०]
एकान्तवादजन्मनां दोषाणां स्याद्वादेऽनवकाशः। [तत्त्वात्रिसूत्री वा तत्कार्यमुत नैव तत्कार्यमथ कार्यमेवास्ति न कारणं, कारणमेव वा विद्यते न कार्यमिति; एष च सामूहिकः समस्तोऽपि रत्नावलीपटस्तम्भकुम्भसेनावनयूथादिरर्थः खसमये पारिणामिक एव, भिन्नाभिन्नदेशानां परिणामिनां परिणामाभ्युपगमात् , तथापि भेदेनोपन्यासो लोकव्यवहारानुवृत्त्या, पूर्वधर्मोपमर्दैनोत्तरधर्मोत्पादः परिणामो लोके क्षीरदध्यादिवत् समूहिषु पारिणामिषु चानैकान्तव्याप्तिप्रपञ्चप्रदर्शनार्थः । तथाहि-आलोकविशिष्टरूपग्रहणमपि नात्यन्तभेदप्रतिपत्तये, विशेषणविशेष्यभावश्चैकान्तभेदविषयो न कश्चित् प्रसिद्धः, दण्ड्यादावपि सामान्यविशेषभावे सति विशेषणविशेष्यभावात्। यच्चोक्तमवधारणं-रूपादिग्रहे सत्येव भावात् , तदप्युभयस्वभाववस्त्वभ्युपगमे न कञ्चनापक्षालमावहति । यदप्यारेको “प्रमाणानुभवमन्तरेण स्मृतिरनुपपन्ना" इति पश्चात् परिजिहीर्षताऽभ्यधायि"विकल्पितेऽपि ह्यर्थ स्मृतिर्दृष्टा" इति, तदप्यसत्, अर्थाभिधानप्रत्ययानां वस्तुत्वाभ्युपगमादत्यन्ताभावस्य च निरुपाख्यस्य प्रतिषिद्धत्वात्, सर्वप्रकारमसतः संव्यवहारायोग्यत्वात् , बभूवुरनादौ संसारे बन्धुमत्यादयः प्राणिविशेषास्तदभिधानानि तदालम्बनाश्च प्रत्ययाः, ततश्च प्रमाणानुभवपूर्विकैव स्मृतिः सर्वत्र, नान्यथा, समुदायस्य च प्रतिपादितवस्तुत्वान्न निर्मूलविकल्पत्वम्, बुद्धिभेदाच्चान्यत्वकिं तदिति, ग्रन्थकार उत्तरयति-एवमिति, अनन्तरं यन्मयोच्यते तत्तदवधार्यमित्यर्थः, तत् समुदायावयव्यादिकम् । समहिनः परिणामिनो वा तत्कार्यमित्येको विकल्पः, नैव तत्कार्यमिति द्वितीयो विकल्पः, अत्रापि समूहिनः परिणामिनो वेत्यनुवर्तते, अथ कार्यमेवास्ति न कारणमिति तृतीयो विकल्पः, यद्यपि कार्यस्य कारणाधीनात्मलाभत्वातत्स्वीकारे कारणस्वीकार आवश्यकः, तथापि कार्यपदमत्र कार्यत्वेनाभिमतपरं बोध्यम् , एवं कारणपदमपि, कारणमेव विद्यते न कार्यमिति तुरीयो विकल्पः। समूहिनः परिणामिनो वेति भेदेनोपन्यासस्य प्रयोजनमाविर्भावयति-एष चेति, चकारो यद्यपीत्यर्थपरो ज्ञेयः। सामूहिकः, समूहप्रभवः । स्वसमये जैनराद्धान्ते । भिन्नाभिन्नदेशानामिति, रत्नावलीसेनावनादौ परिणामपरिणामिनोभिन्नदेशता पटस्तम्भकुम्भादावभिन्नदेशताऽवसेया । लोकव्यवहारानुवृत्त्येति, लोके हि क्षीरादीनां दध्यादिरूपेण भवनस्थल एवं परिणामव्यवहारो यत्र पूर्वधर्मस्योपमर्दः, मालादिरूपेण रत्नादीनां निष्पत्तौ तु समूहव्यवहार एव, तत्र पूर्वधर्मोपमर्दाभावादिति लोकव्यवहारमनुसरद्भिरस्माभिस्समूहिनः परिणामिनो वेत्युक्तमिति । एतदेव प्रपञ्चयति-पूर्वेति । एकैकरत्नादौ यत्नान्तरासंयुक्तरत्नस्वरूपो धर्मस्तस्य रत्नावल्यादिरूपेण समूहावस्थायामुपमर्दनम्भवत्येवेति स्याद्वादे तदपि परिणामलक्षणं तत्रापि सुसङ्गतमिति गूढाभिसन्धिद्योतनायोक्तम्-अनेकान्तब्याप्तिप्रपञ्चप्रदर्शनार्थ इति । अनेकान्तव्याप्तिं सङ्गमयति-तथाहीत्यादिना। यदग्रहे यन्न गृह्यते तयोरभेद इत्यत्रालोकाग्रहे रूपग्रहो न भवति, अथ चालोकरूपयोर्भेद एवेति व्यभिचारस्यालोके सति रूपग्रहणम्भवतीत्यालोक एव रूपग्रहणनिमित्तन्नत्वालोकग्रहणं तयोस्तुल्यकालत्वादित्येवमुद्धार आलोकरूपयोर्भेदमवलम्ब्य पूर्वमुपदर्शितस्तत्रेदानी कथञ्चिदभेद एव तयोरपीति उक्तनियमे कथश्चिदभेदस्य व्यापकतयाऽभिमतत्वे व्यभिचारवार्तापि नास्तीत्यभिप्रायेणाह-आलोकविशिष्टरूपग्रहणमपीति, अत्र ययोविशेषणविशेष्यभावस्तयोः कथञ्चिदभेद इति व्याप्तिरभिमता । तत्र दण्डी पुरुष इत्यत्र दण्डपुरुषयोर्विशेषणविशेष्यभावोऽस्ति . न च कथञ्चिदभेद इत्याशङ्का स्यात्तदपाकरणायाह-दण्ड्यादावपीति, दण्डी पुरुषोऽपि भवति दण्डवान्तदन्यदेशोऽपीति दण्डित्वस्य दण्डखरूपपर्यवसितस्यानुगामित्वेन सामान्यता दण्डित्वेन परिणतस्तु पुरुषो न दण्डशून्यकालेऽनुवर्तत इति तस्य विशेषतेति सामान्यविशेषभावेन तयोरभेदोऽवधार्यः । अथवा दण्डत्वपुरुषत्वाभ्यां भेदः, स च विशेषरूपतामाश्रित्य, संयुक्तत्वेन - रूपेण चाभेदः, स च सामान्यमाश्रित्य । यच्चोक्तं प्राक् पर्यायवादिना “रूपाद्यग्रहे तबुद्ध्यभावादित्यनेन तदभावाभावमुखेन रूपा- . दिग्रहे सत्येव भावादित्याख्यायते” इति तस्यापि कथञ्चिदभेदसाधकत्वाभिप्राये निर्दुष्टत्वमेवेत्याह-यच्चोक्तमवधारणमिति । अपक्षालं दोषम् । यदप्युक्तं पर्यायवादिना "पुनराशङ्कते-प्रत्यक्षानुमानाभ्यामननुभूते समुदाये कथं स्मृतिरुत्पद्यत इति, न, अनेकान्तात्, विकल्पितेऽपि ह्यर्थे स्मृतिर्दृष्टा बन्धुमत्याख्यायिकादाविति" तदधिकरोति-यदपीति, असख्यातिर्न सम्भवती-- त्यावेदनायाह-सर्वप्रकारमसतः संव्यवहारायोगादिति, प्रतिपादितेति । स च तादृशः परमार्थतोऽस्त्येव समुदाय इत्यादिग्रन्थेन प्रतिपादितेत्यर्थः । बुद्धिभेदाढ़ेद एकान्ततो भेदस्तदा स्याद्यदि सर्वप्रकारेण बुद्धिभेदस्स्यात्, न चैवम् , य.

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150