________________
Shri Mahavir Jain Aradhana Kendral
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पञ्चमस्तम्भः ।
आत्मज्ञानस्वभावेन स्वयं मननसंभवात् ॥ स्वकर्मणश्च संभूतेः स्वयंभूर्जीव उच्यते ॥ ५ ॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ॥ न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ ६ ॥ अच्छेद्योयमभेद्योयं निरुपाख्योयमुच्यते ॥ नित्यः सर्वगतः स्थाणुरचलोयं सनातनः ॥७॥ सोक्षरः स च भूतात्मा संप्रदायः स उच्यते ॥ स प्राणः स परं ब्रह्म सो हंसः पुरुषश्च सः ॥ ८ ॥ नान्यस्तस्मात्परो द्रष्टा श्रोता मन्तापि वा भवेत् ॥ न कर्त्ता न च भोक्तास्ति वक्ता नैवात्र विद्यते ॥ ९ ॥ चेतनोध्यवसायेन कर्मणा स निबध्यते ततोभवस्तस्य भवेत्तदभावात्परं पदम् ॥ १० ॥ उद्धरेद्दीनमात्मानमात्मानमवसादयेत् ॥ आत्मा चैवात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ११ ॥ संतुष्टानि च मित्राणि संक्रुद्धाश्चैव शत्रवः ॥ नहि मे तत् करिष्यन्ति यन्न पूर्व कृतं मया ॥ १२ ॥ शुभाशुभानि कर्माणि स्वयं कुर्वन्ति देहिनः ॥ स्वयमेवोपकुर्वन्ति दुःखानि च सुखानि च ॥१३॥ वने रणे शत्रुजनस्य मध्ये महार्णवे पर्वत मस्तके वा ॥
सुप्तं प्रमत्तं विषमस्थितं वा
रक्षन्ति पुण्यानि पुराकृतानि ॥ १४ ॥
For Private And Personal
१५९
व्याख्या - पुरुषवादी कहते हैं कि - पुरुष, आत्मा, एवशब्द अवधारणमें है, सो कर्म और प्रधानादिके व्यवच्छेदार्थ है, यह सर्व प्रत्यक्ष वर्त्तमान