Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
"द्वादशम्
चकवट्टिस्स
कहा"
ब्रह्मदत्त
चक्रवर्ति। चरितम्
XXXXXXXXXXXXX
दत्तो भविष्यति । मया भणितं-स मया कथं ज्ञातव्यः ? तेन उक्तम्-बुद्धिल-सागरदत्तयोः कुकटबुद्धिमध्ये यो दृष्टः तवानन्दं जनयिष्यति स वरधनुमित्रसहितो ब्रह्मदत्तकुमार उपलक्ष्यः । ततः परं मया हारलेखप्रेषणादिकं यत्कृतम् , तत्सर्व तव सुप्रतीतमेवास्तीति कुमारीवाक्यमाकण्य सानुरागः कुमारस्तया सह रथमारूढः । सा कुमारेण पृष्टा इतः क गन्तव्यम् १ रत्नवत्या भणितम् , अस्ति मगधपुरे मम पितुः कनिष्ठभ्राता धनसार्थवाहनामा श्रेष्ठी, स ज्ञातव्यतिकरो युवयोर्मम च समागमनं सुन्दरं ज्ञास्यति, ततस्तत्र गमनं क्रियते । पश्चाद्यथा युवयोरिच्छा तथा कार्यमिति रत्नवतीवचसा कुमारो मगधपुराभिमुखं गन्तुं प्रवृत्तः । वरधनुस्तदा सारथिर्बभूव । ग्रामानुग्रामं गच्छन्तौ तौ कौशाम्बीदेशानिर्गतौ । अन्यदा गतौ गिरिगुहाटव्याम् । तत्र कण्टक--सुकण्टकाभिधानौ द्वौ चौरसेनापती तं प्रवरं रथम् , विभूषितं स्त्रीरत्नं च प्रेक्ष्य, तद्रक्षकं च कुमारद्वयमेव प्रेक्ष्य सन्नद्धौ सपरिवारौ प्रहन्तुमायातौ । अत्रावसरे कुमारेण तथा प्रहरणशक्तिर्दर्शिता, यथा सर्वेऽपि चौरसुभटाः कुमारप्रहाराज्जर्जराः सर्वासु दिक्षु गताः । कुमारस्ततो रथारूढश्चलितः। वरधननोक्तं-कमार! यूयं दृढश्रान्ताः, ततो मुहूर्तमात्रमत्रैव रथे निद्रासुखमनभवत । ततो रत्नवत्या सह कमारः प्रसुप्तः । गिरिनदी एका मार्गे समायाता, तावत्तुरङ्गमाः श्रमखिन्ना नाग्रे चलन्ति । ततः कश्चित्प्रतिबुद्धः कुमारः श्रमखिन्नांस्तुरङ्गमान् पश्यन् रथाग्रे च वरधनुमपश्यन् जलनिमित्तं वरधनुगतो भविष्यतीति चिन्तितवान् । इतस्ततः पश्यन् कुमारो रथाग्रभागं रुधिरावलिप्तं ददर्श । ततो व्यापादितो वरधनुरिति ज्ञात्वा हाहा ! हतो मे सुहृदिति शोकातः कुमारो रथोत्संगात्पपात, मूर्छा च प्राप्तवान् । पुनरपि लब्धचैतन्यः स एवं विललाप । हा भ्रातः ! हा वरधनुमित्र !
॥१३६॥
R||१३६॥
Jain Educatidalmational
For Personal & Private Use Only
Selelibrary.org

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150