Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 137
________________ ॥१३३॥ व्यतिकरद्रव्यं स्वमुखोक्तं बुद्धिलेन तद्रव्यार्पणायायं हारः प्रेषितोस्ति । इत्युक्त्वा हारकरण्डिका तेन वरधनवे दत्ता, दासः स्वगृहे गतः। वरधनुरपि हारकरण्डिका गृहीत्वा ब्रह्मदत्तान्तिके गतः, स्वरूपं कथयित्वा हारकरण्डिकातो हारं । निष्कास्य दर्शितवान् । हारं पश्यता ब्रह्मदत्तेन हारैकदेशस्थो ब्रह्मदत्तनामाङ्कितो लेखो दृष्टः । पृष्टं च मित्र ! कस्यैष लेखः१ वरधनुर्भणति को जानाति । ब्रह्मदत्तनामकाः पुरुषा बहवः सन्ति । ततो दूरे गत्वा वरधनुनोत्कीर्णो लेखः। तन्मध्ये इयं दृष्टा “पस्थिज्जइ जइ विजए, जणेण संजोयजणियजत्तेणं । तहवि तुम चिय धणि, रयणवई मुणे माणेउं ॥१॥" - प्रार्थ्यते य यद्यपि जये, जनेन संयोगजनितयत्नेन । तथापि त्वमेव धनिक, रत्नवती जानाति मानयितुं ॥१॥ उपदेशपदे षष्ठश्लोकवृत्त्या इयं गाथा एवमस्ति-पत्थिज्जइ जइ हियए, जणेण संजोग-जणिय-जत्तेण । तहवि तुमं चिय धणि रयणवई महइ माणेउं ॥ २५४॥ सूक्ष्मबुद्धया ध्यायता वरधनुनास्या गाथाया अर्थोऽवगतः। द्वितीयदिने एका परिव्राजिका तत्रायाता । सा कुमारशिरसि कुसुमाक्षतानि प्रक्षिप्य-कुमार ! त्वं शतसहस्रायुभवेत्याशिषं ददौ । ततः सा वरधनुमेकान्ते नयतिस्म । तेन समं किञ्चिन्मन्त्रयित्वा सा प्रतिगता । कुमारेण वरधनुर्जल्पितः, अनया किमुक्तं ? वरधनुर्भणति अनयैवमुक्तं यत्तत्र बुद्धिलेन करण्डे हारः प्रेषितोऽस्ति, तेन समं च यो लेखः समागतोऽस्ति, तत्प्रतिलेखं समर्पय । मयोक्तमेष लेखो ब्रह्मदत्तराजनामाङ्कितो वर्तते । ततस्त्वमेव वद कोऽसौ ब्रह्मदत्तः । तयोक्तं श्रयताम, परं कस्यापि त्वया न वक्तव्यम् । PR॥१३३॥ KXXXXXXXXXXXXXXXXXXXXXXXX Jain Educ Suklnelbrary.org a For Personal & Private Use Only tional

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150