Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
भाष्यटीकाविवृतियुता] अन्वयिनो द्रव्यस्य रूपादिसमुदायमात्रतानिराकरणम्। [१९] परिणामान्तरापत्त्यैव सिद्धमार्हतानाम् , न भक्तसिक्थादिमात्रतया । यच्चोक्तम्-"रूपाद्यग्रहे घटादिबुद्धेरभावात्" इति, एतदपि जैनान् प्रति न किञ्चित् , उभयस्वभावत्वाद् वस्तुनो विभागाभावात् , रूपादिस्वरूपोल्लेखेनैव सामान्यांशः प्रतीयते, वह्निरूपस्पर्शपरिणतायोगोलकवत् , तथा वनविपक्क्या . दयोऽपि सन्निवेशविशेषाः पुद्गलानां सामान्यविशेषस्वभावाः समासादितक्रमपरिणतयः तत्त्वतोऽभ्युपेयन्ते, नोपादाय प्रज्ञप्तिमात्रम् , यदि च संस्थानमर्थान्तरं रूपादिभ्यस्तदपि परमार्थसत्, ततो रूपादिवदन्यानपेक्षमेव गृह्येत, अथ रूपस्पर्शमात्रम् , एवं तर्हि तदनेकं रूपस्पर्शवत् प्रसक्तम् , एवं चानिष्टप्राप्तेरसमञ्जसता, यदि रूपसन्निवेशविशेषो वृत्तं स्पर्शनेन न गृह्येताविषयत्वाद् रूपवत्, न वा स्पर्शविशेषश्चक्षुषा गृह्येतोक्तन्यायात् , भेदे च द्वे वृत्ते गृह्येयातामन्यत्वाद् रूपस्पर्शवत्, एवं तन्त्वादिषु तथास्थितेष्वित्यादि विचार्यमाणं विशीर्यते, तस्मादस्ति द्रव्यं तद्भावाव्ययलक्षणं स्थित्यात्मकमन्वयिरूपत्वात् , स्वभेदानां प्राक् तदा आयत्यां च मृदन्वयाविच्छेदादेकम् , न पुना रूपादिसमुदायमात्रम् , अतः सर्वैकान्तध्वंसविधायिनि स्याद्वादे दूरमपास्तमसद्विकल्पचतुष्टयम् , किं तत् ?, एवं-समूहिनः परिणामिनो अन्यप्रकारः, निरूपणीय इति, यदि स प्रकारः स्यात्तदा भवद्भिरुपदर्शयितुमपि शक्येत, न चोपदर्शयन्ति भवन्तस्तमिति स नास्त्येवेति गूढाभिसन्धिः। काञिकादिरपि भक्तादिभ्यः कथञ्चिद्वयतिरिक्त एवेति दृष्टान्तोऽपि भवदुक्तोऽस्मदनुकूल एवेत्याहकालिकाद्यपीति । अन्यदपि पर्यायवाद्युक्तमनेकान्तवादिनम्प्रति नाभीष्ट प्रसाधकमित्याह-यच्चोक्तमिति । उभयस्वभावत्वात्, द्रव्यपर्यायोभयात्मकत्वात् । विभागाभावात् , रूपादिः पर्यायः, तदाश्रयो द्रव्यं घट इत्येवं विभागाभावात् । एकमेव वस्त्वखण्डात्मकमवच्छेदकभेदेन पर्यायात्मना द्रव्यात्मना च व्यवह्रियते, न तु तस्यैको भागो द्रव्यमपरो भागः पर्याय इति विभागेनोभयात्मकम् , किन्तु द्रव्यांशस्यापि पर्यायमिश्रितत्वं पर्यायांशस्यापि द्रव्यमिश्रितत्वम् । अत एव सम्पूर्णेनैव वस्तुनाऽपेक्षाभेदेन द्रव्यव्यवहारबुद्धी पर्यायबुद्धिव्यवहारौ च भवतः, अन्यथा प्रत्येकपक्षदोषापत्तः, एतदभिसन्धानेनेव “भागे सिंहो नरो भागे योऽशो भागद्वयात्मकः । तमभागं विभागेन नरसिंहं प्रचक्षते" इत्युक्तिरुपपद्यते । विभागाभावे सति यदभिलषितं तदाहरूपादीति, सामान्यांशः खपर्यायानुगतत्वाव्यात्मा घटः, स रूपस्पर्शादिविशेषाजहद्वृत्तिरेवेति रूपादिखरूपोल्लेखेनैव प्रतीयत इत्यर्थः । एतदेव दृष्टान्तेन भावयति-वह्निरूपेति, अतितप्तायोगोलकं तत्क्षणे सर्वतोभावेन वह्निव्याप्तशरीरत्वाद्वह्निगतरूपस्पर्शसमन्वितमेवावभासते, तत्क्षणे तस्य तन्मयीभवनमेव विभाव्यते, तद्वद्धटादेरपि परितः पर्यायसम्भिन्नत्वात्त भासनम् , नैतावता तत्समुदायात्मैव घटः, तथा सति अयोगोलकस्याप्यतितप्ततादशायां वह्निरूपस्पर्शमात्रखरूपता प्रसज्येतेति । उक्तन्यायमन्यत्राप्यतिदिशति-तथेति। तत्त्वतः परमार्थतः । नोपादाय प्रज्ञप्तिमात्रमिति, प्रज्ञप्तिमात्रं बिकल्पमात्रम् , उपादाय अभ्युपगम्य, न नैव अभ्युपगम्यन्ते, वनविपक्यादयो वृक्षादिपुष्पादिभ्यो व्यतिरिक्ता न सन्त्येष, केवलं विकल्पबुद्धिप्रभाविता एव वनविपंक्त्यादिव्यवहारा इत्येवं नाभ्युपगम्यतेऽस्माभिः, किन्तु सामान्यविशेषस्वभावा बस्तुभूता एवाभ्युपगम्यन्त इत्याशयः । नोपादेयप्रज्ञप्तिमात्रमिति पाठे तु उपादेयोऽवयवेभ्यो व्यतिरिक्तोऽवयवी अर्थात् प्रत्येकवृक्षादिविभिन्नो वनादिस्तत्प्रज्ञप्तिमात्रन्तद्विकल्पमात्रन्नाभ्युपगम्यते, किन्तु समुदायिभ्यो भिन्नाभिन्नस्यैव समुदायिनो वनादेओनमभ्युपगम्यत इति । एकान्तव्यतिरेके एकान्ताव्यतिरेके च क्रमेण दोषमुद्भावयति-यदि चेति, संस्थानमिति, समुदायावयविद्रव्यादेरुपलक्षणम् । अर्थान्तरं सर्वथा व्यतिरिक्तम् । तदपि संस्थानमपि । ततः तदा, रूपस्पर्शमात्रम् , एकान्तेन रूपस्पर्शादिभ्यो. ऽव्यतिरिक्त संस्थानम् । तत् संस्थानम् । अनिष्टप्राप्तेरित्युक्तं तदेव स्पष्टयति-यदीति, वृत्तमिति, व्यस्रचतुरस्रायतपरिमण्डलादेरुपलक्षणम्, तदेति शेषः। अविषयत्वात्, रूपाभिन्नस्य वृत्तादेस्त्वगिन्द्रियागोचरत्वात् । उक्तन्यायात्, स्पर्शवत् स्पर्शाभिन्नस्य वृत्तादेश्चक्षुरिन्द्रियागोचरत्वात् , रूपाभिन्नस्य वृत्तस्य स्पर्शाभिन्नवृत्तभिन्नत्वम् , स्पर्शाभिन्नस्य वृत्तस्य रूपाभिन्नवृत्तभिन्नत्वञ्च प्रसक्तम् । तथा सति यदनिष्टं तदाह-मेदे चेति । अवयवावयविनोरपि सर्वथाऽभेद उक्तन्यायेन सम्भवतीत्यतिदिशति-एवमिति । द्रव्यसिद्धिमुपसंहरति-तस्मादस्ति द्रव्यमिति । अन्वयिरूपत्वादिति यदुक्तम् तदेव सङ्गमयति-खमेदानामिति, मृद्रव्यपर्यायाणां स्थासकोसकुशलघटादिनामित्यर्थः । प्राक् तदाऽऽयत्याश्चेति, प्राक्पदेनातीतकालस्य तदेत्यनेन वत्तमानकालस्यायत्यामित्यन्तेन भविष्यत्कालस्य परिग्रहादुक्तकालत्रयवत्तित्वेन मृदोऽन्वयित्वं नित्यत्वमेकत्वञ्च स्पष्टमेव प्रतीयते। असद्विकल्पचतुष्टयमिति, सामान्येनोक्तम् । तद्विशेषप्रतिपत्तये परः पृच्छति

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150