Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
XXXXXXXXXXXXXXXXXXXXXXXXX
वैरिहृदयं विदारयंति. एवं स्वामिना भ्रूसंज्ञया हक्कारितं भटैरुत्कटं रणमारब्धं, यदुक्तं-राजा तुष्टोऽपि भृत्यानां, मानमात्रं प्रयच्छति । ते तु सन्मानमात्रेण, प्राणैरप्युपकुर्वते ॥ १॥ मित्रं मित्राय वक्ति कातरो मा भव ? रणे उभयथा सौख्यं, जिते सति इह लोके सौख्यं मते सति सुरवल्लभालिंगनादिजनितं सौख्यं लभ्यते. तथा चोक्तं-जिते च लभ्यते लक्ष्मी-मृते चापि सरांगना । क्षणविध्वंसिनी काया, का चिंता मरणे रणे ॥१॥ एवं युद्धे जायमाने द्वादश वर्षाणि व्यतीतानि. किमपि सैन्यं न पश्चाद्वलितं. एतस्मिन्नवसरे देवानां कोटयो युद्धविलोकनार्थ नभोमण्डलमार्गेणागताः, सौधर्मेन्द्रेणागत्य चिंतितमहो विषमा कर्मणां गतिः ! यत्सोदरावपि राज्यलवनिमित्तं मनुष्याणां कोटि विघट्टयतः, अहोऽहं तत्र गत्वा युद्ध निवारयामीति बुद्ध्या इन्द्रेणागत्य भरताय निवेदितं, भो षट्खण्डाधिपते ? किंकरीभृताऽनेकभूमिपते हे प्रभो किमिदमारब्धं त्वया ? हेलया कि जगत्संहरणं करोषि ? श्रीऋषभेण या चिरकालं पालिता, तां प्रजां किं संहरसि १ सुपुत्रस्य तदैतदाचरणं न घटते. यत्पित्राऽऽचरितं तत्पुत्रेणाप्याचरितव्यं, इत्यपसर लोकसंहरणात्. भरतेनोक्तं तातभक्तैर्भवद्भिर्यदुक्तं तत्सत्यं, अहमपि जानामि, परं किं करोमि १ चक्रमायुधशालायां नागच्छति, एकवारं यदि मम समीपेऽयं समागच्छति तदान्यत्किमपि मम कृत्यं नास्ति, अस्य राज्येन मम कृत्यं नास्ति, अतो गत्वा तमेव मदनुजं कथयध्वम् । इति भरतवाक्यं श्रुत्वा शक्रो बाहुबलिपार्श्व गतः बाहुबलिना महती भक्तिः कृता, उक्तं च स्वामिन्नादिश्यतां किमागमनप्रयोजनम् १ इन्द्रेणोक्तं तवैतन्न घटते यत्पित्तुल्येन वृद्धभ्रात्रा साद्ध युद्ध करोषि, अतस्त्वं गत्वा नमस्वापराधं च क्षामय । लोकसंहरणादपसर । बाहुबलिनोक्तमेतस्यैवायं दोषः,
EXXXXXXXXXXXXXXXXXXXXXXXX
॥११
lelibrary.org
For Personal & Private Use Only
Jain Education

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150