Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 139
________________ ॥१३५॥ ************ "गुरुगुणवरधरणुकलिओ, तं माणिओ मुणइ बंभदत्तोवि । रयणवई रयणमई, चंदोवि य चंदिमा जोगो ॥ १ ॥ " गुरुगुणवरधनुकलितः, तं मानितो जानाति ब्रह्मदत्तोऽपि । रत्नवती रत्नमयी, चन्द्रोऽपि च चन्द्रमायोगः ।। १ ।। इदं वरधनूक्तमा अष्टायामपि रत्नवत्यां परमप्रेमवान् कुमारो जातः । तद्दर्शनसङ्गमोपायमन्वेषमाणस्य कुमारस्य गतानि कतिचिद्दिनानि । अन्यदिने समागते नगरबाह्याद्वरधनुरेवं वक्तुं प्रवृत्तः, यथा एतन्नगरस्वामिनो दीर्घनृपेण स्वकिङ्करा आवां गवेषणाय प्रेषिताः सन्ति । नगरस्वामिना चावां ग्रहणोपायः कारितोऽस्ति । एतादृशी लोकवार्ता बहिः श्रुता । सागरदत्तेन एतद्वयतिकरं श्रुत्वा तौ द्वावपि भूमिगृहे गोपितौ । रात्रिः पतिता, कुमारेण सागरदत्तस्य भणितं -- तथा कुरु, यथावामपक्रमाः । एतदाकर्ण्य सागरदत्तस्ताभ्यां द्वाभ्यां सह नगराद्बहिर्निर्गतः । स्तोकां भूमिं गत्वाऽनिच्छन्तमपि सागरदत्त बलान्निवर्त्य कुमारखरधनु द्वावपि गन्तुं प्रवृत्तौ । पथि गच्छद्द्भ्यां ताभ्यां यक्षायतनोद्यानपादपान्तरालस्थिता प्रहरणसमन्वितरथवरसमीपस्था एका प्रवरमहिला दृष्टा ततस्तया समुत्थाय सादरं तौ भणितौ, किमियत्यां वेलायां भवन्तौ समायातो ? इति तस्या वचः श्रुत्वा कुमारः प्राह - भद्रे ! कौ आव १ तयोक्तं त्वं स्वामी ब्रह्मदत्तोऽयं च वरधनुः कुमार इति । कुमार उवाच - - कथमेतदवगतं त्वया ? सा उवाच श्रूयताम्-इहैव नगर्या धनप्रवरो नामा श्रेष्ठी वर्तते, तस्य धनसंचया भार्या वर्तते, तथा अष्टपुत्राणामुपर्येका पुत्री प्रसूता सा चाहमेव । मा च कोऽपि पुरुषो न रोचते, ततो मातुरनुज्ञयाहं यक्षमाराधितुं प्रवृत्ता । तुष्टेन यक्षेणैवमुक्तम् — वत्से ! तव भर्ता भविष्यचक्रवर्ती ब्रह्म Jain Education International For Personal & Private Use Only ************** ॥१३५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150