Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 135
________________ ॥१३१॥ विलोकयन्ती स्थिता । तदानीं त्वं तत्रायातो मया भाग्यात् प्राप्तश्चेति परमार्थः । ततस्तया श्रीकान्तया समं विषयसुखमनुभवतस्तस्य सुखेन वासरा यान्ति । अन्यदा स पल्लीपतिः कुमारेण समं निजसैन्यवेष्टितः स्वविरोधिनृपदेशभगाय चलितः । मार्गे गच्छतस्तस्य क्वचित्सरस्तीरे वरधनुर्मिलितः । कुमारेणोपलक्षितः । कुमार दृष्ट्वा स रोदितुं प्रवृत्तः कुमारेण बहुप्रकारं वारितः स्थितः । कुमारेण पृष्टं--मत्तो दूरीभूतेन त्वया किमनुभृतं ? वरधनुः प्राह--कुमार! तदानीं त्वां वटाध उपवेश्याहं जलार्थ गतः, सर एकं च दृष्टवान् । ततो जलं गृहीत्वा तवान्तिके यावदहमागन्तुं प्रवृत्तस्तावत्सन्नद्धबद्धकवचैदीर्घनृपभटैः सहसान्मिलितैरहमुपलक्षितस्ताडितश्च, उक्तं ब्रह्मदत्त इति । मयोक्तमहं न जानामि । ततो दृढतरं ताडिताऽहमवदं च व ब्रह्मदत्तो व्याघ्रण भक्षितः। तैरुक्तं तं देशं दर्शय ? तैमार्यमाणोऽहं तवान्तिकदेशमागत्य तदानीं तो संज्ञामकार्षम् । त्वयि ततो नष्टेऽहं पुनस्तैभृशं ताडयमानः स्वमुखे परिव्राजकदत्ता गुटिकां क्षिप्तवान् । तत्प्रभावादहं निश्चेष्टो जातः । ततस्ते मृतोऽयमिति ज्ञात्वा सर्वेऽपि भटा गताः । तेषां गमनानन्तरं चिरकालेन मया गुटिका मुखानिष्कासिता। ततः सचेतनोऽहं त्वां गवेषयितु प्रवृत्तः। न मया दृष्टस्त्वम् , ततोऽहमेकं ग्रामं गतः, तत्र दृष्ट एकः परिव्राजकः । तेनोक्तमहं तव तातस्य मित्रं सुभगनामा, तव पिता धनुर्नेष्टः, माता तु दीर्घेण गृहीता । मातङ्गपाटके च क्षिप्तास्तीति श्रुत्वाहमतीव दुःखितः कांपिल्यपुरे गतः । कापालिकवेषं कृत्वा मातङ्गमहत्तरं च वश्चयित्वा मातङ्गपाटकान्मातरं निष्कासितवान् । एकस्मिन् ग्रामे पितृमित्रस्य देवशमंत्रा मातरं मुक्त्वा त्वामन्वेषयन्नहमिहायातः । इत्थं यावत्तौ वरधनुब्रह्मदत्तौ वातों कुरुतस्तावदेकः पुरुषस्तत्रागत्यैवमुवाच, XXXXXXXXXXXXXXXXXXXXXXXX ॥१३१ Jain Educat clalbrary.org For Personal & Private Use Only i onal

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150