Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥१४३॥
वाहनः सम्मुखो निर्गतः, कुमारं च हस्तिस्कन्धे समारोप्य नगरीप्रवेशोत्सवो महान् कृतः। स्वभवने नीतस्य कुमारस्य स्नानमज्जन-भोजनादिसामग्री कृत्वा, प्रकामं सत्कारं च कृत्वा स्वपुत्री कनकवती अनेकहय-गज-रथ-द्रव्यकोशसहिता दत्ता। प्रशस्तविवाहो जातः । तया समं विषयसुखमनुभवतस्तस्य सुखेन कालो याति । ततो दूतसम्प्रेषणेनाकारिताः सबलवाहनाः पुष्पचूलराज-धनुमन्त्रि-कणेरदत्त-भवदत्तादयोऽनेके राजमन्त्रिणः समायाताः। तैः सर्वैः कुमारो राज्येऽभिषिक्तः, वरधुनुस्तु सेनापतिः कृतः । ब्रह्मदत्तः सर्वसैन्यसहितो दीर्घनृपोपरि चलितः। अनविच्छिन्नप्रयाणैश्च काम्पिन्यपुरे प्राप्तः । दीर्घनृपेणापि कटकादीनां दूतः प्रेषितः। परं तैस्तु निभत्सितः दूतः स्वस्वामिसमीपे गतः। ब्रह्मदत्तसैन्येन काम्पिल्यपुरं समन्ताद्वेष्टितम् । ततो दीर्घनृपेणैवं चिन्तितम् , कियत्कालमस्माभिलिप्रविष्टैरिव स्थेयम् ? साहसमबलम्ब्य नगरात्स्वसैन्यपरिवृतो दीर्घनृपो निर्गत्य सम्मुखमायातः । ब्रह्मदत्तदीर्घनृपसैन्ययो?रः सङ्ग्रामः प्रवृत्तः । क्रमाद् ब्रह्मदत्तसैन्येन दीर्घनृपसैन्यं भग्नम् । अथ दीर्घनृपः स्वयमुत्थितः ब्रह्मदत्तोऽपि तमायातं वीक्ष्य प्रदीप्तकोपानलस्तदभिमुखं चलितः । तयोर्द्वयोयुद्धं लग्नम् । अनेकैरायुधैनिक्षिप्तैर्न तयोः सङ्ग्रामरसः सम्पूर्णो बभूव । ब्रह्मदत्तेन ततश्चक्रमुक्तम् । चक्रेण दीर्घनृपमस्तकं छिन्नम् । ततो जयत्येष चक्रवर्तीत्युच्छलितः कलकलः, सिद्धगन्धवदेवैर्मुक्ता पुष्पवृष्टिः, उक्तं च उत्पन्नोऽयं द्वादशश्चक्री । ततो जनपदलौकै स्तूयमानो नारीवृन्दकृतमङ्गलः कुमारः स्वमन्दिरे प्रविष्टः। कृतश्च सकलसामन्तैर्ब्रह्मदत्तस्य चक्रवर्त्यभिषेकः । चक्रवर्तित्वं पालयन् ब्रह्मदत्तः सुखेन कालं निर्गमयति । अन्यदा चक्रवर्तिनः पुरो नटेन नाट्य कतु मारब्धम् । स्वदास्या अपूर्व कुसुमदामगण्डं हस्ते ढौकितम् । तव प्रेक्षतो गीत
XXXXXXXXXXXXXXXXXXXXXXX
॥१४३
Jain Educatiotsational
For Personal & Private Use Only
Dhorary.org

Page Navigation
1 ... 145 146 147 148 149 150