Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥११७॥
'आयरिए गच्छंमि, कुलगणसंघे अचेइअविणासे । आलोइयपडिक्कतो, सुद्धो जं निजरा विउला ॥१॥" प्राचार्ये गच्छे, कुलगणसङ्घ च चैत्यविनाशे, मालोचितप्रतिक्रान्त:, शुद्धो यत् निर्जरा विपुला ॥१॥
निष्कलङ्क श्रामण्यमनुपाल्य समुत्पन्नकेवलः स विष्णकुमारः सिद्धिं गतः। महापद्मचक्रव_पि क्रमेण दीक्षा गृहीत्वा सुगतिभागभूत् । इति महापद्मदृष्टान्तः ।
श्री दशम चक्रवर्ति हरिषेण चरितम् काम्पिल्ये नगरे महाहरिराज्ञो मेरादेव्याः कुक्षौ चतुर्दशस्वप्नसूचितो हरिषेणनामा चक्रवर्ती समुत्पन्नः । क्रमेण 8 यौवनं प्राप्तः पित्रा राज्ये स्थापितः । उत्पन्नानि चतुर्दश रत्नानि, प्रसाधितं च भरतम् , कृतपट्टाभिषेको हरिषेण उदा
रान् भोगान् भुञ्जन् कालं गमयति । अन्यदा लघुकर्मतया भववासाद्विरक्तः स एवं चिन्तित प्रवृत्तः। पूर्वकृतसुकृतकर्मवशेन मयात्रेदशी ऋद्धिः प्राप्ता, पुनरपि परलोकहितं करोमि । उक्तं च-- ___"मासैरष्टभिरह्ना वा, पूर्वेण वयसा यथा । तत्कर्तव्यं मनुष्येण, यथान्ते सुखमेधते ॥१॥" एवमादि परिभाव्य पुत्रं राज्ये निवेश्य स निष्क्रान्तः, उत्पन्न केवलश्च सिद्धिं गतः। पञ्चदशधनुरुच्चत्वं दशवर्षसहस्रायुश्च सञ्जातमिति हरिषेणचक्रिदृष्टान्तः ।।
KXEXXXXXXXXXXXXXXXXXXXXXXX
॥११॥
Jain Educati
o nal
For Personal & Private Use Only
wwdewalibrary.org

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150