Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 49
________________ [4] द्रव्यादिविप्रकर्षाद्भावरूपाऽनुपलब्धिः, द्रव्यनयमतञ्च [ तत्त्वार्थत्रिसूत्री वन्ध्यायाः केन तद्वत्ता निवार्यते ?, नहि पूर्वोपात्तकर्मविपरिणामव्यतिरेकेण तज्जीवतथाविधपरिणत्यभावे वा उत्तरजन्मप्रतिपत्तिरमूलत्वात् ४; अतः सर्व एव पदार्था द्रव्यक्षेत्रकालभावभेदापेक्षाः कदाचि - दुपलभ्यन्ते, प्रत्यक्षादिना प्रमाणेनावधार्यन्ते, कदाचिदुपलब्धाः सन्तोऽपि भूयो नोपलभ्यन्ते, द्रव्यादिविप्रकर्षात्, सत्यपि मतिज्ञानावरणीय कर्मक्षयोपशमकारणसाकल्ये उपयोगे च किञ्चिद् द्रव्यमन्यापरमाणुव्यणुकादि वैक्रियशरीरादि च सदपि नोपलभ्यते, तस्य च द्रव्यस्य तथाविधपरिणामात्, आदिशब्दाद् दिवा तारकादयो माषश्च माषराशावुपक्षिप्तः किञ्चित् क्षेत्रविप्रकर्षाद्धि दूरात्यासन्नस - व्यवधानवर्ति विद्यमानमेव नोपलम्भविषय भूयमास्कन्दति, तथाऽपरं कालविप्रकर्षादनाविर्भूतं तिरोभूतमुपलब्धेरगोचरः, तथाऽन्यद्भावविप्रकर्षात् परकीयात्मवर्तिमतिज्ञानविकल्पजालमण्वादिपरिवर्ति संस्थानरूपादिपर्यायकलापजातं सदप्यनुपलभ्यम्, विवक्षितोपलब्धेश्चान्या उपलब्धिरनुपलब्धिः, पर्युदासवृत्तेरभ्युपगमात्, न पुनरुपलब्ध्यभावोऽनुपलब्धिः, अनुपाख्यस्याभावस्य प्रत्याख्यानात्, भावस्यैव चाभावशब्देन कथञ्चिदभिधेयत्वात् तस्मादुपलम्भकारणभाज एवानुपलब्धिर्नान्यथा, व्यवस्थितमिदं नाभावः प्रतिषेधमात्रमिति । एवं च धौव्यं द्रव्यास्तिकः, अस्तीति मतिरस्येत्यास्तिकः, द्रव्य एवास्तिको द्रव्यास्तिकः, सकलभेदनिरासादकृतलक्षणस्य च तत्पुरुषस्य मयूरव्यंसकादिप्रक्षेपात् समसनम्, तश्च द्रव्यं भवनलक्षणं मयूराण्डकरसवदुपारूढसर्वभेद्बीजं निर्भेदं देशकालक्रमव्यङ्ग्यभेदं समरसावस्थमेकरूपं भेदप्रत्यवमर्शेनाभिन्नमपि भिन्नवदाभासते, तदाश्रयाच्च भवितरि विशेषे भवति वन्ध्यापुत्रः प्रसिद्ध इति न वन्ध्यापुत्रस्य सर्वथाऽसत्त्वम् । किञ्च याऽपि स्त्री कस्याप्यपत्यस्याजननीत्वाद्वन्ध्येति प्रसिद्धा, साऽप्यस्ति पुत्रोऽप्यन्यस्त्रियाः कश्चित्प्रसिद्ध इति पुत्रे वन्ध्यासम्बन्धित्वज्ञानरूपा वन्ध्यापुत्रप्रतीतिरपि विपरीतख्याति रेव, नासत्ख्यातिः कुत्रापि सम्भवतीत्याशयेनाह - अतः सर्व एवेति कदाचिद्, द्रव्याद्यविप्रकर्षे, उपलभ्यन्त इत्यस्यैव विवरणं प्रत्यक्षादिना प्रमाणेनावधार्यन्त इति । नोपलभ्यन्ते द्रव्यादिविप्रकर्षादिति, यथा- पृथिवीत्वादिजाती रूपादिकं च घटादावुपलभ्यते परमाणौ नोपलभ्यते इति द्रव्यविप्रकर्षात् तत्रानुपलब्धिः, भित्त्याद्यनावृतदेशस्थितो य एव पूर्वमुपलब्धस्स एवं भित्त्यादिव्यवहित देशगत स्सन्नोपलभ्यते तत्रानुपलब्धिः क्षेत्रविप्रकर्षात् खासमानकालीन पदार्थस्तत्कालीनपुरुषोपलब्धिगोचरोऽप्यन्यकालीनपुंसा नोपलभ्यते तत्रानुपलब्धिकारणं कालविप्रकर्षः, लवणं पूर्वमुपलब्धमपि चक्षुषा तोयगतं नोपलभ्यते तत्रानुपलब्धि हेतुस्स्वभावविप्रकर्ष इत्येवमेकस्याप्युपलब्ध्यनुपलब्धी ज्ञेये । द्रव्यादिविप्रकर्षादिति, स्वयं स्पष्टदृष्टान्तेनोपपाय दर्शयति- सत्यपीत्यादिना, किश्चिद्रव्यमित्यादि द्रव्यविप्रकर्षे उदाहरणम् । उपलम्भविषय भूयमास्कन्दति उपलम्भविषयत्वं प्राप्नोति । अनुपलब्धिरपि नोपलब्ध्यत्यन्ताभावो येन तुच्छरूपतामास्कन्देत, किन्तु भावरूपैवेत्याह-विवक्षितोपलब्धेश्चेति । प्रक्रान्तमर्थमालम्ब्याह एवं चेति, द्रव्यास्तिकपर्यायास्तिकावुत्सर्गापवादस्वभावाविति, यदुक्तं प्राक् तदधिकृत्याह - ध्रौव्यमिति, अत्र विषयिनयगतस्य द्रव्यास्तिकत्वस्य विषये ध्रौव्येप्युपढौकनम्, तदुपपादनायाह- अस्तीति मतिरस्येत्यास्तिक इति । द्रव्यास्तिकशब्दस्योक्तस्य लाक्षणिकतत्पुरुषसमासभेदानन्तर्गतत्वेऽपि तत्पुरुषत्वोपपादनायाह-सकलभेदनिरासादकृतलक्षणस्येति, सकलभेदनिरासादित्यस्य पूर्वान्व - योऽपि सम्भवति, तत्र द्रव्य एव कुत आस्तिक इत्यपेक्षायामाह - सकलेति, भेदपदमत्र पर्यायपरम् । तच्च द्रव्यं, द्रव्यास्विनयविषयो धौव्यलक्षणं द्रव्यं च, भवनलक्षणं भू सत्तायामिति वचनात् सत्तास्वरूपम् तस्यैव घटपटादिखरूपसद्विशेषानुगतत्वेन द्रव्यत्वम्, तदेव च वस्तुनि त्रिकालानुगामितया धौव्यम् । मयूराण्डकरसवदिति, यथा मयूराण्डकरसे भाविमयूरगतसचन्द्रपिच्छस्निग्ध सौन्दर्यचित्ररूपादिसन्निवेशस्सूक्ष्मरूपेण वर्त्तते तथा भवनलक्षणे सत्त्वेऽपि सर्वेऽपि विशेषास्सन्ति, मयूराण्डकरसो यथा तत्तद्रूपेणोत्तरकालम्परिणमति तथा भवनमपि तत्तद्विशेषाकार इव भवति तद्वदेव च सर्वविशेषप्रभेदबीजं सत्त्वम् । निर्भेदं खतो भेदविकलमपि । देशकालक्रमव्यङ्ग्य भेदमित्यत्र भेदशब्दो विशेषवचनः । समरसावस्थं विशेषेषु नानारूपेष्वनुगततयैवावस्थितम्, अत एव एकरूपम् अनेकरूपस्यानुगतप्रतीतिनियामकत्वासम्भ

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150