Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 141
________________ ॥१३७॥ त्वं व गतोऽसीति विलपन कुमारः कथमपि रत्नवत्या रक्षितः। कुमारो रत्नवती प्रत्येवमाह--सुन्दरि! न ज्ञायते वरधनुम तो जीवन् वास्तीति । ततोऽहं तदन्वेषणार्थ पश्चाद्वजामि । तया भणितमार्यपुत्र ! अवसरो नास्ति पश्चाद्वलनस्य, येनाहमेकाकिनी, चौरश्वापदादिभीमं चारण्यमिदम् , अत्र च निकटवर्ती सीमावकाशोऽस्ति, येन परिम्लानाः कुशकण्टका दृश्यन्ते । एतद्रत्नवतीवचः प्रतिपद्य रत्नवत्या सह कुमारः पथि गन्तु प्रवृत्तः मगधदेशसन्धिसंस्थितमेकं ग्रामं च प्राप्तः तब प्रविशन कुमारः सभामध्यस्थितेन ग्रामाधिपतिना दृष्टः। दर्शनानन्तरमेव एष न सामान्य पुरुष इति ज्ञात्वा सोपचारः प्रतिपत्त्या पूजितो नीतश्च स्वगृहम, दत्तस्तत्र सुखावासः। तत्र सुखं तिष्ठन् स एकदा ग्रामाधिपतिना भणित:-कुमार! त्वं विखिन्न इव कि लक्ष्यसे ? कुमारेणोक्तम्--मम भ्राता चौरेण सह भण्डनं कुर्वन् न जाने कामप्यवस्था प्राप्तः, ततो मया तदन्वेषणार्थ तत्र गन्तव्यम् । ग्रामाधिपेनोक्तमलं खेदेन, यद्यस्यामटव्यां स भविष्यति तदावश्यमिह प्राप्स्यामः। इति भणित्वा तेन प्रेषिता निजपुरुषा अटव्यां गत्वा समायाताः कथयन्ति, यदस्माभिः सर्वत्र स पुरुषो गवेषितः परं क्वचिन्न दृष्टः । किन्तु प्रहारापतितो वाण एवैष दृष्टः । ततः कुमारो वरधनुमृत इति चिरकालं शोकं चकार । एकदा रात्रौ तस्मिन् ग्रामे चौरधाटिः पतिता, सा च बाणः कुमारेण जर्जरीकृता नष्टा । अथ हर्षितो ग्रामाधिपतिमश्च । अथ ग्रामाधिपतिमापृच्छ्य ततश्चलितः कुमारः क्रमेण राजगृहं प्राप्तः । तत्र नगराद्वहिः परिव्राजकाश्रमे रत्नवतों मुक्त्वा स्वयं नगराभ्यन्तरे गतः। तत्रैकस्मिन् प्रदेशे तेन धवलगृहं दृष्टम् । तदन्तः प्रविष्टेन कुमारेण द्वे कन्ये दृष्टे, ताभ्यां कुमारं दृष्ट्वा प्रकटितानुरागाभ्यां भणितम् । कुमार ! युष्मादृशामपि XXXXXXXXXXXXXXXXXXXXXXX *॥१३७॥ Jain Education R ational For Personal & Private Use Only wwJUNalibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150