Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
वक्तवाट्टिस्स कहा"
"द्वादशम् ब्रह्मदत्त चक्रवर्तिचरितम्
॥१४॥
EXXXXXXXXXXXXXXXXXXkkk
दृष्टा, न चान्यः कोऽपि पुरुषो दृष्टः । ततः कं पृच्छामीति विचार्य स इतस्ततः पश्यति । तावदेको भद्राकतिः पुरुष स्तत्रायातः । कमारेण स पृष्टः, भो महाभाग! एवविधरूप-नेपथ्या एका स्त्री मयात्र मुक्ता, कल्येऽद्य वा त्वया सा दृष्टा ? तेन भणितं पुत्र ! त्वं किं तस्या रत्नवत्या भर्ता ? कुमारो भणति एवम् । तेन भणितम् कल्ये सा मया रुदन्ती दृष्टा, अपराह्नकाले च तस्याः समीपे गतः । पृष्टा च सा मया पुत्रि ! कासि त्वं ! कुतः समागता ? किं ते शोककारणं व वा त्वया गन्तव्यम् ? तया किश्चित्कथिते सा मया प्रत्यभिज्ञाता, मम त्वं दौहित्री भवसीत्युदित्वा मया तस्य लघु पितुः समीपे गत्वा शिष्टा । तेनाप्युपलक्ष्य सा विशेषादरेण स्वमन्दिरे प्रवेशिता । सर्वत्र त्वं गवेषितः परं न क्वचिद् दृष्टाः । साम्प्रतं सुन्दरं जातं यत्त्वं लब्धः। एवमुक्त्वा नीतः कुमारस्तद्गृहे, उपचारः कृतः । तत्र महोत्सवेन रत्नवतीपाणिग्रहणं कुमारः कृतवान । तया सह विषयसुखमनुभवंश्च कियत्कालं तस्थौ ।
अन्यदा वरधनुवर्षदिवसोऽद्येत्युक्त्वा तद्गहे कुमारेण ब्राह्मणदयो भोजिताः । अस्मिन्नवसरे वरधनुः कृतब्राह्मणवेषो भोजननिमित्तमागतः एवं भणितुं प्रवृत्तश्च । भो ज्ञापयन्तु तस्य भोज्यकारिणो यथा--यदि मम भोज्यं प्रयच्छथ तदा तस्य परलोकवर्तिन उदरे भोज्यं सङ्क्रामति । गृहपुरुषैस्तद्वचः कुमाराय शिष्टम् , कुमारोऽपि गृहाद्वहिर्निर्गतः। दृष्टो बरधनुः प्रत्यभिज्ञातश्च । गाढं कुमारेणालिङ्गितो गृहमध्ये प्रवेशितः स्नान-मजन-भोजनादिभिः सत्कृतश्च अनन्तरं कुमारेण पृष्टो वरधनुः स्ववृत्तान्तं जगौ । यथा तस्यां रात्रौ निद्रावशमुपागतेषु युष्मासु सत्सु पृष्टतो धावित्वा चौरेणैकेन कुडगांतरितेन मम पादे बाणप्रहारः कृतः। तद्वदनापरवशोऽहं निपतितो महीतले, परमपायमी
||१४०॥
Jain Educatlam ational
For Personal & Private Use Only
nelibrary.org

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150