Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 59
________________ [१८] एकान्ततोऽतिरिक्तस्यानतिरिक्तस्व चावयविनो निरासः। [तत्त्वार्थत्रिसूत्री केचिद्, अपरे तु व्यावृत्त्याकारबुद्ध्याऽध्यवसातव्या इति। न चावश्यं सतो भवितव्यमाधारण, परिकलय तावत् तस्यैव त्वत्परिकल्पितद्रव्यांशस्य क आधारः ? को वा व्योमादेरित्यलं प्रसङ्गेन । व्यवस्थितमिदमुभयस्वभावं सकलम् । तस्मान्न केवलस्य क्वचिदस्ति मृद्रव्यस्य ग्रहणम् । उपपद्यते चायमभेदप्रत्ययः, न च भ्रान्तः, सामान्यांशालम्बनत्वाद्, अतः सर्व साधु स्याद्वादप्रक्रियायाम् । एतेन रूपादिसमुदयविषयं स्मार्तमभेदज्ञानमिति प्रत्युक्तम् , उभयस्वभावत्वाद् वस्तु सत् ; सामान्यांशालम्बनभेदज्ञानम् , न पुनः सामान्यशून्यरूपादिभेदसमुदयमात्रालम्बनम् , समुदायस्य तत्त्वान्यत्वाभ्यामनिर्वचनीयत्वेनानिर्धार्यमाणस्वभावस्यापारमार्थिकत्वात् । यदप्युक्तं-"तेष्वेव हि तन्त्वादिषु तथासन्निविष्टेषु पट इत्यादिबुद्धिः प्रवर्तते, यथा भक्तसिक्थोदकेषु तथासन्निविष्टेषु काञ्जिकबुद्धिः" इति; कथं पुना सन्निविष्टेष्विति निरूप्यम् ?, ननु च पटाद्याकारेणेति किमत्र निरूप्यते ?, क पुनरसावन्यन्त्र पटा प्रसिद्धः? यस्याकारेण तन्तवः सन्निविशन्ते, यथा पार्थाकारोऽभिमन्युरिति । कश्चायं सन्निवेशः ? यदि संस्थानमेव वृत्त-व्यस्र-चतुरस्रा-यत-परिमण्डलभेदमिष्यते युग्मा-युग्म-प्रतर-घनविकल्पकम् , एवं सति प्रागस्माभिः प्रत्यपादि प्रपञ्चतः सङ्घातभेदेभ्य उत्पद्यन्ते स्कन्धास्तद्भावलक्षणपरिणामवशात् , स च तादृशः परमार्थतोऽस्त्येव समुदायः, अथान्यः कोऽपि समुदायः, स निरूपणीयः, काञ्जिकाद्यपि सामान्यस्वभावाः, अपरे विशेषस्वभावा आकाराः । ननु यत् सत् तत्साधारमिति व्याप्तेः सतोस्सामान्यविशेषयोस्साधारत्वमवश्यमभ्युपगन्तव्यम् , आधाराधेयभावश्च भेदनियत इति सामान्यविशेषाधारस्तव्यतिरिक्तो द्रव्यांशोऽवश्यमभ्युपगन्तव्य इत्यत आह-न चेति, उक्तव्याप्तिरेवासिद्धा । अन्यथा तबलाव्यस्यापि सत आधारः परिकल्प्यः स्यात्तस्यापि च सत्त्वादाधारान्तरमेवन्तस्यापीत्यनवस्था स्यादित्याशयेनाह-परिकलयेति। न च गगनमेव सर्वद्रव्याधारभूतम् , स्वस्मिन् खवृत्तिविरोधेन तस्यैवानाश्रितस्याभ्युपगमनीयत्वादित्याह-को वेति । निगमयति-व्यवस्थितेति, तस्मादुभयखभावत्वात् । न च द्रव्यप्रत्ययस्य भ्रान्तत्वादेव न विशेषसम्भिन्नसाधकत्वमत आह-नच भ्रान्त इति, अभेदप्रत्यय इति सम्बध्यते, निरालम्बनत्वमेव सामान्यापलापिबौद्धमते भ्रान्तत्वम् , पूर्वोत्तरपर्यायानुगतमृद्रव्यावगाही चामेदप्रत्ययः, तस्य मृद्रव्यरूपसामान्यांशावलम्बनात्वादेव न भ्रान्तत्वमित्याह-सामान्यांशेति । वस्तूनां सामान्यविशेषस्वभावत्वव्यवस्थापनेन एकान्तपर्यायवादिमतमप्युन्मूलितमेवेत्याह-पतेनेति । एतेनेत्यतिदिष्टमेव हेतुं सङ्गमयति-उभयस्वभावत्वादिति, सामान्यांशालम्बनभेदज्ञानमिति, सामान्यविषयकं सद्विशेषविषयकं भेदज्ञानम् , न तु सामान्यांशं परित्यज्य विशेषमात्रविषयकं तत् , सामान्यविनिमुक्तस्य विशेषस्याभावादित्यर्थः । स एवायं घटो यमहमद्राक्षमहनि रात्रौ वा यं चास्प्राक्षमित्यभेदज्ञानस्य रूपादिभेदसमुदायमात्रावलम्बनत्वासम्भवमुपदर्शयति-न पुनरिति। समुदायस्य समुदायिभ्यो भिन्नत्वमभिन्नत्वं वा?, आये समुदायिभानमन्तरेणापि तत्समुदायावभासप्रसङ्गः, यद्धि यतो भिन्नं तत्तद्भानमन्तराऽपि भासते, यथा स्पर्शो रूपादिभानमन्तरेणापि स्पार्शनज्ञाने, न चानुभूयते रूपस्पर्शादिसमुदायिनमन्तरेण तत्समुदायः, तस्मान्न प्रथमः पक्षः, नापि द्वितीयः, तथा सति एकैकस्य समुदायिनो भानेऽपि तद्भानप्रसङ्गः । अतो द्रव्यरूपतामन्तरेण तस्यापारमार्थिकत्वमेवेत्याह-समुदायस्येति, तत्त्वं समुदायिभ्योऽभिन्नत्वम् । सन्निवेशविशेषभावानानावयवानामेवावयित्वं न त्ववयवी अवयवानुगतोऽतिरिक्त इत्यप्येकान्तवादो न क्षोदक्षम इत्याह-यदप्युक्तमिति । अवयवानतिरेकवादिनं पृच्छति-कथमिति, केन प्रकारेणेत्यर्थः। अवयवानतिरेकवादी उत्तरयतिननु चेति । क्वचित्प्रसिद्धेनैवाकारेण केनचित्केषांचित्परिकल्पना भवति, पटाद्याकारस्तु न तन्तून्विरहय्य क्वापि प्रसिद्ध इति न पटाद्याकारेण सन्निविष्टेष्विति वक्तुं शक्यते, दृष्टान्तेऽपि न सर्वथाऽभेदः कथञ्चित्तस्यैव कालिकादेस्तथाबुद्धिविषयत्वादेवं सेनावनादेरपीत्याशयमुद्घाटयति सिद्धान्तवादी-क पुनरसावन्यत्रेति। प्रसिद्धस्यैवान्यत्र सन्निवेश इत्यत्र दृष्टान्तमाह-यथेति, पार्थः, अर्जुनः, अभिमन्युः, अर्जुनस्य पुत्रः, सन्निवेशोत्याऽप्यवयव्येव कथञ्चिद्व्यतिरिक्तः खीकृतः परेण, अन्यथा तनिर्वचनमशक्यमित्याशयवान् सिद्धान्ती परं पृच्छति-कश्चायं सन्निवेश इति । सन्निवेशस्य संस्थानखरूपत्वं यदि परो ब्रूयात्तदा सिद्धं नस्समीहितमित्याशयेनाह-यदीति,एवं सति, सन्निवेशस्य संस्थानविशेषरूपत्वाभ्युपगमे सति संस्थानविशेषव्यतिरिक्तरूपत्वेन सनिवेशो न निरूपयितुं शक्यस्तस्य प्रकारान्तरस्य स्याद्वादविनिर्मुक्तस्य दर्शयितुमशक्यत्वादित्याशयेनाह-अथेति । स इति,

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150