Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
प्रमाणोपदर्शनं तत्र द्रव्यपर्यायावभासचर्चा च। [तस्वार्थत्रिसूत्री वस्तुनि कदाचिदभेदप्रत्ययः स्ववासनावेशात् केवलमन्वयिनमंशमुपगृहमानः प्रवर्तते, कदाचिद् भेदमात्रवादिनो भेदावलम्बनः प्रत्ययः प्रादुरस्ति, स्याद्वादिनस्तु जिज्ञासितविवक्षितार्थायत्तज्ञानाभिधानस्य द्रव्यपर्याययोः प्रधानोपसर्जनभावापेक्षया समस्तवस्तुविषयव्यवहारप्रवृत्तिर्वस्तुतत्वमनेकाकारमेव ॥ यथाऽऽह
"सर्वमात्रासमूहस्य, विश्वस्यानेकधर्मणः । सर्वथा सर्वदाभावात् , कचित् किश्चिद् विवक्ष्यते ॥" इति । भवतु नाम विवक्षावशाद् वचनव्यवहारः, चक्षुरादिज्ञानं पुनः प्रवर्तमानं न सहते कालान्तरम् , प्रथमसम्पात एव स्वविषयग्रहणात् , तद् यदि भेदाभेदस्वभावं वस्तु किमिति प्रथमत एव तदुल्लेखमिन्द्रियज्ञानं नोत्पद्यते, अतो मनोविज्ञानविकल्पमात्रं द्रव्यपर्यायाविति ? । अत्रोच्यतेचक्षुरादिविज्ञानान्यवग्रहादिक्रमेणोत्पद्यन्ते, अर्थावग्रहश्चैकसामायिकः प्राक्, ततो मुहूर्ताभ्यन्तरवर्तीहाज्ञानं, ततोऽपायज्ञानमनन्तरं प्रमाणमिन्द्रियमेव व्यापारयतो निश्चिताकारमुपजायते, तद्भावे भावात् सदभावे चाभावात् , निश्चयश्चक्षुरादिविषयोऽप्यस्ति मनोविषयश्चाष्टाविंशतिविधत्वान्मतेर्बह्वादिभेदेन वा बहुतरविकल्पत्वाद्, अस्त्येवेदं निश्चिताकारमिन्द्रियस्य ग्रहणं द्रव्यपर्यायाविति, मानसमपि यदि रस्तीत्यतः पूर्व केवलं व्यावृत्तस्वरूपमंशमुपगृहमान इति दृश्यम् , उभयत्रान्यांशे गजनिमीलिकामवलम्बमान इत्यपि दृश्यम् , खवासनावेशादिति चोत्तरत्रापि हेतुः । नयवक्तव्यतामुपदर्य प्रमाणवक्तव्यतामाह-स्याद्वादिनस्त्विति, द्रव्यपर्याययोः प्रधानोपसर्जनभावापेक्षया समस्तवस्तुविषयव्यवहारप्रवृत्तिः जिज्ञासितविवक्षितार्थायत्तज्ञानाभिधानस्य स्याद्वादिन इत्यन्वयः, जिज्ञासितविवक्षितार्थायत्ते ज्ञानाभिधाने यस्य भवतस्स जिज्ञासितविवक्षितार्थायत्तज्ञानामिधानस्तस्येत्यर्थः, अत्र स्याद्वादिनो योऽर्थो येन द्रव्यात्मना पर्यायात्मना वा जिज्ञासितो भवति तस्यार्थस्य तेन रूपेण ज्ञानम्भवति यश्चार्थो येन द्रव्यात्मना पर्यात्मना वा विवक्षितो वक्तुमिष्टो भवति तस्यार्थस्य तद्रूपमुपादायाभिधानम्भवति । एतस्माजिज्ञासाविवक्षावैचित्र्यात्स्याद्वादे द्रव्यपर्याययोरेकत्र वस्तुनि समप्रधानभावेऽपि प्रधानोपसर्जनभावावलम्बनेन समस्तवस्तुभ्यवहारः प्रवर्त्तते, नैतावता वस्तुत्वं द्रव्यमात्रवृत्ति पर्यायमात्रवृत्ति वा, किन्तु द्रव्यपर्यायानेकाकारवृत्त्येव, व्यवहारवैचिज्यस्यैवमपि जिज्ञासाविवक्षावैचित्र्यत उपपत्तरित्यर्थः। उक्तमर्थ प्राचीनसम्प्रतिपत्त्या दृढीकरोति-यथाहेति, सर्वमात्रासमूहस्येत्यत्र मात्रापदं द्रव्यपर्यायांशपरम् , सर्वथा सर्वप्रकारेण द्रव्यपर्यायादिस्वभावेन । एवं सति कुतो न सर्वरूपेण सर्वस्याभिधानमित्यत आह-कचिदिति, यदा यस्य येन रूपेण विवक्षा तदा तेन रूपेण तस्य व्यवहार इत्यर्थः । वस्तुन उत्पादादित्रयात्मकत्वे मेदामेदखरूपस्य घटादेश्चक्षुर्जन्यज्ञाने प्रथमत एव भानं स्यात्तस्यार्थजन्यत्वादर्थस्य च व्यात्मकत्वादित्याशकते-भवतु नामेति, अतः, चक्षुस्सन्निपातानन्तरजायमानज्ञानेऽर्थजन्ये भेदाभेदादेरप्रतिभासनात् , अवग्रहादिक्रमेण प्रवर्त्तमानस्य चक्षुरादिप्रभवस्य ज्ञानस्य सामान्य विशेषविषयकत्वाद्भेदाभेदादिविषयकत्वमस्त्येवोपयोगदैर्घ्यमाश्रित्येति सिद्धान्ती समाधत्ते-अत्रोच्यत इति, अवग्रहादीत्यादिपदादीहापायधारणानां परिग्रहः, व्यञ्जनावग्रहस्यार्थाविषयकत्वादर्थावग्रहमादीकृत्य क्रममुपदर्शयति-अर्थावगाहश्चेत्यादि, सामान्यमात्रेण वस्तुग्रहणमवग्रहः किश्चिदस्तीति, प्रायो वृक्षेणानेन भवितव्यमितीहा, वृक्ष एवायमित्यपायः, धारणा चापायस्यैवोत्तरकालावस्थानपरिणामस्य संज्ञेति, तथा चैतावच्चतुष्टयस्वरूपतामास्कन्दतो दीर्घोपयोगरूपस्य चक्षुरादिप्रभवमतिज्ञानस्य भेदाभेदात्मकवस्तुविषयकत्वमस्त्येवेति युक्तमुत्पादाद्यात्मकत्वं वस्तुन इति, इन्द्रियमेव व्यापारयतः प्रमातुनिश्चिताकारमपायज्ञानं प्रमाणमुपजायत इत्यन्वयः। इन्द्रियमेवेत्येवकारेण तस्य ज्ञानस्य मानसविकल्परूपत्वव्यवच्छेदः । तस्येन्द्रियप्रभवत्वेऽन्वयव्यतिरेको प्रमाणयति-तद्भावे भावादिति । चक्षुरादिविषयः, चक्षुरादीदियजन्यः, चक्षुरादिना विषयो यस्य भवतीति व्यधिकरणबहुव्रीहेरन्यत्रासाधुत्वेऽप्यत्रागत्या खीकरणीयत्वम्, अथवा चक्षुरादिपदं चक्षुरादिविषयपरं, तथा च चक्षुरादिश्चक्षुरादिविषयो विषयो यस्यति बहुव्रीहिरेवात्र साधुः । मनोविषयश्चेत्यत्रापि निश्चय इत्यनुवर्तते, अर्थगतिः पूर्ववत् । अष्टाविंशतिविधत्वादिति, एतच्च प्रथमाध्याये प्रपञ्चितम् । तथा च चक्षुरादिप्रभवमपि ज्ञानं द्रव्यपर्यायालम्बनमुपपद्यत इत्याह-अस्त्येवेदमिति, इदं द्रव्यपर्यायाविति निश्चिताकारं ग्रहणमिन्द्रियस्यास्त्येअत्यन्वयः। इन्द्रियस्येत्यत्र जन्यजनकभावलक्षणसम्बन्धार्था षष्ठी। मानसस्यापि द्रव्यपर्यायविषयकग्रहणस्य नासद्विषयकत्वं तेनापि च द्रव्यपर्यायोभयात्मकत्वं वस्तुनोऽभ्युपगन्तव्यमेवेत्याह-मानसमपीति, मानसस्यापि नायथार्थत्वमिति प्रपञ्चयति

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150