Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मादीनामन्तरणक्षणजिज्ञासया प्रश्नप्रकारः [तस्वात्रिसूत्री
श्रीमदुमाखातिवाचकप्रवरविरचितं वोपक्षभाष्यम् ॥ अत्राह-धर्मादीनि सन्तीति कथं गृह्यत इति ? ।
श्रीसिद्धसेनगणिवरविरचिता टीका ॥ - अबाहेत्यादिसम्बन्धग्रन्थः । धर्मादीनां द्रव्याणां यथासम्भवं गतिस्थित्युपग्रहादि लक्षणमुक्त वैशेषिकम् , अधुनाऽन्तरङ्गव्यापिलक्षणजिज्ञासया सन्दिहानः प्रश्नयति-धर्मादीनि सन्तीति कथं गृह्यत इति । अस्ति चात्र सन्देहबीजम्-किं विकारग्रन्थिरहितं सत्तामात्रमेते धर्मादयः, आहोस्विद् विकारमात्रमुत्पादविनाशलक्षणमथोभयम् ? इत्येवमनेकप्रकारसम्भवे सन्देहः, कथं-केन प्रकारेण, धर्मादीनि सन्ति-विद्यन्त इति । इतिशब्दो हेतौ । येन हेतुना सत्त्वमेषां निश्चीयते तद्विषयत्वमितिकरणस्य । वाक्यपर्यन्तवर्ती इतिशब्दः प्रष्टव्यार्थेयत्ताख्यापनार्थः। गृह्यत इति ग्राह्यम् , निश्चेयमित्यर्थः। किं तदस्तित्वमेषामिति । अथवा धर्मादीनि सन्तीत्यस्तित्वमेव सन्दिग्धे परः॥ ननु च येषां परिकलयेत् । यस्तु समस्ति खखनिमित्तापेक्षया भेदादिरभेदाद्यप्रतिपन्थी स यद्यपि न वस्तुभूतो घटादिवस्तुकार्यस्यानुगतव्यावृत्तबुद्ध्यादेरेकेन भेदादिनाऽभेदादिनाऽसम्भवात् , तथापि यत्किञ्चिद्वस्तु कायैकदेशकारित्वाद्वस्त्वंशो भवत्येव, परं स न न्यायादिदर्शनानां विषयः, तेषामेकान्तत्वकलङ्कभाजां यथावद्वस्त्वंशावगाहित्वाभावात् । तथा च वस्तुतदंशोपदर्शनपराङ्मुखेषु तेषु सदसद्विवेचकत्वमेव नास्ति, कुतः सत्तानिरूपकत्वं खयमसतां, सत्ताप्ररूपकत्वं द्रव्यार्थिकपर्यायार्थिकनययोस्तु परस्परप्रतिक्षेपौदासीन्येन प्रवृत्तयोस्खखनिमित्तापेक्षया वस्त्वंशाभेदादिविषयकत्वव्यवस्थितौ तत्साहाय्यसम्पदजय्यपरिहृतविरोधस्याद्वादप्रमाणराजविषयत्वं वस्तूनां निर्वहति, वस्तुता च नान्तरेण सत्ता कस्यापीति सत्ता भवति निरूपणारे स्याद्वादिनामिति धर्मादीनि वस्तून्यधिकृत्य तां निरूपयितुं भाष्यकारः पृच्छति
अत्राहेति, लक्षणाधीना लक्ष्यव्यवस्थितिरिति व्यवहारप्रयोजनकमितरभेदानुमितिप्रयोजनकं तल्लक्षणमेवाभिधानीयं तदेव च सुपरीक्षितं तनिरूपणपर्यवसायीत्यभिप्रायवान् समाधत्ते-अत्रोच्यत इति । उक्तप्रयोजनकं लक्षणं नासाधारणस्वरूपं विरहय्यान्यदतो विशेषस्वरूपावगमाथ पृच्छति-किश्चेति, "उप्पेइ वा विगमेइ वा धुव्वेइ वा" इति महावीरास्यनिर्गतसकलवस्तुव्यापिभेदाभेदादिसकलधर्मव्यवस्थानिर्वाहकत्रिपदीपवित्रितमेव सत्त्वस्य स्वरूपलक्षणम्भवितुमर्हति नापरतैर्थिकप्ररूपितमित्याशयेनोत्तरयति-अत्रोच्यत इति ।
टीकायां पैशेषिकमित्यस्यासाधारणमित्यर्थः, गतिस्थित्यादिकञ्च लक्षणं परमुखनिरीक्षकत्वादहिर बोध्यम् । अन्तरङ्गेति, यद्यपि धर्मादीनां स्वतोऽवस्थितस्वरूपाणामुत्पादव्ययौ परापेक्षावेवेति वक्ष्यमाणसत्त्वखरूपमपि परापेक्षत्वादहिरजम् , तथापि वस्तु प्रतिक्षणं स्वपर्यायात्मना परिणमदेवावतिष्ठते इति परगत्याधुपष्टम्भकः कश्चित्वपरिणामो भवत्येव धर्मादीनां खस्वरूपानुप्रविष्ट इत्यभिप्रायेणैवमुक्तिः। यद्यपि सामान्यतः सत्त्वस्वरूपमुत्पादादिकं धर्मस्येवाधर्मादेरपीत्यतिव्याप्तिकवलितं तथापि सत्वरूपतया लक्षणीये धर्मे तदीयोत्पादादिकमेव तल्लक्षणमिति व्यापित्वेऽपि सामान्यतो विशेषापेक्षायां नातिप्रसञ्जकत्वमिति बोध्यम् । सन्दिहान इति-अत्राचार्यस्यावधृतसत्त्वस्वरूपस्य सन्देह आहार्यरूपो बोध्यः, तस्य निश्चयाप्रतिबध्यत्वेन निश्चयानन्तरमपि सम्भवो न विरुज्यते। विकारग्रन्थिपदेनोत्पादव्ययौ बोध्यौ । सत्तामात्रं सकलवस्तुव्यापी ध्रौव्यांशः । उभयम् , उत्पादव्ययौ ध्रौव्यं च। तद्विषयत्वमितिकरणस्येति, वस्तुखरूपनिरूपणे त्रिविधा ह्याकाङ्क्षा प्रश्नापरपर्याया प्रयोजिका भवति, निरूपणीयखरूपस्य निरूपणहेतोः तत्प्रकारापरपर्यायेतिकर्तव्यतायाश्च, यथा-किं ज्ञेयमित्याकासा वहयादिखरूपविषयिणी, केनेत्याकाला धूमादिलिङ्गविषयिणी, कथमित्याकाला परामर्शा दितत्सहकारिसम्पत्तिविषयिणी, त्रिविधाप्याकाडा खरूपविशेषकरणविशेषतळ्यापारादिप्रकारविशेषोपदर्शनेनोपशाम्यति । तथा प्रकृतेऽपि किं निरूपणीयं केन निरूपणीयं कथं निरूपणीयमित्येवमाकासात्रयमुपतिष्ठते, तत्र प्रथमा धर्मादीनि सन्ति इत्यंशेन, करणवाचिना चेतिशब्देन द्वितीया, प्रकारवाचिना च कथमितिशब्देन तृतीयोपस्थाप्यते, अतो द्वितीयाकाङ्क्षाविषयख्यापनमेव इतिकरणस्य प्रयोजनमिति भावः। प्रष्टव्यार्थेयत्ताख्यापनार्थ इति । धर्मादीनां सत्त्वे ग्राह्ये किं करणं कश्च तत्प्रकार इत्येतन्मात्रमेव पृच्छाविषय इत्यर्थः । खरूपाभिन्नलक्षणतः खरूपे ग्राह्ये खरूपमेव विषयविधया करणं तत्प्रकारोऽपि च ज्ञायमानस्वरूपतामुपादाय खरूपमेवेत्सतः प्रकृतप्रश्नस्य पर्यवसितरूपमाह-किं तदस्तित्वमेषामिति, प्रश्नस्य संशयमूलकत्वात्कारणकार्य

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150