Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥१२॥
तयोः स्वागतं पृष्टम् । ताभ्यां पूर्ववृत्तान्तकथनपूर्वकं स्वाभिप्रायः साधोः कथितः । साधुना कथितम्--न युक्तमनेकशास्त्रावदातबुद्धीनां भवादृशानां गिरिपतनमरणम् । सर्वदुःखक्षयकारणं श्रीवीतरागधर्म गृह्णन्तु । इति पञ्चमहाव्रतरूपः श्रीवीतरागधर्मस्तयोः कथितः । ततस्ताभ्यां तस्य मुनेः समीपे दीक्षा गृहीता। कालक्रमेण तौ गीताौँ जातौ । ततः स्वगुज्ञिया षष्ठा-ष्टम-दशम द्वादशा-ऽर्धमास-मासक्षपणादितपोभिरात्मानं भावयन्तौ ग्रामानुग्रामं विहरन्तौ कालान्तरेण हस्तिनागपुरं प्राप्ती बहिरुद्याने च स्थितौ।। ___ अन्यदा मासक्षपणपारणके सम्भूतसाधुनगरमध्ये भिक्षार्थ प्रविष्टः । गृहानुग्रहं भ्रमन राजमार्गानुगतो गवाक्षस्थेन नमुचिमन्त्रिणा दृष्टः, प्रत्यभिज्ञातश्च । चिन्तितं च स एष मातङ्गदारको मदध्यापितो मच्चरित्रमशेषमपि जानबस्ति कदाचिच्च लोकाग्रे वक्ष्यते, तदा मन्महत्वभ्रंशो भविष्यतीति मत्वा दूतैः स मुनिर्यष्टिमुष्टथाविभिर्भारयित्वा नमुचिना नगराबहिनिष्कासयितुमारब्धः, निरपराधस्य हन्यमानस्य तस्य कोपकरालितस्य मुखाग्निर्गतः प्रथमं धूम
स्तोमा, तेन सर्वमपि नगरमन्धकारितम् भयकौतूहलाक्रान्ता नागरास्तत्रायाता। क्रोधाक्ष्मातं तं मुनि दृष्टा सर्वेऽपि * प्रसादयितुं प्रवृत्ताः । सनत्कुमारचक्रवर्त्यपि तत्रायातः । तं प्रसादयितुं प्रवृत्त एवं बभाण-भगवन् ! यदस्मादृशैर
ज्ञानरपराद्ध तद्भवद्भिः क्षमणीयम् । संहरन्तु तपस्तेजःप्रभावम् । कुर्वन्तु ममोपरि प्रसादं सर्वनागरिकजीवितप्रदानेन । पुनरेवंविधमपराधं न करिष्यामः । इत्यादि चक्रिणाप्युक्तोऽसौ यावन्न प्रशाम्यति, तावदुद्यानस्थश्चित्रसाधुर्जनापवादात्तं कुपितं ज्ञात्वा तस्य समीपमागत एवमुवाच । भो सम्भूतसाधो! उपशामय कोपानलम् , उपशमप्रधानाः श्रमणा
॥१२॥
Jain Educa
!
For Persona 3 Private Use Only
Plelorary.org

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150