Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
"श्री चक्कवट्टिस्म कहा "
॥१३२॥
**********
यथा - महाभाग ! भवता क्वचिदितस्ततो न पर्यटिव्यम् त्वद्गवेषणार्थ दीर्घनियुक्ता नरा इहागताः सन्तीति श्रुत्वा तौ द्वावपि ततो वनान्नष्टौ, भ्रमन्तौ च कौशाम्ब्यां गतौ । तत्र बहिरुद्याने द्वयोः श्रेष्ठितयोः सागरदत्त- बुद्धिलनाम्नोः कुर्कुटयुगलं लक्षपणकरणपूर्वकं योद्धुं प्रवृत्तम्, द्रष्टुं कौतुकेन तौ तत्रैव स्थितौ । बुद्धिलकुर्कुटेन सागरदत्तकुर्कुटः प्रहारेण जर्जरीकृतो भग्नः । सागरदत्तेन प्रेर्यमाणोऽपि स्वकुर्कुटो बुद्धिल कुर्कुटेन समं पुनर्योध्धुं नाभिलषति । हारितं लक्षं सागरदत्तेन । अत्रान्तरे वरधुनुनोक्तं-- भो सागरदत्त ! एष सुजातिरपि कुर्कुटः कथं भग्नः १ ममात्रार्थे विस्मयोऽस्ति । यदि कोऽपि कोपं न करोति तदा बुद्धिलकुकुटमहं पश्यामि । सागरदत्तो भगति - भो महाराज ! विलोकय । नास्त्यत्र मम कोऽपि द्रव्यलोभः किन्त्वभिमान सिद्धिमात्रप्रयोजनमस्तीति । ततो वरधनुना विलोकितः स. कुकुटः तच्चरणनिबद्धः सूचीकलापो दृष्टः, बुद्धिलोऽपि वरधनुं प्रति शनैरेवमाह -- यदि त्वं सूचीकलापं न वक्ष्यसि, तदाहं तव लक्षार्धं दास्यामि । ततो वरधनुनोक्तं -- विलोकितो यत्कुक्कुटो नात्र किञ्चिद् दृश्यते । एवमुक्त्वापि यथा बुद्धिलो न जानाति तथा सूचीकलापमपाकृत्य सागरदत्तस्य तद्वयतिकरः कथितः । सागरदत्तेन पुनः स्वकुकुटः प्रेरितो बुद्धिल कुकुटेन समं युद्धं प्रववृते । सागरदत्तकुकुटेन जितो बुद्धिलकुकुटः, हारितं बुद्धिलेन लक्षम् । तुष्टः सागरदत्त एवमाह--आर्यपुत्र ! गृहे गम्यते, इत्युक्त्वा द्वावपि कुमारौ रथे निवेश्य सागरदत्तः स्वगृहे गतः । सागरदत्तस्तौ परमप्रीत्या पश्यति । सागरदत्तस्नेहनियन्त्रितौ तावतीत्राग्रहात्तद्गृह एव तस्थतुः ।
कियदिनान्तरमेको दासस्तत्रायातः, तेनैकान्ते वरधनुराकारितः, उक्तं च वरधनुकुमाराय तव तदानीं सूची
Jain Educaternational
For Personal & Private Use Only
“द्वादशम्
ब्रह्मदत्त
चक्रवर्ति
चरितम् "
॥१३२॥
inelibrary.org

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150