________________
प्रास्ताविकस्फुरणा
विदाकर्षन्तुतरां विद्वन्मण्डली, यदुत-त्रिसूत्रीप्रकाशिकानामाऽयं ग्रन्थमणिः। अन्न चत्वारो ग्रन्थाः समवतीर्णा:मूलसूत्राणि, भाष्यम्, श्रीसिद्धसेनगणिटीका, प्रकाशिकाख्या विवृतिश्चेति । अमीषां क्रमशः प्रसनचिता काचित विचारणा वितन्यते।
इहेमानि त्रीणि मूलसूत्राणि
(१) “उत्पादव्ययध्रौव्ययुक्तं सत्" ॥ २९॥ (२) "तद्भावाव्ययं नित्यम्" ॥ ३०॥ (३) “अर्पितानर्पितसिद्धेः"॥३१॥
नेमानि स्वतन्त्रैकग्रन्थरूपाणि, अपि तु वाचकवरेण्यश्रीमदुमास्वातिपुङ्गवविरचितस्य तत्त्वार्थाधिगमाभिधस्य ग्रन्थमणेः पञ्चमाध्यायान्तर्गतानि ।
___ तत्त्वार्थपरिचयः-'तत्त्वार्थाधिगमसूत्रम्' इति सान्वर्थ नाम तत्र जिनागमोदिततत्वभूतनिखिलजीवाऽजीवादिपदार्थसूत्रणाद्, भाषा संस्कृतम्, दशाध्ययनानि, तेषु व्याकरणादिसूत्रवत् सूत्ररचना, सूत्रसंख्या-चतुश्चत्वारिंशदधि
तानि ३४४, सत्रश्लोकमानं तु-प्रायोऽष्टनवत्यधिकं शतम् १९८। तदेवमुपवर्णितस्वरूपस्य तत्वार्थाधिगमसूत्रस्य प्रस्तुतानीमानि सूत्राणि नयनाभानि, यतस्ततो दर्शनजालजननीनिभा त्रिपदीनयभङ्गावलिरुलसतितराम् ।
अस्य तत्वार्थाधिगमसूत्ररत्नस्य प्रणेतारस्तु प्रकरणपञ्चशतीकृतः पूर्वविदो मुनिनिकरनायकाः वाचकवरेण्या भगवम्त 'उमास्वातयः । तेषां समयादिनिर्णयस्तु तत्कृतप्रशस्त्या सम्यग् अवबुध्यते सा चेयम्
"वाचकमुख्यस्य शिवश्रियः प्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दिक्षमणस्यैकादशाङ्गविदः॥१॥ वाचनया च महावाचकक्षमणमुण्डपादशिष्यस्य । शिष्येण वाचकाचार्यमूलनाम्नः प्रथितकीर्तेः॥२॥ न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनाम्नि । कौभीषणिना स्वातितनयेन वात्सीसुतेनाय॑म् ॥ ३ ॥ अर्हद्वचनं सम्यग्गुरुक्रमेणागतं समुपधार्य । दुःखात च दुरागमविहतमतिं लोकमवलोक्य ॥ ४ ॥ इदमुच्चै गरवाचकेन सत्त्वानुकम्पया दृब्धम् । तत्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् ॥ ५॥ यस्तरवाधिगमाख्यं ज्ञास्यति च करिष्यते च तत्रोक्तम् । सोऽप्याबाधसुखाख्यं प्राप्स्यत्यचिरेण परमार्थम्"॥६॥
अनया प्रशस्त्येदं निर्णीयते(१) 'दीक्षागुरुः' एकादशाङ्गधारको 'घोषनन्दिक्षमणः'। (७)'मातृनाम' 'वात्सी'[वत्सगोत्रा 'उमा' इति नाम]। (२) 'प्रगुरुः' वाचकमुख्यः 'शिवश्री'नामा।
(८) 'जन्मस्थलम्' 'न्यग्रोधिका'। (३) विद्यादाता गुरुः' वाचकाचार्यो 'मूल'नामा। (९)'शाखा' 'उच्चनागरी'। (४) 'विद्यादाता प्रगुरुः' महावाचको 'मुण्डपादःक्षमणः। (१०)'ग्रन्थनाम' तत्वार्थाधिगमशास्त्रम्। (५) 'गोत्रनाम' 'कौभीषणिः'। (११) 'रचना' 'कुसुमपुरे' [पाटलिपुत्रनाम्ना महानगरे, अधुना 'पटणा' इति] (६) 'पितृनाम' 'स्वातिः' ।
(१२) 'अन्तिमं फलम्' 'मोक्षम्। प्रशस्त्यां कालानिर्देशात् तत्कृते इतिहासविद्भिः विविधं चर्चयित्वेदं निर्णीतम् , यदुत-वाचकवर्यश्रीउमास्वातिमुनिपुङ्गवानां कालः श्रीवीरात् द्विशतीत ऊर्व नवशतीतश्च प्राक्, अर्थात् तयोरन्तरालस्थः कालस्तेषामिति ।
भाष्यम्-प्रस्तुतभाष्यमपि स्वोपज्ञमेवेति विद्वद्भिः सुनिश्चितम् । तदर्थ प्रयासो न विधीयते । भाष्यप्रमाणं तु द्वाविंशतिः शतानि २२०० श्लोकाः । केचन आशाम्बरा भाष्यं स्वोपज्ञं न मन्यन्ते, अपि तु तन्न चारु । विद्वद्भिः स्वोपज्ञत्वस्य निर्णीतत्वाद ।
टीकाकारः-श्रीसिद्धसेनगणि-श्रीहरिभद्रसूरि-श्रीदेवगुप्त-श्रीयशोभद्रसूरि-तच्छिष्य-श्रीमलयनिरि-श्रीचिरंतनमुनि-वाचक-श्रीयशोविजयगिगणिप्रभृतिभिः निर्मिता अनेके टीकाग्रन्था वर्तन्ते ।
तत्र प्रस्तुतटीकाकारः श्रीसिद्धसेनगणिः ।
तत्परिचयार्थ तट्टीकाप्रान्तस्थप्रशस्तिः साधनम् । अनया प्रशस्त्या दिनगणिनः शिष्यः सिंहसरः, तच्छिष्यः भावामी, तस्य शिष्यः प्रस्तुतटीकाकारः श्रीसिद्धसेनगणिः ।