Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[२८] उत्पादभेदाः, अन्वयांशनिरपेक्षोत्पादस्यासंभवश्च । [तत्त्वार्थत्रिसूत्री पुद्रलसमुदायरूपाः, समूहश्च समूहिमात्रम् , अतस्तत्रापि न कस्यचिदुत्पादः, कायादेः परमार्थतोऽसत्त्वात् ; अभिसन्धिपूर्वकस्तूत्पादः कायादियोगात् समप्रवास्यादिकरणापेक्षात् स्तम्भकुम्भादीनां प्रेक्षापूर्वकारिपुरुषक्रियाजन्यत्वात् प्रयोगजः, सोऽप्येवमेव समुदायविषयः, समुदायश्चासत्त्वादेव नोत्पद्यत इत्युत्पादाभाव एव, अन्वयांशनिरपेक्षत्वान्न प्रायोगिक उत्पादः सम्भवतीत्यर्थः । वैनसिकोऽपि नास्त्युत्पादः, विनसेति स्वभाववचनसंज्ञाशब्दः, स्वाभाविको वैस्रसिकः, तत्र धर्माधर्मव्योमात्मपुद्गलद्रव्याणामिमा वृत्तयो यथाक्रमं स्थितिगत्यवगाहोपयोगस्पर्शशब्दादिलक्षणाः स्वसद्भावाः, नहि तेषां धर्मादीनां गत्यादयो धर्माः पर्याया वा भवन्ति, यदि भवेयुस्ततस्तेषामेतद्विलक्षणमन्यदेव रूपं स्याद् गत्याद्युत्पादसद्भावे, न चान्यद् रूपं लक्ष्यते भुजगप्रसारणाकुण्डलिकतोत्फणविफणादिवत् , फणिनो हि स्वभावभूताकृतकसंस्थानान्तराभिव्यक्तिमात्रत्वात् प्राच्यफणिरूपानन्यत्वात् तद्र्व्यावस्थानात् कुत उत्पादः ? किं हि तत्रोत्पन्नं विद्यमानं वा नाभिव्यक्तमित्यत उत्पादाभाव एव, इत्येवं धर्मादीनामपि गत्यादीनामुत्पादाभावः स्वरूपावस्थानान्तरमात्रत्वाजलतरङ्गतुहिनपटलादिवत्, कुतः स्वाभाविक उत्पादः ? । न चोत्पादस्यान्यः प्रकारो विद्यत इति, तस्मान्नैवास्त्युत्पादः। एवं द्रव्यपर्यायनयद्वयापेक्षमस्तित्वमुत्पादस्य नास्तित्वं च भावितमात्मपुद्गलद्रव्यविषयम् ॥ अथाकाशधर्माधर्मेष्वविक्रियात्मकेषूत्पादस्याभावात् कुतस्तत्रोत्पादानेकान्त इति ? । उच्यते-तेष्वपि स्वाभाविक उत्पादः समुदायजनित एकत्विकश्च मुदायरूपेषु कायादिध्वपि, तत्किमुत्पादस्य सर्वथाभाव एव, न, अन्वयांशनिरपेक्षस्यैकान्तपर्यायनयकल्पितस्योत्पादस्याभावोऽ. भिप्रेत इत्यावेदनायोक्तम्-अन्वयांशनिरपेक्षत्वादिति । प्रायोगिकस्योत्पादस्याभावमुपदर्य वैस्रसिकस्य तस्यासम्भवमुपदर्शयति-वैनसिकोऽपीति । विस्रसाशब्दस्य पारिभाषिकस्यार्थाज्ञाने तनिष्पन्नस्य वैस्रसिकस्याप्यर्थज्ञानं न सम्भवतीत्यत आह-विनसेतीति । स्वभाववचनसंज्ञाशब्दः खभावस्य वचनं प्रतिपादनं यस्मात्स खभाववचनः खभाववाचीत्यर्थः, संज्ञाशब्दः स्वभावरूपार्थे सङ्केतितो विस्रसाशब्दः । एवं च सति वैनसिक इत्यस्य खाभाविक इत्यर्थ इत्याह-स्वाभाविको वैनसिक इति । स्वाभाविको हि खस्मादभिन्न एव भवति, धर्मपर्यायौ च धर्मिखरूपाद्भिन्नाविति गत्यादीनां धर्मरूपत्वे पर्यायरूपत्वे वा तदुत्पादान्न धर्मादीनामुत्पादो वैश्रसिको व्यवतिष्ठेत, गत्यादीनाञ्चोत्पादाभ्युपगमे तदुत्पत्तेः पूर्व धर्मादीनां न तत्स्वभावतेत्यन्याश एव धर्मादीनां स्वभावो वाच्यः, न च सोऽभ्युपगमा) गत्यादिखभावात्मनेव तेषामभ्युपगमादित्येव प्रपञ्चयति-तत्रेत्यादिना । स्पर्शशब्दादीत्यत्रादिपदाद्गन्धरूपरसानामुपग्रहः, स्पर्शादयः पश्चापि पुद्गलस्य स्वभावलक्षणम् । खसद्भावाः खभावाः । गत्यादीनां धर्मास्तिकायादिखभावत्वमेव तद्धर्मरूपत्वं तत्पर्यायरूपत्वं वा कथन्नेत्यपेक्षायामाहनहीति, अस्य भवन्तीत्यनेन सम्बन्धः । यदि भवेयुरिति, यदि धर्मादीनां गत्यादयो धर्माः पर्याया वा भवेयुरित्यर्थः । ततः, तदा । तेषां धर्मादीनाम् । एतद्विलक्षणं गत्यादिविलक्षणम्। अन्यदेव गत्यादिभ्यो भिन्नमेव । अस्तु गल्याद्युत्पादकाले तत्पूर्वकालावस्थितगत्यादिविलक्षणस्वभावो धर्मादीनां किन्नश्छिन्नमित्यत आह-न चान्यद्पमिति । लक्ष्यते प्रमाणेन विषयीक्रियते । उक्कमर्थं दृष्टान्तेन भावयति-भुजगेति । एतदेवोपपादयति-फणिनो हीति । दृष्टान्ते उपपादितमुत्पादाभावं दार्यन्तिके समर्थयति-इत्येवमित्यादिना। ननु मास्तु प्रयोगजो वैससिको वोत्पादः, आभ्यामन्य एवोत्पाद उपपाद. ना) भविष्यतीत्यत आह-न चोत्पादस्यान्य इति । एकनयापेक्षयोत्पादस्य न सम्भवो नयद्वयापेक्षया तु तस्य सम्भव इति स्यादस्ति उत्पादः स्यान्नास्ति चोत्पाद इत्येवमुत्पादानेकान्त एवावतिष्ठत इत्याह-एवमिति । अयश्चोत्पादानेकान्त आत्मपुद्गलद्रव्ययोरेव, तयोः प्रयोगजस्य वैस्रसिकस्य चोत्पादस्य सम्भवो विद्यते, यतोऽन्यरूपेण स्थितस्य तदन्यरूपेण परिणमनलक्षणात्मलाभोऽस्तीत्याह-आत्मपदलद्रव्यविषयमिति । धर्माधर्माकाशानां सर्वदाऽविचलितखरूपावस्थितानामन्यरूपेण पूर्वमवस्थितस्य तदन्यरूपेण परिणमनमेव नास्तीति तेषूत्पाद एवाप्रसिद्ध इति कस्यानेकान्तत्वं स्याद्वादेन व्यवस्थाप्यते इत्याशङ्कतेअथेति । धर्मादिषु प्रयोगजस्योत्पादस्यासम्भवेऽपि वैससिकस्योत्पादस्यास्त्येव सम्भवः, तत्र च स्याद्वादो लब्धावकाश एवेत्युतरयवि-उच्यते इति । तेष्वपि आकाशधर्माधर्मास्तिकायेष्वपि ।भजनयेति, कथञ्चिद्भावेनेत्यर्थः । एतदेवोपपादयन्नाह

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150