Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥ ११६ ॥
1
तु दीक्षा पालितैव परं मलक्लिन्नवस्त्रादिजुगुप्सा कृता, ते चत्वारोऽपि देवलोकं गताः । तत्र जुगुप्साकार कौ द्वौ देवलोकच्युतौ दशपुरनगरे शाण्डिल्यब्राह्मणस्य यशोमत्या दास्याः पुत्रत्वेनोत्पन्नौ युग्मजातौ बभूवतुः । अतिक्रान्तबालभावौ तौ यौवनं प्राप्तौ । अन्यदा क्षेत्ररक्षणार्थं तावटव्यां गतौ, रात्रौ च वटपादपाधः सुप्तौ । तत्रैको दारको वटकोटरान्निर्गतेन सर्पेण दष्टः । द्वितीयः सर्पोपलम्भनिमित्तं भ्रमंस्तेनैव सर्पेण दष्टः । ततो द्वावपि मृतौ कार्लिज्जरपर्वते मृगकुक्षौ समुत्पन्न युग्मजातौ मृगौ जातौ । कालक्रमेण तौ द्वौ मात्रा समं भ्रमन्तावेकेन व्याधेनैकशरेणैव हतौ मृतौ । ततस्तौ द्वावपि गङ्गातीरे एकस्या राजहंस्याः कुक्षौ समुत्पन्नौ जातौ क्रमेण हंसौ, मात्रा समं भ्रमंतावेकेन मत्स्यबन्धकेन गृहीतौ मारितौ च । ततो वाराणस्यां नगर्यो महर्द्धिकस्य भूतदिन्नाभिधस्य चाण्डालस्य पुत्रत्वेन समुत्पन्नौ, क्रमेण जातयोस्तयोः चित्रश्च सम्भृतश्चेति नामनी कृते । तौ चित्र सम्भूतौ मिथः प्रीतिपरौ जातौ ।
I
इतश्च तस्मिन्नवसरे वाराणस्यां नगर्या शङ्खनामा राजा, तस्य नमुचिनामा मन्त्री, अन्यदा तस्य किञ्चित् क्षणं जातम् । कुपितेन राज्ञा स वधार्थं भूतदिन्नचाण्डालस्य दत्तः, भूतदिन्नचाण्डालेन तस्यैवमुक्तम्- - भो मन्त्रिन् ! त्वामहं रक्षामि, यदि मद्गृहान्तभू मिगृहस्थितौ मत्पुत्रौ पाठयसि, जीवितार्थिना तेन तत्प्रतिपन्नम् । भूमिगृहस्थः स चित्र-संभूतौ पाठयति, चित्र-संभूतमाता तु मन्त्रिपरिचर्यां कुरुते । मन्त्री तु तस्यामेव व्यासक्तोऽभूत् निजपत्नीव्यभिचारिचरितं चाण्डालेन ज्ञातम् । नमुचिमारणोपायस्तेन चिन्तितः । पितुरध्यवसायस्ताभ्यां ज्ञातः । उपकार- प्रीतिरताभ्यां स नमुचिर्नाशितः । ततो नष्टः स क्रमेण हस्तिनागपुरे सनत्कुमारचक्रिणो मन्त्री जातः । इतश्च ताभ्यां मातङ्ग
Jain Educationmational
For Personal & Private Use Only
॥ ११६॥
ww.library.org

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150