Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 138
________________ चक्कवट्टिस्स कहा" "द्वादशम् ब्रह्मदत्त चक्रवर्तिचरितम्" । ॥१३४॥ RRRRRRXXXXXXXXXXXXX इह नगयों श्रेष्टिपुत्री रत्नवतीनाम्नी कन्यकास्ति । सा बालभावादारभ्यातीव मम स्नेहानुरक्ता यौवनमनुप्राप्ता। अन्यदिने सा किश्चिद्ध्यायन्ती मया दृष्टा, पृष्टा च पुत्रि! त्वं किं ध्यायसीति । सा किमपि नैव बभाण। परिजनेनोक्तमियं बहून् प्रहरान यावदीदृश्येव किञ्चिदात्तध्यानं कुर्वन्ती दृश्यते । परमस्या हार्द न ज्ञायते । ततः पुनरपि तस्याः पृष्टम् , परं सा किंचिन्नोवाच । तत्सख्या प्रियङ्गुल्या उक्तम्--हे भगवति ! तव पुरः सा लज्जया किञ्चिद्वक्तुं न शक्नोति, अहं तावत्कथयामि । इयं गतदिने क्रीडार्थमुद्याने गता । तत्रानया स्वभ्रातुर्बुद्धिलश्रेष्ठिनः कुर्कुटयुद्धं कारयतः समीपे एको वरकुमारो दृष्टः, तं दृष्ट्वैषा एतादृशी जाता । कुमारीसख्याः प्रियङगुलतिकाया एतद्वचः श्रुत्वा मयोक्तं--पुत्रि ! कथय सद्भावम् , पुनः पुनरेवं मयोक्ता सा कथमपि सद्भावमुक्त्वा प्राह--भगवति ! त्वं मम जननीसमानासि, न किंचित्तवाकथनीयम् । अनया प्रियङ्गुलतिकया कथितो यो ब्रह्मदत्तः कुमारः, स मे पतिभविष्यति तदा वरम्, अन्यथाहं मरिष्यामि । सा मया भणिता-वत्से ! धीरा भव । अहं तथा करिष्ये, यथा तव समीहितं भविष्यति । ततः सा किञ्चत् स्वस्था जाता । कल्यदिने पुनरेवं मया तस्या विशेषाश्वासनाकरणार्थ कल्पितमेवोक्तम् , कन्ये ! य ब्रह्मदत्तकुमारो मया दृष्टः । तयापि समुच्छ्वसितरोमकूपया भणितम्-भगवति ! तव प्रसादेन सर्व भव्यं भविष्यति । किन्तु तस्य विश्वासनिमित्तं धुद्धिलव्यपदेशेनेमं हाररत्नं करण्डके प्रक्षिप्य ब्रह्मदत्तराजनामाङ्कितलेखसहितं कृत्वा कस्यचिद्धस्तेन प्रेषय । ततो मया कल्ये तथा विहितम् । एष लेखव्यतिकरः सर्वोऽपि मया तव कथितः । साम्प्रतं प्रतिलेखं देहि ? ततो मयापि तस्याः प्रतिलेखो दत्तः। तन्मध्ये चेदृशी गाथा लिखितास्ति ॥१३४॥ Jain Educ a tion For Persona 3 Private Use Only dhelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150