Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 149
________________ ॥१४॥ तद्भक्तिस्नेहाकृष्टचित्तो ब्रह्मदत्तचक्री सपरिकरो निर्ययौ। उद्याने तं मुनि ददर्श, वन्दित्वा चाग्रे उपविष्टः । मुनिना प्रारब्धा धर्मदेशना । दर्शिता भवनिगुणता, वर्णिताः कर्मबन्धहेतवः, श्लाघितो मोक्षमागः, ख्यापितः शिवसौख्यातिशयः। इमां देशनां श्रुत्वा पर्षत्संविग्ना जाता। ब्रह्मदत्तस्त्वभावित एवमाह--भगवन् ! यथा स्वसङ्गसुखेन वयमाह्लादितस्थिता राज्यस्वीकारेण साम्प्रतमस्मानाहादयन्तु, पश्चादावां तपः स्वयमेव करिष्यावः। एतदेव वा तपसः फलम् । मुनिराह-युक्तमेवेदं वचो भवतामुपकारोद्यतानाम् । परमियं मनुष्यता दुर्लभा, सततं पतनशीलमायुः, श्रीश्च चञ्चला, अनवस्थिता धर्मबुद्धिः, विषया विपाककटवः, विषयासक्तानां च ध्रवो नरकपातः, दुर्लभं पुनर्मोक्षबीजं विरतिरत्नम् , तत्त्यागानरकपातहेतुः, कतिपयदिनमावि राज्याश्रयणं न विदुषां चित्तमालादयति । ततः परित्यज्य कदाशयं प्राग्भवानुभूतदुःखानि स्मर । पिब जिनवचनामृतरसम् । सञ्चर तदुक्तमार्गेण । सफलीकुरु मनुष्यजन्मेति । स प्राह-भगवन्नुपनतत्यागेनाऽदृष्टसुखवाञ्छाऽज्ञानतालक्षणम् , तन्मेवमादिश, कुरु मत्समीहितं । मुनिराह संसारसुखस्य भोगः परभवे महते दुःखाय भावीति तत्त्यागः कार्यः। एवं मुनिना वारंवारमुक्तोऽपि यदा चक्रवर्ती न प्रतिबुध्यते । तदा मुनिना चिन्तितम् । आः ज्ञातम्, पूर्वभवे सनत्कुमारचक्रिस्त्रीरत्नकेशसंस्पशनजाताभिलाषातिरेकेण सम्भूतभवेऽमुना मया निवार्यमाणेनापि चक्रवर्तिपदवीप्राप्तिनिदानं कृतम् । तस्येदृशं फलम् । अतः कारणादसौ दुष्टाध्यवसायो जिनवचनान्यसाध्यानि इत्युपैक्षितानि । मुनिस्ततो विजहार, क्रमेण च मोक्षं गतः। चक्रिणाऽपि प्रकामं सुखमनुभवतः कियान् कालोऽतीतः । अन्यदैकेन पूर्वपरिचितेन द्विजातिनोक्तोऽसौ, भो राजाधिराज ! KXXXXXXXXXXXXXXXXXXXXXXXX KXXXX****** ॥१४॥ IMChelibrary.org Jain Educa ! For Personal & Private Use Only

Loading...

Page Navigation
1 ... 147 148 149 150