Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 130
________________ "श्री चक्काट्टिस्स "द्वादशम ब्रह्मदत्त चक्रवर्तिचरितम्" कहा" ॥१२६॥ KXXXXXXXXXXXXXX भूभागं गतो। दीर्घमार्गखेदेन तुरङ्गमौ व्यापन्नौ । ततः पादचारेण गच्छन्तौ तौ कोट्टाभिधानग्रामं गतौ, कुमारेण वरधनुर्भणितः, मां क्षुधा बाधते । वरधनुः कुमारं बहिरेवोपवेश्य स्वयं ग्राममध्ये प्रविष्टः । नापितं गृहीत्वा तत्रायातः । कुमारस्य मस्तकं मुण्डापितम्, परिधापितानि कषायवस्त्राणि, चतुरङ्गलप्रमाणपट्टबन्धः कुमारस्य श्रीवत्सालकृते हृदि बद्धः, वरधनुनापि वेषपरावर्तनः कृतः । तादृशवेषधरौ द्वावपि ग्राममध्ये प्रविष्टौ । तावता एको द्विजः स्वमन्दिरान्निर्गत्याभिमुखमागत्य तौ कुमारौ प्रत्येवमाह । आगच्छतामस्तमद्गृहे, भुञ्जतां च । तेनेत्युक्ते तो द्वावपि तद्गृहे गतौ । ब्राह्मणेन राजरूपप्रतिपत्तिपूर्वकं तौ भोजितौ । भोजनान्ते चैका प्रवरमहिला बन्धमती नाम्नी कन्यामुद्दिश्य ब्रह्मदत्तकुमारमस्तकेऽक्षान् प्रक्षिपति । भणति चेषोऽस्याः कन्याया वरोऽस्त्विति । वरधनुना भणितम् किमेतर बटुकस्य कृते एतावानायासः क्रियते ? ततो गृहस्वामिना भणितं श्रूयतामस्मस्मदायासवृत्तान्तः पूर्व सुवृत्तनैमेत्तिकेनाख्यातं यथास्या बालिकायाः पट्टाच्छादितवक्षःस्थलः समित्रो भवद्गृहे भोजनकारी वरो भविष्यति । सोऽयमस्या योग्यो वर इति । तस्मिन्नेव दिने तस्याः कन्यायाः कुमारेण पाणिग्रहणं कारितम् । मुदितो गृहस्वामी, कुमारस्त्वेकरात्रौ तत्र स्थितः । द्वितीयदिने वरधनुना कुमारस्योक्तमावाभ्यां दूरे गन्तव्यम् । दीर्घराजासन्नत्वेनात्र स्थातुमावयोरयुक्तमिति तो द्वावपि बन्धुमत्याः स्वरूपं कथयित्वा निर्गतौ । गच्छन्तौ । तावेकदा कस्मिंश्चिद् दूरग्रामे गती। तृषाक्रान्तं कुमारं बहिरुपवेश्य वरधनुः सलिलमानेतु ग्राममध्ये प्रविष्टः। स्वरितमेव पश्चादागत्यैवं कुमारस्योक्तवान् । अत्र ईदृशो जनापवादो मया श्रुतः, यद्दीर्घनृपेण ब्रह्मदत्तमार्गः सर्वत्र XXXXXXXXXXXXXXXXXXXXXXXX ॥१२६॥ Jan Educa For Persona 3 Private Use Only orary.org

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150