Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 50
________________ भाष्यटीकाविवृतियुता] द्रव्यनयमतोपसंहारः, पर्यायनयमतं तस्य च द्रव्यनवेन सह चर्चा । [९] भावता, अन्यथा तु भाव एव न स्याद् भविता विशेषो भवनव्यतिरेकित्वात्, तदव्यतिरिक्तरूपत्वाच्च भवितुर्विशेषस्य तत्स्वरूपवद्भावता तदव्यतिरिक्तरूपता च । एवं सति भवनमात्रमेवेदं कृत्स्नं भेदाभिमतास्त्वेता वृत्तयस्तस्यैव न जात्यन्तराणीति ॥ पर्यायः पुनरपवादस्वभावोऽन्यपरिवर्जनमपवदनमपवादः, स ह्यन्यपरिवर्जनेनान्यं प्रतिपादयति प्रतिषेधरूपत्वाद्, अघटो न भवतीति घटः, पर्याया एव सन्ति न पुनद्रव्यं नाम किञ्चिदेकं पर्यायार्थान्तरभूतमस्ति, द्रव्यास्तिकावधारितध्रौव्यवस्तुप्रति. क्षेपेण भेदा एव वस्तुत्वेन प्रतिज्ञायन्तेऽतः पर्याये आस्तिकः पर्यायास्तिकः समुपलभ्यमानायःशलाकाकल्पभेदकलापव्यतिरेकेण द्रव्यस्यानुपलम्भात् ॥ ननु च रूपादिव्यतिरेकेण मृद्रब्यमित्येकवस्त्वालम्बनश्चाक्षुषः प्रत्ययः प्रत्याख्यातुमशक्यः, सन्तमसपटलावच्छादितप्रदेशवर्तिनि वा मृद्रव्ये स्पर्शनज्ञानमभिन्नमृद्रव्यमात्रालम्बनमसत्यमिति वा भाषितुं न पार्यत इत्यस्त्यभिन्नमेकं द्रव्यमभेदज्ञानवि वात् । न चैकरूपत्वं सत्त्वस्य नास्त्येव घटत्वं हि घटे सत्त्वं पटत्वं पटे सत्त्वमित्येवमननुगततया भिन्नरूपस्यैव सत्त्वस्य घटसत्ता पटसत्तेत्येवं भिन्नप्रतिभासादिति वाच्यम् , तस्यौपाधिकभेदस्य वास्तविकाभेदाविरोधित्वादित्याशयेनाह-भेदप्रत्यवमशैनेति, अभिन्नमपि भवनलक्षणं द्रव्यं घटादिभवनविशेषावगाहिवेदनेन भिन्नमिवाभासते, यथा महाकाश एक एव मठघटशरावाकाशादिरूपैरवभासते तथेदमपीति । भावत्वं सत्त्वस्यैव केवलस्यान्यत्र तूपचारात्तत्संप्रत्यय इत्याह-तदाश्रयाच्चेति, सत्त्वात्मकमहासामान्याभेदाश्रयाणाचेत्यर्थः । भवितरि भवनरूपयोगिनि। अन्यथा सत्त्वात्मकमहासामान्याभेदानाश्चयणे, भविता भवनशीलः, विशेषो भाव एव न स्यात् , अनुगतस्य भावत्वाद्विशेषाणां च खतोऽननुगतत्वादित्याह-भवनव्यतिरेकित्वात्, सत्त्वभिन्नत्वात् । तदव्यतिरिक्तत्वात, सत्त्वाव्यतिरिक्तवाद, भवितुर्भवनाश्रयस्य, विशेषस्य पर्यायस्य, तत्स्वरूपवद, भवनखरूपवद्, तदव्यतिरिक्तरूपता, भावाव्यतिरिकरूपता। एवं सति द्रव्यार्थिकनयाभिप्रेतं यनिष्पन्नं तदाह-एवं सतीति, एता विशेषरूपा वृत्तयोऽवस्थाः, तस्यैव महासत्त्वलक्षणभवनस्यैव, न जात्यन्तराणि न तु विशेषा महासामान्यात्पृथगभूतानि तत्त्वानि । इत्थमुत्सर्गस्वभावलं द्रव्यास्तिकनयस्योपपादितम् ॥ सम्प्रति पर्यायास्तिकस्यापवादस्वरूपतां प्रपश्चयति-पर्याय पुनस्त्वर्थे, अपवादखभावः, अपवादस्वरूपः पर्यायास्तिकमयः । अपवाद एव क इत्यपेक्षायामाह-अन्यपरिवर्जनमिति, यौगिकोऽयमर्थ इत्युपपादयितुं व्युत्पत्तिमुपदर्शयति-अपवदनमपवाद इति, स हीति, हि यतः स पर्यायार्थिकनयः, अन्यपरिवर्जनेनान्यं प्रतिपादयतीति, पर्यायार्थिकनये हि घट इति शब्दो न विधिमुखेन घटरूपमर्थ कथयति, किन्तु घटान्यद् यत्पटादि तत्परिवर्जनेन तन्निषेधमुखेन घटान्यपटादिभ्योऽन्यं घटं प्रतिपादयति, यतो घटपदस्य घटत्वावच्छिन्ने शक्तिः । घटत्वं च न विधिरूपं सामान्यं किन्त्वघटव्यावृत्तिरूपमेवेत्याहप्रतिषेधरूपत्वादिति, एतदेव स्पष्टयति-अघटो न भवतीति घट इति, घटोऽयमित्युक्तेऽयमघटो न भवतीति निषेधरूपोऽर्थो लभ्यते इत्यर्थः । घटत्वस्य विधिरूपत्वं किमिति नाश्रयत्ययमित्यपेक्षायामाह-पर्याया एव सन्तीति, एव छेद्यमाह-न पनव्यमित्यादि. द्रव्यपदश्चात्रानुगतधर्ममात्रोपलक्षकम् , तथा च घटत्वं न घटेभ्यो व्यतिरिक्त सकल घटानुगतमेकं सामान्यमस्ति, घटोऽयं घटोऽयमित्यनुगतमतिश्चाघटव्यावृत्तिविषयिण्येवेति । अघटव्यावृत्तिरूपतयाऽनुगतमतिप्रयोजनकत्वमिष्टमेव घटत्वादी न पुनर्विधिरूपतयेत्यावेदयितुमुक्तं-पर्यायार्थान्तरभूत मिति, पर्यायास्तिकसंज्ञाप्यस्य नयस्यान्वथैल्याह-द्रव्यास्तिकेत्यादि, ध्रौव्येति, अनुगतांशेत्यर्थः। भेदा एव विशेषा एव । प्रतिचायन्ते, खपक्षे स्थाप्यन्ते, परपक्षनिराकरणपूर्वकस्वपक्षव्यवस्थापनस्यैव प्रतिज्ञात्वात्, एतन्मतेऽनुगतमतिर्विकल्पनमात्रं न तु वस्तुनिर्णायकमिति हृदयम् । कथं निखिलपर्यायानुस्यूतमनुगतद्रव्यमयं नाभ्युपगच्छतीत्यपेक्षायामाह-समुपलभ्यमानेत्यादि । द्रव्यालम्बनप्रतीत्यपलपनमसहमानो द्रव्यास्तिक आशङ्कते-ननु चेत्यादि, रूपादीत्यत्रादिपदादसगन्धस्पर्शाद्युपप्रहः । सन्तमसेति, निबिडान्धकारेत्यर्थः, अनेनालोकरूपसहकार्यभावाच्चक्षुस्तत्र रूपग्रहणे न व्याप्रियत इति सूचितम्, स्पर्शनज्ञानमिति, त्वगिन्द्रियजन्यज्ञानमित्यर्थः, तथा चेन्द्रियद्वयवेद्यत्वं न रूपस्पर्शयोस्खयोरेकैकेन्द्रियग्राह्यत्वस्यैव भावादिति चाक्षुषस्पार्शनज्ञानविषयोऽनुगामी रूपस्पर्शयोः कश्चिदभ्युपगन्तव्यः, स एव द्रव्यमिति गूढाभिसन्धिः । मृगन्यमाति, मात्रपदेन रूपव्यवच्छेदः । नन्वनुगतप्रतीतिमात्रस्य भ्रान्ततमेव पर्यायवादिनाऽभ्युपगमान ततो वस्तुसिद्धिरित्यत आह-नचायमिति । त. त्रि.१

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150