Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥११॥
यूयं पुनः स्तब्धाः सर्वपाखण्डा दृषका निर्मर्यादा मां निन्दथ, अतो मदीयं राज्यं मुक्त्वाऽन्यत्र यथासुखं व्रजत । यो युष्माकं मध्ये कोऽपि नगरे भ्रमन् द्रक्ष्यते स मे वध्यो भविष्यति । सुव्रताचार्यरुक्तं राजन्नस्माकं राजवर्धापनाचारो नास्ति, तेन वयं त्वद्वर्धापनकृते नायाताः, न च वयं किंचिनिन्दामः, किं तु समभावास्तिष्ठामः । ततः स रुष्टः प्रतिभणति यदि श्रमणं सप्तदिनोपर्यहं द्रक्ष्यामि तमहमवश्यं मारयिष्यामि, नात्र सन्देहः। एतन्नमुचिवाक्यं श्रुत्वाचार्याः स्वस्थानमायाताः, सर्वेऽपि साधवः पृष्टाः, किमत्र कर्तव्यं ? तत एकेन साधुना भणितम् , यथा सदा सेविततपोविशेषो विष्णकुमारनामा महामुनिः साम्प्रतं मेरुपर्वतचूलास्थो वर्तते । स च महापद्मचक्रिणो भ्रातास्ति, ततस्तद्वचनादयमुपशमिष्यति । आचार्यरुक्तं तदाकारणार्थ यो विद्यालब्धिसंपन्नः स तत्र व्रजतु । __तत एकेन साधुनोक्तमहं मेरुचूला यावद्गगने गन्तुं शक्तोऽस्मि । पुनः प्रत्यागन्तुं न शक्तोऽस्मि । गुरुणा भणितं विष्णकुमार एव त्वामिहानेष्यति । तथेति प्रतिपद्य स मुनिराकाशे उत्पतितः, क्षणमात्रेण मेरुचूलायां प्राप्तः । तमायन्तं दृष्ट्वा विष्णुकुमारेण चिन्तितं किंचिद्गुरुकं संघकार्यमुत्पन्नम् , यदयं मुनिवर्षाकालमध्येऽत्रायातः । ततः स मुनिर्विष्णकुमारं प्रणम्यागमनप्रयोजनं कथितवान् । विष्णकुमारस्तं मनिं गृहीत्वा स्तोकवेलयाऽऽकाशमार्गेण गजपुरे प्राप्तः, वन्दितास्ते गुरवः, गुर्वाज्ञया साधुसहितो विष्णुकुमारमुनिर्नमुचिपर्षदि गतः सर्वैः सामन्तादिभिर्वन्दितः, नमुचिस्तु तथैव सिंहासने तस्थिवान्, न मनाग विनयं चकार । विष्णुना धर्मकथनपूर्व नमुचेरेवं भणितम् , वर्षाकालं यावन्मुनयोऽत्र तिष्ठन्तु । नमुचिना भणितम् , किमत्र पुनः पुनवेचनप्रयासेन ? पञ्चदिवसान् यावन्मुन
XXXXXXXXXXXXXXXXXXXXXXXXX
॥१११
Jain Educatolational
For Personal & Private Use Only
Relibrary.org

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150