SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अस्य समयः सप्तमशताब्दीतः ऊवं नवमशताब्दीतः प्राक् इति इतिहासज्ञैः निर्णीतम् । दीकाप्रमाणं तु अष्टादशसहस्राणि द्वे शते लशीतिश्च श्लोकाः १८२८२ । त्रिसूत्रीप्रकाशिकाविवृतिकार: पूज्यपादाः प्रगुरुवर्यास्तिलकमञ्जरीपरागटीका-धातुरनाकराधनेकग्रन्थकर्तारः व्याकरणवाचस्पति-कबिरनशास्त्रविशारदाः व्याख्यानसुधावर्षिणो भद्वारकाचार्यश्रीमद्विजयलावण्यसूरीश्वराः। तैः सूत्रं भाष्यं टीको चावलम्ब्य 'प्रकाशिका' नाम्नी नव्यटीका विरचिता। एतत्रितयं अतिगम्भीरमिति इदानींतनजनानां दुरधीगममिति मस्या तत् सौकर्यायेयं [प्रकाशिका-] टीका कृता । येनेदानींतनजीवानां सुखेनावबोधः भवेत्, इति टीकानिर्माणप्रयोजनम् । टीकायां सर्वस्थलेषु सोपादानं विवरणं व्यधायि । तत्र तत्र स्थलेषु षण्णामपि दर्शनानां स्वरूपं सरहस्यं प्रादर्शि । सप्तानां भङ्गानां नयानां च स्वरूपं सम्यगुदघाटि । सर्वत्रापि एकान्तवादस्याऽसमञ्जसतामुपवर्ण्य अनेकान्तवादस्य विशदता स्थापिता। कुत्रापि व्याख्यारहितो न ग्रन्थः। आदावनुक्रमणिकाप्यतीव विस्तरेण प्रदत्ता। ग्रन्थनिर्माणं विक्रमाब्दे लिधिनिधिनिधिचन्द्रमिते श्रीराजनगरे [अमदावादे]। प्रमाणम्-पञ्चविंशत्यक्षराणि [२५] मूलसूत्राणि । प्रायोऽष्टादशश्लोकाः [१८] भाष्यमानम् । प्राय उपसार्द्धत्रयोदशशतिश्लोकानां [१३५०] श्रीसिद्धसेनरचितटीकामानम् । प्रायः शतद्वयान्विता चतुसहस्री प्रकाशिकाप्रमाणं च [४२००]। मुनिसुशीलविजयः
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy