Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
चक्कवट्टिस्स
XXXXXXX
"द्वादशम् ब्रह्मदत्त चक्रवतिचरितम्"
कहा"
॥१२४॥
KXXXXXXXXXXXXX
संलग्नः। एवं प्रवर्धमानविषयसुखरसयोस्तयोर्गच्छन्तिः दिनाः। ततो ब्रह्मराजमन्त्रिणा धनुर्नाम्ना तयोस्तत्स्वरूपं ज्ञातम् । चिन्तितं च य एवंविधमकार्यमाचरति, स किं कुमारब्रह्मदत्तस्य हिताय भविष्यति ? एवं चिन्तयित्वा तेन धनुर्नाम्ना मन्त्रिणा स्वपुत्रस्य वरधनुनाम्नः कुमारस्यैवं भणितम् , यथा पुत्र ! ब्रह्मदत्तस्य माता व्यभिचारिणी जातास्ति, दीर्घराज्ञा भुज्यमानास्ति । अयं समाचार एकान्ते त्वया ब्रह्मदत्तकुसारस्य निवेदनीयः, तेन च तथा कृतम् ।
ब्रह्मदत्तकुमारोऽपि मातुर्दुश्चरितमसहमानस्तयोओपनार्थ काक-कोकिलामिथुनं शूलाप्रोतं कृत्वा चुलिनीमातृदीर्घनृपयोर्दशितम् । एवं प्रोक्तं च, य ईदृशमनाचारं करिष्यति, तस्याहं निग्रहं करिष्यामीत्युक्त्त्वा कुमारो बहिर्गतः। एवं द्वित्रिभिदृष्टान्तैदिनत्रयं यावदेवं चकार उवाच च । ततो दीघनृपेण शङ्कितेन चुलिन्या एवमुक्तम्--कुमारेणावयोः स्वरूपं ज्ञातम् , अहं काकस्त्वं कोकिलेति दृष्टान्तः कुमारेण ज्ञापितः । तयोक्तं बालोऽयं यत्तदुल्लपति । नात्रार्थे काचिच्छङ्का कार्या । ततो दीर्घपृष्टेनोक्तम् त्वं पुत्रवात्सल्येन न किमपि स्वहितं वेत्सि, अयमवश्यमावयोरतिविघ्नकरः, तदवश्यमयं मारणीयः, मयि स्वाधीने तवान्ये पुत्रा बहवो भविष्यन्ति । एतादृशं दीर्घनृपवचस्तयाङ्गीकृतम् । यत उक्तं
"महिला जालकुलहरं, महिला लोयंमि दुचरियखित्तं । महिला दुग्गइदारं, महिला जोणी अणत्थाणं ॥१॥ मारेइ य भत्तारं, हणे सुअं तह पणासए अत्थं । नियगेहंपि पीलावै, णारी रागाउरा पावा" ॥२॥ महिला जालकुलघरं, महिला लोके दुश्चरित्रक्षेत्रम् । महिला दुर्गतिद्वार, महिला योनिः अनर्थानाम् ॥१॥ मारयति च भर्तारं, नन्ति सुतं तथा प्ररणाशयति अर्थम् । निजगृहमपि पीडापयति, नारी रागातुरा पापा ॥२॥
XXXXXXXXXXXXX XXXX
2॥१२४॥
Jain Educati
o nal
For Personal & Private Use Only
wwd
atibrary.org

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150