Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 148
________________ चक्कचट्टिस्स "द्वादशम ब्रह्मदत्त चक्रवर्तिचरितम् ॥१४४॥ XXXXXXXXXXXXXXXXXXXXXXXX विनोदं शृण्वतश्चक्रवर्तिन एवं विमों जातः । एवंविधो नाट्यविधिर्मया क्वचिद् दृष्टः, क्वचिच्चैतादृशं पुष्पदामगण्डमपि घातम् । एवं चिन्तयतस्तस्य जातिस्मरणमुत्पन्नम् । दृष्टाः पूर्वभवाः, तत्र सौधर्म पद्मगुल्मविमानेऽनुभूतं नाटथदर्शनदिव्यपुष्पाघ्राणादिकं तस्य स्मृतिपथमाययौ। देवसुखस्मरणेन मूर्छा गतः पतितो भूमौ चक्री । पार्श्ववर्तिभिर्वातोक्षेपादिना स्वस्थीकृतः । ततश्चक्रवर्तिना पूर्वेभवभ्रातृशुद्धयर्थ श्लोकाधमिदं रचितम् , यथा "आस्व दासौ मृगौ हंसौ, मातंगावमरौ तथा ।।" इदं श्लोकाधं कृत्वा चक्रिणा वरधनुसेनापतेरुक्तम् , इदं श्लोकाधं सर्वत्र निर्घोषय ? एतत्पश्चिमाधं यः पूरयति तस्य राजा राज्याधं ददाति । इदं श्लोकाध सर्वैलर्लोकः शिक्षितम् , ते यत्र तत्र निर्घोषयन्ति अत्रावसरे स पूर्वभवसम्बन्धी भ्राता चित्रजीवः पुरिमतालनगरे इम्यपुत्रो भूत्वा सञ्जातजातिस्मरणो गृहीतव्रतस्तत्र नगरे मनोरमाभिधाने आरामे समवसृतः। तत्र प्रासुके भूभागे पात्रोपकरणानि निक्षिप्य धर्मध्यानोपगतः कायोत्सर्गेण स्थितः । अत्रान्तरे आरपट्टिकेन पठ्यमानं तत् श्लोकार्ध मुनिना श्रुतम् । ज्ञानोपयागेन स्वभ्रातृस्वरूपं सर्वमवगम्य मुनिनोत्तरचरणद्वयं पूरितम्-- "एषा नो षष्ठिका जातिरन्योन्याभ्यां वियुक्तयोः ॥१॥" ततोऽसावारघट्टिकस्तत् श्लोकाधं लिखित्वा प्रफुल्लास्यपङ्कजो गतो राजकुलम् , पटितश्चक्रिणः पुरः सम्पूर्णः श्लोकः । ततः पूर्वभवभ्रातृस्नेहातिरेकेण चक्री मूर्छा गतः । क्षुभिता सभा । रोषवशंगतेन सेवकवर्गेण आरघट्टिकश्चपेटाभिहंतुमारब्धः, हन्यमानेन तेनोचे, इदं पदद्वयं मया न पूरितम् , किन्तु वनस्थेन मुनिनेति विलपन्नसौ मोचितः। गतमूर्छन चक्रिणा पूर्वभवभ्रातृमुनि समागतं श्रुत्वा KXXXXXXXXXXXXXXXXXXXXXXXX १४४॥ Jain EducatSRinational For Personal & Private Use Only elibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150