Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
अस्य समयः सप्तमशताब्दीतः ऊवं नवमशताब्दीतः प्राक् इति इतिहासज्ञैः निर्णीतम् । दीकाप्रमाणं तु अष्टादशसहस्राणि द्वे शते लशीतिश्च श्लोकाः १८२८२ । त्रिसूत्रीप्रकाशिकाविवृतिकार:
पूज्यपादाः प्रगुरुवर्यास्तिलकमञ्जरीपरागटीका-धातुरनाकराधनेकग्रन्थकर्तारः व्याकरणवाचस्पति-कबिरनशास्त्रविशारदाः व्याख्यानसुधावर्षिणो भद्वारकाचार्यश्रीमद्विजयलावण्यसूरीश्वराः।
तैः सूत्रं भाष्यं टीको चावलम्ब्य 'प्रकाशिका' नाम्नी नव्यटीका विरचिता।
एतत्रितयं अतिगम्भीरमिति इदानींतनजनानां दुरधीगममिति मस्या तत् सौकर्यायेयं [प्रकाशिका-] टीका कृता । येनेदानींतनजीवानां सुखेनावबोधः भवेत्, इति टीकानिर्माणप्रयोजनम् । टीकायां सर्वस्थलेषु सोपादानं विवरणं व्यधायि । तत्र तत्र स्थलेषु षण्णामपि दर्शनानां स्वरूपं सरहस्यं प्रादर्शि । सप्तानां भङ्गानां नयानां च स्वरूपं सम्यगुदघाटि । सर्वत्रापि एकान्तवादस्याऽसमञ्जसतामुपवर्ण्य अनेकान्तवादस्य विशदता स्थापिता। कुत्रापि व्याख्यारहितो न ग्रन्थः। आदावनुक्रमणिकाप्यतीव विस्तरेण प्रदत्ता। ग्रन्थनिर्माणं विक्रमाब्दे लिधिनिधिनिधिचन्द्रमिते श्रीराजनगरे [अमदावादे]। प्रमाणम्-पञ्चविंशत्यक्षराणि [२५] मूलसूत्राणि । प्रायोऽष्टादशश्लोकाः [१८] भाष्यमानम् । प्राय उपसार्द्धत्रयोदशशतिश्लोकानां [१३५०] श्रीसिद्धसेनरचितटीकामानम् । प्रायः शतद्वयान्विता चतुसहस्री प्रकाशिकाप्रमाणं च [४२००]।
मुनिसुशीलविजयः

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 150